होम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होमः, पुं, (हवनमिति । हु + “अर्त्तिस्तुमुहु- स्रिति ।” उणा ०१ । १३९ । इति मन् ।) पञ्चमहायज्ञान्तर्गतयज्ञविशेषः । इत्यमरः । २ । ७ । १४ ॥ स तु देवयज्ञः । यथा, -- “अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥” इति मनुः ॥ तल्लक्षणं यथा, -- “विशिष्टदेशावच्छिन्नप्रक्षेपोपहितत्यागः ॥” इति श्रीकृष्णतर्कालङ्कारः ॥ * ॥ अथ नित्यहोमः । तदुक्तं सोमभुजगावल्याम् । “नाजप्तः सिद्ध्यते मन्त्रो नाहुतश्च फलप्रदः । नानिष्टो यच्छते कामान् तस्मात्त्रितयमर्च्चयेत् ॥ पूजया लभते पूजां जपात् सिद्धिर्न संशयः । विभूतिं चाग्निकार्य्येण सर्व्वसिद्धिञ्च विन्दति ॥” नीलतन्त्रेऽपि । “नित्यहोमं प्रवक्ष्यामि सर्व्वार्थं येन बिन्दति ॥ सपर्य्यां सम्यगापाद्म वलिपूर्व्वं चरेद्विधिम् ॥ ततो होमं तर्पणञ्च चरेत् साधकसत्तमः । वलिवैश्वादिकं चैव ब्राह्मणः समुपाचरेत् ॥ अर्घोदकेन संप्रोक्ष्य तिस्रो रेखाः समालिखेत् । विधिवदग्निमानीय क्रव्यादेभ्यो नमस्तथा ॥ मूलमन्त्रं समुच्चार्य्य कुण्डे वा स्थण्डिलेऽपि वा । भूमौ वा संस्तरेद्वह्निं व्याहृतित्रितयेन च । स्वाहान्तेन त्रिधा हुत्वा षडङ्गहवनं चरेत् ॥” तथा । “ततो देवीं समावाह्य मूलेन षोडशाहुतिम् । हुत्वा स्तुत्वा नमस्कृत्य विसृजेदिम्दुमण्डले ॥” श्यामादौ विशेषः । “भैरवांश्च हुनेदष्टौ आज्यान्वितैस्तिलैः शुभैः । पूर्ब्बादिदिक्क्रमेणैव ततो होमं समाचरेत् ॥” * अथ संक्षेपहोमप्रयोगः । “कुण्डेवास्थण्डिले वापि वीक्षणादिभिः संस्कृते । प्रागग्रा उदगग्राश्च तिस्रो रेखाः समालिखेत् ॥” तथा च । “वीक्षणं मूलमन्त्रेण शरेण ताडनं मतम् । तेनैव प्रोक्षणं प्रोक्तं वर्म्मणाभ्युक्षणं मतम् ॥” ततो मूलमुच्चार्य्य कुण्डाय नमः इति संपूज्य प्रागग्रा उदगग्रास्तिस्रो रेखाः कर्त्तव्याः । प्रागग्रेषु मुकुन्देशपुरन्दरान् प्रादक्षिण्येन संपूज्य उदगग्रासु ब्रह्मवैवस्वतेन्दून् पूजयेत् । सुन्दरीपक्षे तु सर्व्वत्र षट्तारी प्रयोगः षट्तारी च ऐ~ ह्री~ श्रीं ऐं क्लीं सौः ब्रह्मणे समुद्धृत्यं कुण्डोपरि त्रिः परिभ्राम्य जानुस्पृष्ट- महीतलः शिवबीजबुद्ध्या आत्मनोऽभिमुखं देव्या योनी एन क्षिपेत् । ततो ह्रीं वह्निमूर्त्तये नमः इत्यभ्यर्च्च्य रं वह्निचैतन्याय नमः इति चैतन्यं तत्र संयोज्य ओ~ चित् पिङ्गल हन हन दह दह पच पच सर्व्वं ज्ञापय ज्ञापय स्वाहा इति ज्वालयेत् । ततः । “अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥” इत्युपतिष्ठेत् ॥ ततो अग्ने त्वममुकनामासीति नाम कृत्वा ओ~ वेखानरं जातवेद इहावह लोहिताक्ष सर्व्व- कर्म्माणि साधय स्वाहा । अनेनार्घ्यादिभिः संपूज्य ओ~ अग्नेर्हिरण्यादिसप्तजिह्वाभ्यो नमः । ओ~ सहस्रार्च्चिषे हृदयाय नमः इत्यादि अग्नि- षडङ्गेभ्यो नमः । ओ~ अग्नये जातवेदसे इत्या- द्यष्टमूर्त्तिभ्यो नमः । तद्वाह्ये ओ~ ब्राह्म्याद्यष्ट- शक्तिभ्यो नमः । तद्बहिः ओ~ पद्माद्यष्टनिधिभ्यो नमः । तद्वाह्ये ओ~ इन्द्रादिलोकपालेभ्यो नमः । तद्वाह्ये ओ~ वज्राद्यस्त्रेभ्यो नमः । ततः प्रादेश- मात्रं कुशपत्रद्वयं घृतमध्ये निक्षिप्य सव्यासव्य- मध्याभागेषु इडां पिङ्गलां सुषुम्नां ध्यात्वा होमं कुर्य्यात् । स्रुवेण दक्षिणभागादाज्यं गृहीत्वा ओ~ अग्नये स्वाहा इति अग्नेर्दक्षिणनेत्रे जुहु- यात् । तथा वामभागादाज्यं गृहीत्वा ओ~ सोमाय खाहा इति वामनेत्रे जुहुयात् । ततो मध्यभागादाज्यं गृहीत्वा ओ~ अग्निसोमाभ्यां स्वाहा इत्यग्नेर्ललाटनेत्रे जुहुयात् । पुनर्दक्षि- णतः नम इति घृतं गृहीत्वा ओ~ अग्नये स्विष्टिकृते स्वाहा इत्यग्निमुखे । ततो महा- व्याहृतिहोमः । ओ~ भूः स्वाहा ओ~ भुवः स्वाहा ओ~ स्वः स्वाहा ओ~ वैस्वानर जातवेद इहावह लोहिताक्ष सर्व्वकर्म्माणि साधय स्वाहा इत्यनेन त्रिवारं जुहुयात् । ततः अग्नौ मूलेन पीठ- पूर्ब्बकं देवतां संपूज्य तन्मुखे घृतेन मूलमन्त्रेण पञ्चविंशतिवारं जुहुयात् । वह्निदेवतयोरा- त्मना सह ऐक्यं विभाव्य मूलमन्त्रेण एकादशा- हुतीर्ज्जुहुयात् । ततो मूलमन्त्रस्य अङ्गदेव- ताभ्यः स्वाहा शक्तश्चेत् प्रत्येकमेकैकाहुतिं जुहुयात् । ततः सङ्कल्पं विधाय तत्तत्कल्पोक्त- द्रव्येण होमं कुर्य्यात् । ततो मूलमन्त्रेण पूर्णाहुतिं दत्त्वा संहारमुद्रया स्वेष्टदेवता हृदये समांनीय क्षमस्वेति विसृज्य दक्षिणां दत्त्वा अच्छिद्राव- धारणं कुर्य्यात् । इति तन्त्रसारः ॥ बृहद्धोम- प्रयोगस्तु तत्रैव द्रष्टव्यः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होम पुं।

