हेमन्तः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हेमन्तः, पुं, क्ली, (हन्ति लोकान् शैत्येनेति । हन् + “हन्ते र्मुठि च ।” उणा ०३ । १२९ । इति झच् हन्तेर्हि चेति हिरादेशः मुडागमो गुणश्च ।) ऋतुविशेषः । स तु अग्रहायणपौष- मासात्मकः । यथा । षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमादिति वक्ष्यमाणेनान्वयः । ते के इत्याह हेमन्त इत्यादि मार्गपौषाभ्यां ऋतुर्हेमन्तः । हन्ति सन्तापमिति । हिमो- ऽन्तोऽस्येति वा मनीषादित्वात् हेमन्तः । अर्द्ध- र्च्चादिरयमिति केचित् । तेन अस्त्रियामित्य- स्यानेनापि सम्बन्धः । हेमन्शब्दोऽप्यस्तीति माधवी । इति भरतः ॥ तत्पर्य्यायः । हैमनः २ । इति शब्दरत्नावली ॥ उष्मासहः ३ शरदन्तः ४ हिमागमः ५ । तत्कालोद्भवजलगुणाः । “हैमन्तिकं जलं स्निग्धं वृष्यं बल्यं हितं गुरु ।” इति राजनिर्घण्टः ॥ * ॥ तत्र लोकप्रतपनार्थमग्निप्रदानफलं यथा, -- “हेमन्ते शिशिरे चैव पुण्याग्निं यः प्रयच्छति । सर्व्वलोकप्रतापार्थं स पुण्यां गतिमाप्नुयात् ॥” इति वह्निपुराणे कन्यादाननामाध्यायः ॥ तत्र भगवत्समीपे अग्निप्रज्वालनविधिः सेवा- शब्दे द्रष्टव्यः ॥ * ॥ तत्र वर्णनीयानि । “हेमन्ते दिनलघुता शीतयवस्तम्बमरुवक- हिमानि ।” इति कविकल्पलता ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हेमन्तः [hēmantḥ] न्तम् [ntam], न्तम् One of the six seasons, cold or winter season (comprising the months मार्गशीर्ष and पौष); नव- प्रवालोद्गमसस्यरम्यः प्रफुल्ललोध्रः परिपक्वशालिः । विलीनपद्मः प्रपत- त्तुषारो हेमन्तकालः समुपागतः प्रिये ॥ Ṛs.4.1. -Comp. -नाथः the wood-apple tree.
