होलाका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
होलाका, स्त्री, (हु + विच् । तं लाति । ला + संज्ञायां कन् टाप् ।) वसन्तोत्सवः । होली इति भाषा । इति दायभागंटीका ॥ तदधि- करणन्यायो यथा । अथ होलाकाधिकरणम् । प्रतीच्यानां होलाकाचारदर्शनेन तदर्था होलाका आचरणीया इति सामान्यविधिः कल्प्यते । न तु प्राच्यानामनाचरणात् प्रतीच्यैरिति तत्र पदं देयं सामान्यविधिनैव प्रतीच्याचारोपपत्तेः । प्राच्यानामनाचारस्य इच्छाविरहेणैव उपपत्तेः । इच्छाविरहश्च तद्देशीयपूर्ब्बपूर्ब्बनाचारदर्शनात् । प्रतीच्यानामुल्कादानाद्याचारविरहवत् । न ह्यनाचारार्थं वेदः कल्प्यते । तथा च यत्र सामान्यश्रुत्या उपपत्तिस्तत्र विशेषविधिर्न कल्प्यते गुरुरनुगन्तव्यः सदेतिवत् । न हि कर्म्मकाले तदसम्भवात् तदन्यकाले इति विशेष- णीयम् । इति अधिकरणकौमुदी ॥ * ॥ अन्यच्च । यथा होलाकाधिकरणे प्राच्यकर्त्तृकहोलाकानु ष्ठानोपपत्तये होलाका कर्त्तव्येत्येव श्रुतिः कल्पिता । तावतैव तदुपपत्तेः न तु प्राच्यादिः पदवती कल्पनागौरवात् तद्वदत्रापि अर्ज्जको अंशद्वयं गृह्णीयादिति श्रुतिः कल्पनीया न तु पित्रादिपदवती तदयुक्तं तत्र प्राच्यकर्त्तृकानु- ष्ठानस्यावश्यकल्पनीयसामान्यश्रुत्यैवोपपत्तेः । न चाप्राच्यानामननुष्ठानार्थं प्राच्यपदवती कल्प्यता- मिति वाच्यम् । तेषामननुष्ठानस्यानाचाररूपस्य श्रुतिकल्पनानिमित्तत्वानुपपत्तेः । इति दाय- भागः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
होलाका¦ स्त्री हु--विच् तं लाति ला--क संज्ञायां कन्।
१ वसन्तोत्सवभेदे उपचारात् तत्काले फालगुनपौर्ण-मास्याञ्च
१ पृषो॰ होली होलिका होलकाऽप्यत्र। होलाकाविधिश्च आचारप्राप्त इति माधवादयः। पुराणादिप्रसिद्धः शास्त्रमूलोऽयम् आचार इति हेमाद्रि-निर्णयसिन्धुप्रभृतयः। तद्विधिकालौ नि॰ सि॰ उक्तौयथा
“फाल्गुनपौर्णमासी होलिका सा च सायाह्नव्यापिनीग्राह्यां
“सायाह्ने होलिकां कुर्य्यात् पूर्वाह्णे क्रीडर्नगवामिति” वचनादिति निर्णयामृते उक्तम्। ज्योतिर्नि-बन्धे तु
“प्रतिपद्भूतभद्रासु याऽर्चिता होलिका दिवा। संवत्सरञ्च तद्राष्ट्रं पुरं दहति साद्भुतम्। प्रदोषव्यापिनीग्राह्या पूर्णिमा फाल्गुनी सदा। तस्यां भद्रामुखं त्यक्त्वापूज्या होला निशामुखे” इति नारदवचनात् प्रदोष-व्यापिनीत्युक्तम्। हेमाद्रौ भदनरत्ने च भविष्ये
“अस्यांनिशागमि पार्थ! संरक्ष्याः शिशवो॰ गृहे। गोमयेनोप-लिप्ते च सचतुष्के गृहाङ्गणे” इत्यादिना तत्रैव तद्वि-धानाच्च। तेनेयं पूर्वविद्धा
