हेमकारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हेमकारः, पुं, (हेम हेममयं भूषणं करोतीति । कृ + अण् ।) हेमकर्त्ता । स्वर्णकारः । यथा, “सर्व्वसङ्करपापिष्ठं हेमकारं नराधिपः । अन्याये वर्त्तमानञ्च छेदयेत्त्वरसा क्षुरैः ॥” इति मत्स्यपुराणे । २२७ । १८५ ॥
