होमः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
होमः, पुं, (हवनमिति । हु + “अर्त्तिस्तुमुहु- स्रिति ।” उणा ०१ । १३९ । इति मन् ।) पञ्चमहायज्ञान्तर्गतयज्ञविशेषः । इत्यमरः । २ । ७ । १४ ॥ स तु देवयज्ञः । यथा, -- “अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥” इति मनुः ॥ तल्लक्षणं यथा, -- “विशिष्टदेशावच्छिन्नप्रक्षेपोपहितत्यागः ॥” इति श्रीकृष्णतर्कालङ्कारः ॥ * ॥ अथ नित्यहोमः । तदुक्तं सोमभुजगावल्याम् । “नाजप्तः सिद्ध्यते मन्त्रो नाहुतश्च फलप्रदः । नानिष्टो यच्छते कामान् तस्मात्त्रितयमर्च्चयेत् ॥ पूजया लभते पूजां जपात् सिद्धिर्न संशयः । विभूतिं चाग्निकार्य्येण सर्व्वसिद्धिञ्च विन्दति ॥” नीलतन्त्रेऽपि । “नित्यहोमं प्रवक्ष्यामि सर्व्वार्थं येन बिन्दति ॥ सपर्य्यां सम्यगापाद्म वलिपूर्व्वं चरेद्विधिम् ॥ ततो होमं तर्पणञ्च चरेत् साधकसत्तमः । वलिवैश्वादिकं चैव ब्राह्मणः समुपाचरेत् ॥ अर्घोदकेन संप्रोक्ष्य तिस्रो रेखाः समालिखेत् । विधिवदग्निमानीय क्रव्यादेभ्यो नमस्तथा ॥ मूलमन्त्रं समुच्चार्य्य कुण्डे वा स्थण्डिलेऽपि वा । भूमौ वा संस्तरेद्वह्निं व्याहृतित्रितयेन च । स्वाहान्तेन त्रिधा हुत्वा षडङ्गहवनं चरेत् ॥” तथा । “ततो देवीं समावाह्य मूलेन षोडशाहुतिम् । हुत्वा स्तुत्वा नमस्कृत्य विसृजेदिम्दुमण्डले ॥” श्यामादौ विशेषः । “भैरवांश्च हुनेदष्टौ आज्यान्वितैस्तिलैः शुभैः । पूर्ब्बादिदिक्क्रमेणैव ततो होमं समाचरेत् ॥” * अथ संक्षेपहोमप्रयोगः । “कुण्डेवास्थण्डिले वापि वीक्षणादिभिः संस्कृते । प्रागग्रा उदगग्राश्च तिस्रो रेखाः समालिखेत् ॥” तथा च । “वीक्षणं मूलमन्त्रेण शरेण ताडनं मतम् । तेनैव प्रोक्षणं प्रोक्तं वर्म्मणाभ्युक्षणं मतम् ॥” ततो मूलमुच्चार्य्य कुण्डाय नमः इति संपूज्य प्रागग्रा उदगग्रास्तिस्रो रेखाः कर्त्तव्याः । प्रागग्रेषु मुकुन्देशपुरन्दरान् प्रादक्षिण्येन संपूज्य उदगग्रासु ब्रह्मवैवस्वतेन्दून् पूजयेत् । सुन्दरीपक्षे तु सर्व्वत्र षट्तारी प्रयोगः षट्तारी च ऐ~ ह्री~ श्रीं ऐं क्लीं सौः ब्रह्मणे समुद्धृत्यं कुण्डोपरि त्रिः परिभ्राम्य जानुस्पृष्ट- महीतलः शिवबीजबुद्ध्या आत्मनोऽभिमुखं देव्या योनी एन क्षिपेत् । ततो ह्रीं वह्निमूर्त्तये नमः इत्यभ्यर्च्च्य रं वह्निचैतन्याय नमः इति चैतन्यं तत्र संयोज्य ओ~ चित् पिङ्गल हन हन दह दह पच पच सर्व्वं ज्ञापय ज्ञापय स्वाहा इति ज्वालयेत् । ततः । “अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥” इत्युपतिष्ठेत् ॥ ततो अग्ने त्वममुकनामासीति नाम कृत्वा ओ~ वेखानरं जातवेद इहावह लोहिताक्ष सर्व्व- कर्म्माणि साधय स्वाहा । अनेनार्घ्यादिभिः संपूज्य ओ~ अग्नेर्हिरण्यादिसप्तजिह्वाभ्यो नमः । ओ~ सहस्रार्च्चिषे हृदयाय नमः इत्यादि अग्नि- षडङ्गेभ्यो नमः । ओ~ अग्नये जातवेदसे इत्या- द्यष्टमूर्त्तिभ्यो नमः । तद्वाह्ये ओ~ ब्राह्म्याद्यष्ट- शक्तिभ्यो नमः । तद्बहिः ओ~ पद्माद्यष्टनिधिभ्यो नमः । तद्वाह्ये ओ~ इन्द्रादिलोकपालेभ्यो नमः । तद्वाह्ये ओ~ वज्राद्यस्त्रेभ्यो नमः । ततः प्रादेश- मात्रं कुशपत्रद्वयं घृतमध्ये निक्षिप्य सव्यासव्य- मध्याभागेषु इडां पिङ्गलां सुषुम्नां ध्यात्वा होमं कुर्य्यात् । स्रुवेण दक्षिणभागादाज्यं गृहीत्वा ओ~ अग्नये स्वाहा इति अग्नेर्दक्षिणनेत्रे जुहु- यात् । तथा वामभागादाज्यं गृहीत्वा ओ~ सोमाय खाहा इति वामनेत्रे जुहुयात् । ततो मध्यभागादाज्यं गृहीत्वा ओ~ अग्निसोमाभ्यां स्वाहा इत्यग्नेर्ललाटनेत्रे जुहुयात् । पुनर्दक्षि- णतः नम इति घृतं गृहीत्वा ओ~ अग्नये स्विष्टिकृते स्वाहा इत्यग्निमुखे । ततो महा- व्याहृतिहोमः । ओ~ भूः स्वाहा ओ~ भुवः स्वाहा ओ~ स्वः स्वाहा ओ~ वैस्वानर जातवेद इहावह लोहिताक्ष सर्व्वकर्म्माणि साधय स्वाहा इत्यनेन त्रिवारं जुहुयात् । ततः अग्नौ मूलेन पीठ- पूर्ब्बकं देवतां संपूज्य तन्मुखे घृतेन मूलमन्त्रेण पञ्चविंशतिवारं जुहुयात् । वह्निदेवतयोरा- त्मना सह ऐक्यं विभाव्य मूलमन्त्रेण एकादशा- हुतीर्ज्जुहुयात् । ततो मूलमन्त्रस्य अङ्गदेव- ताभ्यः स्वाहा शक्तश्चेत् प्रत्येकमेकैकाहुतिं जुहुयात् । ततः सङ्कल्पं विधाय तत्तत्कल्पोक्त- द्रव्येण होमं कुर्य्यात् । ततो मूलमन्त्रेण पूर्णाहुतिं दत्त्वा संहारमुद्रया स्वेष्टदेवता हृदये समांनीय क्षमस्वेति विसृज्य दक्षिणां दत्त्वा अच्छिद्राव- धारणं कुर्य्यात् । इति तन्त्रसारः ॥ बृहद्धोम- प्रयोगस्तु तत्रैव द्रष्टव्यः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
होमः [hōmḥ], [हु-मन्]
Offering oblations to gods by throwing ghee into the consecrated fire, (one of the five daily Yajñas, to be performed by a Brāhmaṇa, called देवयज्ञ q. v.); इष्टिर्यागः । स एवासेचनाधिको होमः ŚB. on MS.6.8.7.
A burnt offering.
A sacrifice; R.3.38; Mb. 12.165.26. -Comp. -अग्निः the sacrificial fire. -कर्मन् sacrificial act. -कल्पः mode of sacrificing. -कुण्डम् a hole in the ground for receiving the consecrated fire. -तुरङ्गः a sacrificial horse; नियुज्य तं होमतुरङ्गरक्षणे R.3.38. -धानम् a sacrificial chamber.
धान्यम् sesamun.
barley.-धूमः the smoke of a burnt offering or sacrificial fire.-धेनुः a cow yielding milk for an oblation. -भस्मन्n. the ashes of a burnt offering. -भाण्डम् a sacrificial implement. -वेला the time for offering oblations.-शाला a sacrificial hall or chamber.
