हेमकूटः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हेमकूटः, पुं, (हेममयः कूटो यस्य ।) पर्व्वत- विशेषः । इत्यमरः । २ । ३ । ३ ॥ स तु किंपुरुष- वर्षस्य सीमापर्व्वतः । नवतिसहस्रयोजनदीर्घः । द्विसहस्रयोजनप्रस्थः । द्विसहस्रयोजनविस्तारः । हिमालयादुत्तरेस्थितः । इति श्रीभागवतमतम् ॥ (यथा, महाभारते । ३ । ११० । २ । “पर्व्वतं स समासाद्य हेमकूटमनामयम् । अचिन्त्यानद्भुतान् भावान् ददर्श सुबहू- न्नृपः ॥”)
