सामग्री पर जाएँ

हेत्वाभासः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हेत्वाभासः, पुं, (हेतुरिव आभासते । आ + भास + अच् । हेतोरामासो वेति । आ + भास + घञ् ।) हेतुदोषः । स तु पञ्चविधः । व्यभि- चारः १ विरुद्धः २ असिद्धः ३ सत्प्रतिपक्षः ४ वाधः ५ । यथा, -- “अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः । कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ॥ आद्यः साधारणस्तु स्यात् स्यादसाधारणो- ऽपरः । तथैवानुपसंहारी त्रिधानैकान्तिको भवेत् ॥ यः सपक्षे विपक्षे च स तु साधारणो मतः । यस्तूभयस्माद्व्यावृत्तः स त्वसाधारणो मतः ॥ तथैवानुपसंहारी केवलान्वयिपक्षकः । यः साध्यवति नैवास्ति स विरुद्ध उदाहृतः ॥ आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ । व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतस्त्रिधा ॥ पक्षासिद्धिर्यत्र पक्षो भवेन्मणिमयो गिरिः । ह्रदो द्रव्यं धूमवत्त्वादत्रासिद्धिरथापरा ॥ व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत् । विरुद्धयोः परामर्शो हेत्वोः सत्प्रतिपक्षता ॥ साध्यशून्यो यत्र पक्षस्त्वसौ वाध उदाहृतः । उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते ॥” इति भाषापरिच्छेदः ॥ * ॥ तस्य सामान्यलक्षणानि यथा । अनुमिति- कारणीभूताभावप्रतियोगि यथार्थज्ञानविष- यत्वम् । यद्विषयत्वेन लिङ्गज्ञानस्यानुमितिप्रति- बन्धकत्वम् । ज्ञायमानं सत् यदनुमितिप्रति- बन्धकं तत्त्वं वा हेत्वाभासत्वम् ॥ * ॥ तस्य विशेषलक्षणानि यथा । उभयकोट्युपस्थापक- तावच्छेदकरूपवत्त्वं तत्त्वम् । विरुद्धान्यपक्ष- वृत्तित्वे सति अनुमितिविरोधिसम्बन्धाव्या- वृत्तिर्व्वा अनैकान्तिकः । विपक्षवृत्तित्वं साधा- रणत्वम् । सर्व्वसपक्षव्यावृत्तो हेतुरसाधारणः । व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावो यत्र स हेत्वभिमतोऽनुपसंहार्य्यः ॥ * ॥ साध्यव्यापका- भावप्रतियोगित्वं विरुद्धत्वम् ॥ * ॥ साध्यविरो- ध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्व- कार्य्यलिङ्गंत्वंतत्वं सत्प्रतिपक्षितत्वम् ॥ * ॥ व्याप्ति- पक्षधर्म्मतानिश्चयविरोधिरूपवत्त्वं असिद्धिः । पक्षनिष्ठ-प्रमाविषयत्व-प्रकारामाव-प्रतियोगि- साध्यकत्वं वाधः । इति चिन्तामणिः ॥

"https://sa.wiktionary.org/w/index.php?title=हेत्वाभासः&oldid=181667" इत्यस्माद् प्रतिप्राप्तम्