हेत्वाभास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेत्वाभासः, पुं, (हेतुरिव आभासते । आ + भास + अच् । हेतोरामासो वेति । आ + भास + घञ् ।) हेतुदोषः । स तु पञ्चविधः । व्यभि- चारः १ विरुद्धः २ असिद्धः ३ सत्प्रतिपक्षः ४ वाधः ५ । यथा, -- “अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः । कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ॥ आद्यः साधारणस्तु स्यात् स्यादसाधारणो- ऽपरः । तथैवानुपसंहारी त्रिधानैकान्तिको भवेत् ॥ यः सपक्षे विपक्षे च स तु साधारणो मतः । यस्तूभयस्माद्व्यावृत्तः स त्वसाधारणो मतः ॥ तथैवानुपसंहारी केवलान्वयिपक्षकः । यः साध्यवति नैवास्ति स विरुद्ध उदाहृतः ॥ आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ । व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतस्त्रिधा ॥ पक्षासिद्धिर्यत्र पक्षो भवेन्मणिमयो गिरिः । ह्रदो द्रव्यं धूमवत्त्वादत्रासिद्धिरथापरा ॥ व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत् । विरुद्धयोः परामर्शो हेत्वोः सत्प्रतिपक्षता ॥ साध्यशून्यो यत्र पक्षस्त्वसौ वाध उदाहृतः । उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते ॥” इति भाषापरिच्छेदः ॥ * ॥ तस्य सामान्यलक्षणानि यथा । अनुमिति- कारणीभूताभावप्रतियोगि यथार्थज्ञानविष- यत्वम् । यद्विषयत्वेन लिङ्गज्ञानस्यानुमितिप्रति- बन्धकत्वम् । ज्ञायमानं सत् यदनुमितिप्रति- बन्धकं तत्त्वं वा हेत्वाभासत्वम् ॥ * ॥ तस्य विशेषलक्षणानि यथा । उभयकोट्युपस्थापक- तावच्छेदकरूपवत्त्वं तत्त्वम् । विरुद्धान्यपक्ष- वृत्तित्वे सति अनुमितिविरोधिसम्बन्धाव्या- वृत्तिर्व्वा अनैकान्तिकः । विपक्षवृत्तित्वं साधा- रणत्वम् । सर्व्वसपक्षव्यावृत्तो हेतुरसाधारणः । व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावो यत्र स हेत्वभिमतोऽनुपसंहार्य्यः ॥ * ॥ साध्यव्यापका- भावप्रतियोगित्वं विरुद्धत्वम् ॥ * ॥ साध्यविरो- ध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्व- कार्य्यलिङ्गंत्वंतत्वं सत्प्रतिपक्षितत्वम् ॥ * ॥ व्याप्ति- पक्षधर्म्मतानिश्चयविरोधिरूपवत्त्वं असिद्धिः । पक्षनिष्ठ-प्रमाविषयत्व-प्रकारामाव-प्रतियोगि- साध्यकत्वं वाधः । इति चिन्तामणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेत्वाभास¦ पु॰ हेतुरिव आभासते आ + भास--अच्, हेतोर्वाआभासः आ + भास--घञ्। न्यायोक्ते

१ दुष्टे हेतौ

२ हे-तुदाषे च। स च दोषः पञ्चविथः व्यभिचारः विरुद्धताअसिद्धिः सत्प्रतिपक्षता बाधश्च। तादृशदोषेषु सत्सुअनुमितिर्नोदेति। यस्य हि ज्ञानमनुमितिप्रतिबन्धकंस हेत्वाभासः। अत्र हेतूनामाभास इति व्युत्पत्त्याहेत्वामासपदस्य हेतुदोषपरत्वम्। तल्लक्षणञ्च हेत्वा-भासत्वम् तच्च अनुमितिकारणीभूताभावप्रतियोगि-यथार्थज्ञानविषयत्वम्। यद्विषयकत्वेन लिङ्गज्ञान-स्यानुमितिविरोधित्वं तत्त्वम्। ज्ञायमानं सद् यद-नुमितिप्रतिबन्धकं तत्त्वम्। यद्विषकनिश्चयस्य विरो-धिविषयताप्रयुक्तस्तदुत्तरमनुमितावनाहार्य्यमानसज्ञानेवा पक्षतावच्छेदकविशिष्टपक्षे साध्यतावच्छेदकविशि-ष्टसाध्यवैशिष्ट्यावगाहित्वस्य सीध्यतावच्छेदकविशिष्ट-साध्यनिरूपितव्याप्तिविशिष्टहेतुतावच्छेदकविशिष्टहेतुम-त्त्वावगाहित्वस्य च द्वयोर्व्यतिरेकस्तत्त्वम्। केचित्तु, यादृशपक्षकयादृशसाध्यकयादृशहेतौ यावन्तो दोषाःसम्भवन्ति तावदन्यान्यत्वमिति प्राहुः” दीधि॰। हेतु-जक्षणाभावादहेतुर्हेतुसामान्याद्धेतुवदाभासमानः” वा-[Page5435-b+ 38] तस्या॰
“पञ्चरूपोपपन्नत्वाभावे सति तद्रूपेण भास-मानः” गौ॰ वृ॰।
“पशधर्मत्वादीनां पञ्चानां रूपाणांमध्ये एकेनापि रूपेण हीनोहेतुः। सोऽपि कतिपय-हेतुरूपयोगाद्धेतुवदवभासमानः” त॰ भा॰। असा-धको हेतुत्वेनाभिमतः। यथा वायुर्गन्धवान् स्नेहा-दित्यादौ स्नेहो हेत्वाभासः। स च हेत्वाभासः। पञ्चधा सव्यभिचारः। विरुद्धः। प्रकरणयमः। साध्यसमः अतीतकालः” गौ॰ सू॰ पर्य्यायान्तुरेणहेत्वाभासः पञ्चधा
“असिद्धः विरुद्धः। अनैकान्तिकः। प्रकरणसमः। कालात्ययापदिष्टः। पर्य्यायान्तरेणापिहेत्वाभासः पञ्चधा। सव्यभिचारः। विरुद्धः। असिद्धः। सत्प्रतिपक्षितः वाधितः इति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेत्वाभास¦ m. (-सः) (In logic,) Fallacious semblance of reason or argu- ment, assignment of proof or cause which can be shewn to be incorrect, the faulty reasoning for an inference; it is of five kinds, viz:--BYABHICHA4RA, BIRUD'DHATA4, ASID'DHI, SATPRATIPAK SHATA4, and BA4DHA. E. हेतु, and आभास semblance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेत्वाभास/ हेत्व्--आभास m. (in logic) a mere appearance of a reason , fallacious semblance of an argument , fallacious middle term , fallacy (said to be of 5 kinds , viz. व्यभिचारor स-व्योभिचार, विरुद्ध, असिद्ध, सत्-प्रतिपक्ष, बाधor बाधित) Nya1yas. Tarkas. Sarvad.

हेत्वाभास/ हेत्व्--आभास m. N. of various works.

"https://sa.wiktionary.org/w/index.php?title=हेत्वाभास&oldid=275057" इत्यस्माद् प्रतिप्राप्तम्