सामग्री पर जाएँ

हैहयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हैहयः, पुं, (हय्या अपत्यम् । “स्त्रीभ्यो ढक् ।” ४ । १ । १२० । इति ढक् । पृषोदरादित्वात् साधुः । यद्वा हेशब्देन नामैकदेषग्रहणेन नामग्रहणात् हेषाशब्देन हेषाशब्दं कुर्व्वन् हयति गच्छ- तीति हेहयोऽश्वः तस्यायं “शिवादिभ्योऽण् ।” ४ । १ । ११२ । इत्यण् । यद्वा, हे भक्त हे भक्त इति वदन् हयति गच्छतीति हेहयो विष्णुः । तस्यायं हैहयः ।) कार्त्तवीर्य्यः । इति हेम- चन्द्रः ॥ देशविशेषः । यथा, -- “पश्चिमे हैहयास्ताद्रिम्लेच्छवासशकादयः ॥” इति ज्योतिस्तत्त्वे कूर्म्मचक्रम् ॥

हैहयः, पुं, (हैहयाः तद्देशवासिनः तेषां राजा अण् ।) कार्त्तवीर्य्यराजः । इति शब्दरत्नावली ॥ (यथा, रघौ । ११ । ७४ । “बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतौ समागसौ । धेनुवत्सहरणाच्च हैययः त्वञ्च कीर्त्तिमपहर्त्तुमुद्यतः ॥”)

"https://sa.wiktionary.org/w/index.php?title=हैहयः&oldid=181817" इत्यस्माद् प्रतिप्राप्तम्