हैमः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हैमः, पुं, भूनिम्बः । इति राजनिर्घण्टः ॥ (हेम्नो विकारः । हेम + अण् ।) हेम्नो विकारः । इति मुग्धबोधव्याकरणम् ॥ (शिवः । यथा, महाभारते । १३ । १७ । ६३ । “हैमो हेमकरो यज्ञः सर्व्वधारी धरोत्तमः ॥” पर्व्वतविशेषः । यथा, महाभारते । १३ । १९ । ५४ । “कैलासं मन्दरं हैमं सर्व्वाननुचचार ह । तानतीत्य महाशैलान् कैरातं स्थानमुत्तमम् ॥”)
