सामग्री पर जाएँ

हेमहस्तिरथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हेमहस्तिरथः, पुं, (हेमनिर्म्मतहस्तिविशिष्टो रथो यत्र । स तु दानार्थं कल्पितः ।) महा- दानविशेषः । तद्विवरणं यथा, -- “अथातः संप्रवक्ष्यामि हेमहस्तिरथं शुभम् । यस्य प्रदानात् भवनं वैष्णवं याति मानवः ॥ पुण्यां तिथिं समासाद्य तुलापुरुषदान- वत् । विप्रवाचनकं कुर्य्यात् लोकेशावाहन बुधः ॥ ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् । अत्राप्युपोषितस्तद्वत् ब्राह्मणैः सह भोजनम् ॥ कुर्य्यात् पुष्परथाकारं काञ्चनं मणिमण्डि- तम् । वलभीभिर्विचित्राभिश्चतश्चक्रसमन्वितम् ॥ लोकपालाष्टकोपेतं ब्रह्मार्कशिवसंयुतम् । मध्ये नारायणोपेतं लक्ष्म्या चैव समन्वितम् ॥ कृष्णाजिनतिलद्रोणं कृत्वा संस्थापयेद्रथम् । तथाष्टादश धान्यानि भाजनामनचन्दनैः ॥ दीपकोपानहच्छत्रदर्पणं पादुकान्वितम् । ध्वजे तु गरुडं कुर्य्यात् कूवराग्रे विनायकम् ॥ नानाफलसमायुक्तमुपरिष्टाद्वितानकम् । कौषेयपञ्चवस्त्रञ्च अम्लानकुसुमान्वितम् ॥ चतुर्भिः कलसैः मार्द्धं गोभिरष्टाभिरन्वितम् । चतुर्भिर्हेममातङ्गैर्मुक्तादामविभूषितम् ॥ स्वरूपतः करिभ्यान्तु युक्तं कृत्वा निवेदयेत् । कुर्य्यात् पञ्चपलादूर्द्ध्वमभावादपि शक्तितः ॥ ततो मङ्गलशब्देन स्नापितो वेदपुङ्गवैः । त्रिः प्रदक्षिणमावृत्य गृहीतकुसुमाञ्जलिः ॥ इममुच्चारयन्मन्त्रं ब्राह्मणेभ्यो निवेदयेत् ॥ नमो नमः शङ्करपद्मजार्क- लोकेशविद्याधरवासुदेवैः । त्वं मन्यसे वेद पुराण यज्ञ तेजोमयस्यन्दन पाहि तस्मात् ॥ यत्तत् पदं परमगुह्यतमं मुरारे- रानन्दहेतु गुणरूपविमुक्तमन्तः । योगैकमानसदृशो मुनयः समाधौ पश्यन्ति तत्त्वमसि नाथ रथेऽधिरूढः ॥ यस्मात्त्वमेव भवसागरसंप्लुताना- मानन्दभाण्डभृतमध्वरपानपात्रम् । तस्मादघौघशमनेन कुरुप्रसादं चामीकरेभरथमाधवसंप्रदानात् ॥ इत्थं प्रणम्य कनकेभरथप्रदानं यः कारयेत् सकलपापविमुक्तदेहः । विद्याधरामरमुनीन्द्रगणाभिजुष्टं प्राप्नोत्यसौ पदमतीन्द्रियमिन्दुमीलेः ॥ कृतदुरितवितानादुल्लसद्वह्निजाल- व्यतिकरकृतदाहोद्वेगभाजोऽपि बन्धून् । नयति च पितृपुत्त्रान् बान्धवानप्यशेषान् कृतगजरथदान शाश्वतं सद्म विष्णोः ॥” इति मत्स्यपुराणे महादानानुकीर्त्तने हेम- हस्तिरथप्रदानिको नाम २९२ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हेमहस्तिरथ¦ पु॰ हेमनिर्मितहस्तियुक्तो रथः। तुलापुरु-षादिषोडशमहादानमध्ये दानार्थं॰ कल्पिते

