सामग्री पर जाएँ

हैयङ्गवीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हैयङ्गवीनम्, क्ली, (ह्यो गोदोहस्य विकारः इति । “हैयङ्गवीनं संज्ञायाम् ।” ५ । २ । २३ । इति खञ् हियङ्ग्वादेशश्च ।) सद्योगोदोहोद्भवं घृतम् । इत्यमरः । २ । ९ । ५२ ॥ नवनीतम् । इति रत्नमाला राजनिर्घण्टश्च ॥ (यथा, हरिवंशे । भविष्यपर्व्वणि । ५८ । १० । “हैयङ्गवीनं क्षीराणि दधि वा किमजीजनन् । गोधनं सर्व्वमेवेदं नीरोगं प्रतिपद्यते ॥”) तत्पर्य्यायः । सरजम् २ मन्थजम् ३ कल म्वुटम् ४ । इति हारावली ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हैयङ्गवीन नपुं।

एकरात्रपर्युषिताद्दध्नोत्पन्नघृतम्

समानार्थक:हैयङ्गवीन

2।9।52।2।1

घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्घृतम्. तत्तु हैयङ्गवीनं यद्ध्योगोदोहोद्भवं घृतम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हैयङ्गवीन¦ न॰ ह्योगोदोहाद् भयम् ह्यस् + गो + ख नि॰।

१ नवनीते रत्नमा॰। पूर्वदिनदुग्धोद्भवे

२ घृते च अमरः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हैयङ्गवीन¦ n. (-नं)
1. Clarified butter prepared a day before it is used.
2. Clarified butter prepared from the milking of the previous day. E. ह्यम् yesterday, गोदोह milk, हियङ्ग substituted for them, खञ् aff.

"https://sa.wiktionary.org/w/index.php?title=हैयङ्गवीन&oldid=275953" इत्यस्माद् प्रतिप्राप्तम्