हेमहस्तिरथ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हेमहस्तिरथः, पुं, (हेमनिर्म्मतहस्तिविशिष्टो रथो यत्र । स तु दानार्थं कल्पितः ।) महा- दानविशेषः । तद्विवरणं यथा, -- “अथातः संप्रवक्ष्यामि हेमहस्तिरथं शुभम् । यस्य प्रदानात् भवनं वैष्णवं याति मानवः ॥ पुण्यां तिथिं समासाद्य तुलापुरुषदान- वत् । विप्रवाचनकं कुर्य्यात् लोकेशावाहन बुधः ॥ ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् । अत्राप्युपोषितस्तद्वत् ब्राह्मणैः सह भोजनम् ॥ कुर्य्यात् पुष्परथाकारं काञ्चनं मणिमण्डि- तम् । वलभीभिर्विचित्राभिश्चतश्चक्रसमन्वितम् ॥ लोकपालाष्टकोपेतं ब्रह्मार्कशिवसंयुतम् । मध्ये नारायणोपेतं लक्ष्म्या चैव समन्वितम् ॥ कृष्णाजिनतिलद्रोणं कृत्वा संस्थापयेद्रथम् । तथाष्टादश धान्यानि भाजनामनचन्दनैः ॥ दीपकोपानहच्छत्रदर्पणं पादुकान्वितम् । ध्वजे तु गरुडं कुर्य्यात् कूवराग्रे विनायकम् ॥ नानाफलसमायुक्तमुपरिष्टाद्वितानकम् । कौषेयपञ्चवस्त्रञ्च अम्लानकुसुमान्वितम् ॥ चतुर्भिः कलसैः मार्द्धं गोभिरष्टाभिरन्वितम् । चतुर्भिर्हेममातङ्गैर्मुक्तादामविभूषितम् ॥ स्वरूपतः करिभ्यान्तु युक्तं कृत्वा निवेदयेत् । कुर्य्यात् पञ्चपलादूर्द्ध्वमभावादपि शक्तितः ॥ ततो मङ्गलशब्देन स्नापितो वेदपुङ्गवैः । त्रिः प्रदक्षिणमावृत्य गृहीतकुसुमाञ्जलिः ॥ इममुच्चारयन्मन्त्रं ब्राह्मणेभ्यो निवेदयेत् ॥ नमो नमः शङ्करपद्मजार्क- लोकेशविद्याधरवासुदेवैः । त्वं मन्यसे वेद पुराण यज्ञ तेजोमयस्यन्दन पाहि तस्मात् ॥ यत्तत् पदं परमगुह्यतमं मुरारे- रानन्दहेतु गुणरूपविमुक्तमन्तः । योगैकमानसदृशो मुनयः समाधौ पश्यन्ति तत्त्वमसि नाथ रथेऽधिरूढः ॥ यस्मात्त्वमेव भवसागरसंप्लुताना- मानन्दभाण्डभृतमध्वरपानपात्रम् । तस्मादघौघशमनेन कुरुप्रसादं चामीकरेभरथमाधवसंप्रदानात् ॥ इत्थं प्रणम्य कनकेभरथप्रदानं यः कारयेत् सकलपापविमुक्तदेहः । विद्याधरामरमुनीन्द्रगणाभिजुष्टं प्राप्नोत्यसौ पदमतीन्द्रियमिन्दुमीलेः ॥ कृतदुरितवितानादुल्लसद्वह्निजाल- व्यतिकरकृतदाहोद्वेगभाजोऽपि बन्धून् । नयति च पितृपुत्त्रान् बान्धवानप्यशेषान् कृतगजरथदान शाश्वतं सद्म विष्णोः ॥” इति मत्स्यपुराणे महादानानुकीर्त्तने हेम- हस्तिरथप्रदानिको नाम २९२ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हेमहस्तिरथ¦ पु॰ हेमनिर्मितहस्तियुक्तो रथः। तुलापुरु-षादिषोडशमहादानमध्ये दानार्थं॰ कल्पिते
१ स्वर्णमय-हस्तियुक्ते हेममयरथे
२ तद्दाने न॰। तद्विधिः हेमा॰ दा॰
“अथातः संप्रवक्ष्यामि हेमहर्स्तिरथं शुभम्। यस्यप्रदानाद्भवनं वैष्णवं याति मानवः। पुण्यां तिथिसथासाद्य तुलापुरुपदानवत्। विप्रवाचनकं कुर्य्याल्लोकेशावा-हनं बुधः। ऋत्विग्मण्डपसम्भारभूणणाच्छादनादि-लम्। अत्राप्यु पोमितस्तद्वद् ब्राह्मणैः सह भोजनम्”। [Page5436-b+ 38] इहाप्यादिशब्देन देशकालवृद्धिश्राद्धादिसर्वमनुक्तं मत्-स्यपुराणोक्ततुलापुरुषस्थितं वेदितव्यम्। उपोषित इति,उपवासाशक्तौ नक्तृमपि वेदितव्यम्।
“कुर्य्यात् पुष्प-रथाकारं काञ्चनं मणिमण्डितम्। बलभीभिर्विचित्रा-भिश्चतुश्चक्रसमन्वितम्। लोकपालाष्टकोपेतं शिवार्कव्रह्म-सयुतम। मध्ये नारायणोपेतं लक्ष्मीपुष्टिसमन्वितम्”। पुष्परथः, क्रीडार्थो रथः, स च चतुष्काकारेणोपर्याच्छा-दितो भवति वलभ्यो लोकपालाश्रयाः। लोकपालव्रह्म-शिवार्कलक्षणमुक्तं व्रह्माण्डदाने। मध्यशब्दः पूर्वापराभ्यांसंबध्यते, शिवादीनामपि स्थानापेक्षायास्तेनैव निवृत्तेः। नारायणादिलक्षणं पञ्चरात्रात्
