हैमम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हैमम्, क्ली, (हिमे भवम् । अण् ।) प्रातर्हिमोद- भवजलम् । इति राजनिर्घण्टः ॥ हिमभवे, त्रि ॥ (यथा, रघौ । १६ । ७ । “लब्धान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते । बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥”) हेमजाते च त्रि ॥ इत्यमरः । २ । ८ । ३२ ॥ (यथा, रघौ । ६ । १५ । “आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किञ्चित् समावर्ज्जितनेत्रशोभः । तिर्य्यग् विसंसपिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥”)
