सामग्री पर जाएँ

हेलाः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हेलाः, स्त्री, (हिल् + घञ् । टाप् ।) स्त्रीणां शृङ्गारभावजक्रियाविशेषः । इत्यमरः । १ । ७ । ३२ ॥ सुरते प्रौढेच्छा हेला । यदाह । “प्रौढेच्छा याति रूढानां नारीणां सुरतोत्सवे । शृङ्गारशास्त्रतत्त्वज्ञैर्हेला सा परिकीर्त्तिता ॥” इति । अन्ये तु । “स एव हेला सुव्यक्तः शृङ्गाररससूचकः ।” इत्याहुः । अस्यार्थः । हाव एव स्फुटशृङ्गा- रानुभावो हेलेति । अन्ये त्वाहुः विलासादयो दश स्वाभाविकाः भावहावहेलास्त्रयोऽङ्गजाः शोभादयः सप्त प्रयत्नजाः । इति विंशतिरल- ङ्काराः । तेषु । “देहात्मकं मवेत् सत्त्वं सत्त्वाद्भावः समुत्थितः । भावात् समुत्थितो हावो हावाद्धेला समु- त्थिता ॥” इति ॥ हिल श हावकृतौ घञ् स्त्रीत्त्वं लोकाश्रयात् । हेलिरपि । “हेलिः पुंसि रवौ हेलिर्हेलायामपि योषिति ।” इति हड्डः । इति भरतः ॥ अपि च । “हाव एव भवेद्धेला व्यक्तः शृङ्गारसूचकः ।” इत्युज्ज्वलनीलमणिः ॥ * ॥ अवज्ञा । इति मेदिनी ॥ (यथा, मार्कण्डेय- पुराणे । १४ । २९ । “स्वल्पं पुण्यं शुभं गन्धं हेलया सम्प्रयच्छति । स्पर्शं वाप्यथवा शब्द रसं रूपमथापि वा ॥”) ज्योत्स्ना इति केचित् ॥

"https://sa.wiktionary.org/w/index.php?title=हेलाः&oldid=181770" इत्यस्माद् प्रतिप्राप्तम्