देवयज्ञः

समानार्थक:होम

2।7।14।1।2

पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः। एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होम¦ पु॰ हु--मन्। देवतोद्देशेन वह्नौ मन्त्रद्वारा घृतादित्याग-रूपे हवने नित्यं गृहस्थकर्त्तव्येषु पञ्चसु यज्ञेषु मध्ये

२ देवयज्ञे अमरः।

३ श्राद्धीयविप्रपाणौ श्राद्धीयाग्रभागस्यमन्त्रेण दाने च श्रा॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होम¦ m. (-मः) Burnt-offering, the casting of clarified butter, &c., into the sacred fire, as an offering to the gods, accompanied with prayers or invocations, according to the object of the sacrifice. E. हु to sacrifice, मन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होमः [hōmḥ], [हु-मन्]

Offering oblations to gods by throwing ghee into the consecrated fire, (one of the five daily Yajñas, to be performed by a Brāhmaṇa, called देवयज्ञ q. v.); इष्टिर्यागः । स एवासेचनाधिको होमः ŚB. on MS.6.8.7.

A burnt offering.

A sacrifice; R.3.38; Mb. 12.165.26. -Comp. -अग्निः the sacrificial fire. -कर्मन् sacrificial act. -कल्पः mode of sacrificing. -कुण्डम् a hole in the ground for receiving the consecrated fire. -तुरङ्गः a sacrificial horse; नियुज्य तं होमतुरङ्गरक्षणे R.3.38. -धानम् a sacrificial chamber.

धान्यम् sesamun.

barley.-धूमः the smoke of a burnt offering or sacrificial fire.-धेनुः a cow yielding milk for an oblation. -भस्मन्n. the ashes of a burnt offering. -भाण्डम् a sacrificial implement. -वेला the time for offering oblations.-शाला a sacrificial hall or chamber.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होम m. the act of making an oblation to the देवs or gods by casting clarified butter into the fire(See. देव-यज्ञand IW. 245 ) , oblation with fire , burnt-offering , any oblation or sacrifice( अयुत-ह्, " a sacrifice of 10 ,000 burnt-offerings to the planets ") AV. etc. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Sukha god. Br. IV. 1. १९.
(II)--a mukhya गण. वा. १००. १८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HOMA : A king belonging to the dynasty of Bharata. He was the son of Kṛśadratha and father of Sutapas. (Bhāgavata, 9th Skandha).


_______________________________
*1st word in right half of page 315 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होम पु.
(हु + मन्) जुहू-संज्ञक करछुल से अगिन् में आहुति प्रदान करने का कृत्य (भाष्य - अङ्ग - अदर्वि - अपामार्ग- उद्यत् - उप - ओषधि - दर्वि नारिष्ठ- पार्वण - फलीकरण- रौहिण - वनस्पति - वसा - शकलाहरणाव्रश्चन-शकली- शरीर - संसृष्ट - सक्तु - संज्ञप्त - सन्नति-), का.श्रौ.सू. 1.8.38; 44-45. यह कृत्य प्रधान अथवा अङ्ग (प्रयाज एवं अनुयाज) हो सकता है, आप.श्रौ.सू. 24.2.31; तुल. का.श्रौ.सू. 1.2.4. होम की दो श्रेणियां होती हैं ‘तिष्ठत् खड़े होकर या खड़े होने की स्थिति में ‘यजति’ कहलाता है एवं बैठे हुए ‘उपविष्ट’ ‘जुहोति’ कहलाता है, ‘तिष्ठद्धोमा वषट्कारप्रदाना याज्या - पुरोऽनुवाक्यावन्तो यजतयः, का.श्रौ.सू. 1.2.6ऽ; ‘उपविष्टहोमाः स्वाहाकारप्रदाना जुहोतयः’, का.श्रौ.सू. 1.2.6-7। होमाभिषवकारिन् (होमश्च अभिषवश्च तौ कर्तुं शीलमस्य) वि. (वह व्यक्ति) जो सोम का सवन करता है और इसकी आहुति प्रदान करता है, का.श्रौ.सू. 9.11.13; जो आहुति- प्रदान एवं सवन के समय कार्य करता है, मा.श्रौ.सू. 2.4.1.31।

"https://sa.wiktionary.org/w/index.php?title=होम&oldid=506454" इत्यस्माद् प्रतिप्राप्तम्