“नारायणश्चतु-र्बाहुः शङ्खं चक्रं तथोत्तरे। दक्षिणे तु महापद्मंनीलञ्जीमूतसन्निभे। वामे श्रीर्वल्लकीहस्ता पुष्टिः पद्म-करा परा” इति।
“कृष्णाजिने तिलद्रोणं कृत्वासंस्थापयेद्रथम्। तथाष्टादश धान्यानि भाजनासनच-न्दनैः। दीपिकोपानहच्छत्रपादुकादर्पणान्वितम्। ध्वजेतु गरुडं कुर्य्यात् कूवराग्रे विनायकम्। नानाफल-समायुक्तं उपरिष्टाद्वितानकम्। कौशेयं पञ्चवर्णं चअम्लानकुसुमान्वितम्। चतुर्भिः कलशैः सार्द्धं गोभि-रष्टाभिरन्वितम्। चतुर्भिर्हेममातङ्गैर्मुक्तादामविभू-षितैः। स्वरूपतः करिभ्याञ्च युक्तं कृत्वा निवेदयेत्। कुर्य्यात् पञ्चपलादूर्द्धमाभारादपि शक्तितः”। ध्वजे तुगरुडं कुर्य्यादित्यांदि, ध्वजो दण्डः। गरुडलक्षण-मुक्तं नारदीये
“उपेन्द्रस्याग्रतः पक्षी गुडाकेशःकृताञ्जलिः। सव्यजानुनतो भूमौ मूर्द्ध्ना च फणिम-ण्डितः। पक्षिजङ्घो नरग्रीवस्तुङ्गनासो नराङ्गकः। द्विबहुः पक्षयुक्तश्च कर्त्तव्यो विनतासुतः”। अथ विना-यकस्य
“चतुर्भुजस्त्रिनेत्रश्च कर्त्तव्योऽत्र गजाननः। नागयज्ञोपवीतश्च शशाङ्ककृतशेखरः। दन्तं दक्षकरे दद्या-द्द्वितीये चाक्षसूत्रकम्। तृतीथे परशुं दद्याच्चतुर्थेमोदकं तथा”। उपर्य्यधोहस्तयोर्दन्तादि, देयमिति, कू-वरो व्याख्यातः। अम्लानकुसुमं, पुष्पविशेषः रूढि-र्यौगिकमपहरतीतिन्यायात् महासहेति प्रसिद्धमेवगृह्यते। भारो व्याख्यातः। ध्वजगतदेवताश्च पञ्चपला-दिपरिमितेन रथवत्कृतसुवर्णेनैव निष्पादनीयाः एवंसम्भारानुपकल्प्य पूर्ववदधिवासनं विधाय परदिवसेपुण्याहवाचनादि सकलं कर्मकाण्डं समाप्य सर्वौषधि-जलैराचार्प्यो यजमानस्य जापनं कुर्य्यात्।
“ततो मङ्गल[Page5437-a+ 38] शब्देन स्नापितो वेदपुङ्गबैः। त्रिःप्रदक्षिणमावृत्य गृही-तकुसुमाञ्जलिः। इममुच्चारयेन्मन्त्रं ब्राह्मणेभ्यो निवेदयेत्। नमो नमः शङ्करपद्मजाकलोकेशविद्याधरवासुदेवैः। त्वं सेव्यमे देव! पुराण! यज्ञतेजोमय स्यन्दन! पाहियस्मात्। यत् तत्पदं गुह्यतमं मुरारेरानन्दहेतुर्गुणरूप-मत्तः। यागैकमानसदृशोमुनयः समाघौ पश्यन्ति तत्त्व-मसि नाथ! रथेऽधिरूढ! यस्मात्त्वमेव भवसागर-संश्रितानामानन्दभाण्डभृतमध्वरपानपात्रम्। तस्मादघौ-थशमनेन कुरु प्रसादं चामीकरेभरथसाधनसम्प्रदानात्”। मन्त्रेणानेन प्रणम्य यथाशक्ति सुवर्णदक्षिणामुपकल्प्यपूर्ववत प्रयोगमुच्चार्य्य तं गजरथं प्रत्यक्षगजाभ्यां संयुतंब्राह्मणेभ्यः प्रतिपादयेत्, आचार्य्यादोनामर्द्धचतुर्भागा-दिव्यवस्था तदनुज्ञया चान्येभ्योऽपि दानं, दीनानाथपूरणंचेति, प्रकृतिवदाचरणीयं ततः पुण्याहवाचने कृतेयजमानो वेदिसमीप गत्वा देवतापूजां विदध्यात्। आचर्य्यस्तु आहूतदेवान् विसर्जयेच्च”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हेमहस्तिरथ/ हेम--हस्ति-रथ m. " -ggolden-elephant-chariot " , N. of one of the 16 महादानs(See. )
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the gift of a chariot with elephants in gold on an auspicious day with prayers to all deities takes one to the abode of शिव. M. २७४. 8; २८२. 1-१६.
