हेतिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हेतिः, स्त्री, (हन्यतेऽनयेति । हन + “ऊतियूति- जूतिसातिहेतिकीर्त्तयश्च ।” ३ । ३ । ९७ । इति क्तिन् । निपातितश्च ।) अस्त्रम् । (यथा, रघुः । १० । १२ । “दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः । हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम् ॥” हिनोति इति । हि + क्तिन् । निपातितश्च ।) सूर्य्यकिरणः । अग्निशिखा । इत्यमरः । ३ । ३ । ७० ॥ शिखा । तत्रैव । १ । १ । ६० ॥ तेजोमात्रम् । इति भरतः ॥ साधनम् । यथा, -- “सध्रुङ्नियम्य यतयो यमकर्त्तहेतिं जह्युः स्वराडिव निपानखनित्रमिन्द्रः ॥” इति श्रीभागवते । २ । ७ । ४७ ॥ कर्त्तो भेदः तन्निरासोऽकर्त्तः तत्र हेतिं साधनं जह्युः । इति श्रीधरस्वामी ॥ पुं, असुरविशेषः । यथा, भागवते । ६ । १० । २० । “पुनोमा वृषपर्व्वा च प्रहेतिर्हेतिरुत्कलः । दैत्येया दानवा यक्षा रक्षांसि च सहस्रशः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हेतिः [hētiḥ], m., f. [हन्-करणे क्तिन् नि˚] A weapon, a missile; समरविजयी हेतिदलितः Bh.2.44; R.1.12; Ki.3.56;14.3.
A stroke, injury.
A ray of the sun.
Light, splendour.
Flame; वहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः Mb.5.16.6; Śi.14.25.
An implement, instrument; सध्ऱ्यङ् नियम्य यतयो यमकर्तहेतिं जह्युः स्वराडिव निपानखनित्रमि Bhāg.2.7.48.
Shot, impact (of a bow-string).
A young sprout.