१ स्वर्णमय-हस्तियुक्ते हेममयरथे

२ तद्दाने न॰। तद्विधिः हेमा॰ दा॰
“अथातः संप्रवक्ष्यामि हेमहर्स्तिरथं शुभम्। यस्यप्रदानाद्भवनं वैष्णवं याति मानवः। पुण्यां तिथिसथासाद्य तुलापुरुपदानवत्। विप्रवाचनकं कुर्य्याल्लोकेशावा-हनं बुधः। ऋत्विग्मण्डपसम्भारभूणणाच्छादनादि-लम्। अत्राप्यु पोमितस्तद्वद् ब्राह्मणैः सह भोजनम्”। [Page5436-b+ 38] इहाप्यादिशब्देन देशकालवृद्धिश्राद्धादिसर्वमनुक्तं मत्-स्यपुराणोक्ततुलापुरुषस्थितं वेदितव्यम्। उपोषित इति,उपवासाशक्तौ नक्तृमपि वेदितव्यम्।
“कुर्य्यात् पुष्प-रथाकारं काञ्चनं मणिमण्डितम्। बलभीभिर्विचित्रा-भिश्चतुश्चक्रसमन्वितम्। लोकपालाष्टकोपेतं शिवार्कव्रह्म-सयुतम। मध्ये नारायणोपेतं लक्ष्मीपुष्टिसमन्वितम्”। पुष्परथः, क्रीडार्थो रथः, स च चतुष्काकारेणोपर्याच्छा-दितो भवति वलभ्यो लोकपालाश्रयाः। लोकपालव्रह्म-शिवार्कलक्षणमुक्तं व्रह्माण्डदाने। मध्यशब्दः पूर्वापराभ्यांसंबध्यते, शिवादीनामपि स्थानापेक्षायास्तेनैव निवृत्तेः। नारायणादिलक्षणं पञ्चरात्रात्
“नारायणश्चतु-र्बाहुः शङ्खं चक्रं तथोत्तरे। दक्षिणे तु महापद्मंनीलञ्जीमूतसन्निभे। वामे श्रीर्वल्लकीहस्ता पुष्टिः पद्म-करा परा” इति।
“कृष्णाजिने तिलद्रोणं कृत्वासंस्थापयेद्रथम्। तथाष्टादश धान्यानि भाजनासनच-न्दनैः। दीपिकोपानहच्छत्रपादुकादर्पणान्वितम्। ध्वजेतु गरुडं कुर्य्यात् कूवराग्रे विनायकम्। नानाफल-समायुक्तं उपरिष्टाद्वितानकम्। कौशेयं पञ्चवर्णं चअम्लानकुसुमान्वितम्। चतुर्भिः कलशैः सार्द्धं गोभि-रष्टाभिरन्वितम्। चतुर्भिर्हेममातङ्गैर्मुक्तादामविभू-षितैः। स्वरूपतः करिभ्याञ्च युक्तं कृत्वा निवेदयेत्। कुर्य्यात् पञ्चपलादूर्द्धमाभारादपि शक्तितः”। ध्वजे तुगरुडं कुर्य्यादित्यांदि, ध्वजो दण्डः। गरुडलक्षण-मुक्तं नारदीये
“उपेन्द्रस्याग्रतः पक्षी गुडाकेशःकृताञ्जलिः। सव्यजानुनतो भूमौ मूर्द्ध्ना च फणिम-ण्डितः। पक्षिजङ्घो नरग्रीवस्तुङ्गनासो नराङ्गकः। द्विबहुः पक्षयुक्तश्च कर्त्तव्यो विनतासुतः”। अथ विना-यकस्य
“चतुर्भुजस्त्रिनेत्रश्च कर्त्तव्योऽत्र गजाननः। नागयज्ञोपवीतश्च शशाङ्ककृतशेखरः। दन्तं दक्षकरे दद्या-द्द्वितीये चाक्षसूत्रकम्। तृतीथे परशुं दद्याच्चतुर्थेमोदकं तथा”। उपर्य्यधोहस्तयोर्दन्तादि, देयमिति, कू-वरो व्याख्यातः। अम्लानकुसुमं, पुष्पविशेषः रूढि-र्यौगिकमपहरतीतिन्यायात् महासहेति प्रसिद्धमेवगृह्यते। भारो व्याख्यातः। ध्वजगतदेवताश्च पञ्चपला-दिपरिमितेन रथवत्कृतसुवर्णेनैव निष्पादनीयाः एवंसम्भारानुपकल्प्य पूर्ववदधिवासनं विधाय परदिवसेपुण्याहवाचनादि सकलं कर्मकाण्डं समाप्य सर्वौषधि-जलैराचार्प्यो यजमानस्य जापनं कुर्य्यात्।
“ततो मङ्गल[Page5437-a+ 38] शब्देन स्नापितो वेदपुङ्गबैः। त्रिःप्रदक्षिणमावृत्य गृही-तकुसुमाञ्जलिः। इममुच्चारयेन्मन्त्रं ब्राह्मणेभ्यो निवेदयेत्। नमो नमः शङ्करपद्मजाकलोकेशविद्याधरवासुदेवैः। त्वं सेव्यमे देव! पुराण! यज्ञतेजोमय स्यन्दन! पाहियस्मात्। यत् तत्पदं गुह्यतमं मुरारेरानन्दहेतुर्गुणरूप-मत्तः। यागैकमानसदृशोमुनयः समाघौ पश्यन्ति तत्त्व-मसि नाथ! रथेऽधिरूढ! यस्मात्त्वमेव भवसागर-संश्रितानामानन्दभाण्डभृतमध्वरपानपात्रम्। तस्मादघौ-थशमनेन कुरु प्रसादं चामीकरेभरथसाधनसम्प्रदानात्”। मन्त्रेणानेन प्रणम्य यथाशक्ति सुवर्णदक्षिणामुपकल्प्यपूर्ववत प्रयोगमुच्चार्य्य तं गजरथं प्रत्यक्षगजाभ्यां संयुतंब्राह्मणेभ्यः प्रतिपादयेत्, आचार्य्यादोनामर्द्धचतुर्भागा-दिव्यवस्था तदनुज्ञया चान्येभ्योऽपि दानं, दीनानाथपूरणंचेति, प्रकृतिवदाचरणीयं ततः पुण्याहवाचने कृतेयजमानो वेदिसमीप गत्वा देवतापूजां विदध्यात्। आचर्य्यस्तु आहूतदेवान् विसर्जयेच्च”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हेमहस्तिरथ/ हेम--हस्ति-रथ m. " -ggolden-elephant-chariot " , N. of one of the 16 महादानs(See. )

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--the gift of a chariot with elephants in gold on an auspicious day with prayers to all deities takes one to the abode of शिव. M. २७४. 8; २८२. 1-१६.

"https://sa.wiktionary.org/w/index.php?title=हेमहस्तिरथ&oldid=441401" इत्यस्माद् प्रतिप्राप्तम्