सामग्री पर जाएँ

हैतुकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हैतुकः, पुं, (हेतुना चरतीति । हेतु + ठक् । सद्युक्तिव्यवंहारी । यथा, मनुः । “त्रैविद्यो हैतुकस्तर्की निरुक्तो धर्म्मपाठकः । त्रयश्चाश्रमिणः पूर्ब्बे परिषत् स्याद्दशावरा ॥” त्रैविद्यः त्रिवेदपारगः । हैतुकः सद्युक्तिव्यव- हारी । इति व्यवहारतत्त्वम् ॥ हेतुद्वारा सत्- कर्म्मसु सन्देहकर्त्ता । यथा, -- “पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान् शठान् । हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥” इति विष्णुपुराणे । ३ । १८ । ९९ ॥ पाषण्डादीनां लक्षणम् “भ्रष्टः स्वधर्म्मात् पाषण्डो विकर्म्मस्थो निषिद्ध- कृत् । यस्य धर्म्मध्वजो नित्यं सुरध्वज इवोच्छ्रितः । प्रच्छन्नानि च पापानि वैडालं नाम तद्व्रतम् ॥” तद्वान् वैडालव्रतिकः । “प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । व्यक्तापराधचेष्टश्च शठोऽयं कथितो बुधैः ॥ सन्देहकृत् हेतुभिर्यः सत्कर्म्मसु स हैतुकः । अर्व्वाग्दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च वकवृत्तिरुदाहृतः ॥” इति तट्टीका ॥ (फलाभिसन्धानयुक्ते, त्रि ॥)

"https://sa.wiktionary.org/w/index.php?title=हैतुकः&oldid=181784" इत्यस्माद् प्रतिप्राप्तम्