सामग्री पर जाएँ

हैमषती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हैमषती, स्त्री, (हिमवतोऽपत्यं स्त्री । अण् । ङीप् ।) पाव्वती । (यथा, देवीभागवते । १२ । ८ । ५७ । “उमाभिधानां पुरतो देवीं हैमवतीं शिवाम् ॥”) हरीतकी । इत्यमरः । १ । १ । ३८ ; २ । ४ । ५९ ॥ स्वर्णक्षीरी । (अस्याः पर्य्यायो यथा, -- “कटुपर्णी हैमवती हेमक्षीरी हिमावती । हेमाह्वा पीतदुग्धा च तन्मलञ्चोकमुच्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) श्वेतवचा । इति मेदिनी ॥ (अस्याः पर्य्यायो यथा, “षड्ग्रन्थ्योग्रा वचा ज्ञेया श्वेता हैमवतीति च ।” इति गारुडे २०८ अध्याये ॥ हिमवतः प्रभवति प्रकाशते प्रथमं दृश्यते इति । “प्रभवति ।” ४ । ३ । ८३ । इत्यण् ।) गङ्गा । इति धरणिः ॥ (यथा, महाभारते । ३ । १०८ । १६ । “एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा । पितामहा मे वरदे ! कपिलेन महानदि ! अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् ॥” हिमवति भवा इति । अण् ।) रेणुका । कपिलद्राक्षा । अतसी । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=हैमषती&oldid=181807" इत्यस्माद् प्रतिप्राप्तम्