सामग्री पर जाएँ

हृष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हृष, उ हृष्टौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् । क्वावेट् ।) हृष्टिश्चित्तोत्साहः । उ, हर्षित्वा हृष्ट्वा । क्त्वा इमो वेटत्वान्नेम डी- श्वीत्वादिना इमे निषेधे निष्ठायां हृष्टः अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥

हृष, उ ञि अलीके । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् । क्वावेट् ।) उ, हर्षित्वा हृष्ट्वा । ञि, हृष्टोऽस्ति । अलीकं मिथ्याकरणम् । हर्षति कथां नीचः मिथ्या करोति इत्यर्थः । इति दुर्गादासः ॥

हृष, य ञि इर् हृष्टौ । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-अक०-सेट् ।) य, हृष्यति लोकः सुखात् । ञि, हृष्टोऽस्ति । इर अहृषत् अह- र्षीत् । अस्मात् पुषादित्वा न्नित्यं ङ, इत्यन्ये । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हृष¦ चित्तोत्साहे म्वा॰ पर॰ अक॰ सेट्। हर्षति अहर्षीत्। उदित् हृषित्वा हृष्ट्वा हृष्टः।

हृष¦ हर्षे चित्तोत्साहे दि॰ प॰ अ॰ सेट्। हृष्यति इरित्अहृषत् अहर्षीत् ञीत् हृष्टोऽस्ति।

हृष¦ मिथ्याकरणे भ्वा॰ पर॰ सक॰ सेट् उदित् क्त्वा वेट्। हर्षति अहर्षीत्।

"https://sa.wiktionary.org/w/index.php?title=हृष&oldid=274732" इत्यस्माद् प्रतिप्राप्तम्