“श्रावणी दुर्गनवमो दूर्वा चैवहुताशनी। पूर्वविद्धैव कर्त्तव्या शिवरात्रिर्यलेर्दिनम्इति वृहद्यमब्रह्मवैवर्त्तोक्तेश्च। दिनद्वये प्रदोषव्याप्तौपरैव पूर्वदिने भद्रासत्त्वात् तत्र च होलिकानिषेधात्तदुक्तं निर्णयामृते मदनरत्ने च पुराणसमुच्चये
“म-द्रायां दीपिता होली राष्ट्रभङ्गं करोति वै। नगुरस्यश्च नैवेष्टा तस्मात् तां परिवर्जयेत्”। तथा
“भद्रार्याद्वे न कर्त्तव्ये श्रावर्णीं फाल्गुनी तथा। श्रावणी नृपतिंहन्ति ग्रामं दहति फाल्गुनी”। तथा
“दिनार्धात् पर-तोऽपि स्यात् फाल्गुनी पूर्णिमा यदि। रात्रौ भद्रा-वसाने तु होलिका दीप्यते तदा इति। यदा तुपूर्वदिने चतुर्दशी प्रदोषव्यापिनी परदिने च क्षयवशात्सायाह्नात् प्रागेव पूर्णिमा समाप्यते तदा पूर्वदिने संपूर्ण[Page5439-a+ 38] रात्रौ भद्रासत्त्वात् तत्र च तन्निषेधात् परेऽहनि प्रति-पद्येव कुर्य्यात्।
“सार्द्धयामत्रयं वा स्याद् द्वितीयदिवसेयदा। प्रतिपद्वर्द्धमाना तु तदा सा होलिका स्मृता” इति भविष्यवचनादिति निर्णयामृतकारः। मदन-रत्नेऽप्येवम्। यत् तु
“वह्नौ वह्निं परित्यजेदिति” भवि-ष्यम्। वह्नौ होलिकायां वह्निं प्रतिपदं वर्जयेदित्यर्थःतदुक्तभिन्नविषयमिति तत्रैवोक्तम्। अन्ये तु तस्यांभद्रामुखं त्यक्त्वा कार्य्या।
“प्रदोषव्यापिनी चेत् स्याद्यदा पूर्वदिने तथा। भद्रामुखं वर्जयित्वा होलिकायाःप्रदीपनम्” इति नारदवचनात्।
“निशागमे प्रपू-ज्यत होलिका सर्वदा बुधैः। न दिवा पूजयेद्धोलांपूजिता दुःखदा भवेत्” इति दिवोदासीयवचनात्।
“यामत्रयोर्द्ध्वयुक्ता चेत् प्रतिपत्तु भवेत्तिथिः। भद्रा-मुख परित्यज्य कार्य्या होला मनीषिभिः” इति विद्याविनोदेऽभिधानाच्च। भद्रामुखं विहाय पूर्वदिन एव कार्य्येत्याहुः। भद्रामुखन्तु
“नाड्यस्तु पञ्च वदनं गणकास्तथैके” इतिरत्नमालोक्तं ज्ञेयम्। शिष्टाचारोऽप्येवमेव। अत्र चेच्च-न्द्रग्रहणं तदा ततोऽर्वाङ्निशि भद्रावर्जं पौर्णमास्यां हो-लिकादीपनम् अथ परेऽह्निग्रस्तोदयस्तदा पूर्वदिने भद्रावर्जं रात्रौ चतुर्थयामे विष्टिपुच्छे या होलिका कार्य्या। ग्रहोत्तरं प्रतिपत्सत्त्वात् तत्पूर्वञ्च दिवा होलानिषे-धादिति दिवोदासचन्द्रप्रकाशौ। वस्तुतस्तु परदिने प्र-दोषे पौर्णमासीसत्त्वे कर्मकालस्पर्शे चतुर्थयामादिगौणकालग्रहणे मानामावाद्भद्राभावाच्च ग्रहणकालएव होला कार्य्या। न च
“सर्वेषामेव वर्णानां सूतकंराहुदर्शने। स्नात्वा कर्मणि कुवीत शृतमन्नं विवर्जयेदिति” निषेधात् कथं सूतके होलेति वाच्यम् तस्योत्तरार्द्ध-शेषत्वात्। पूजामन्त्रस्तु
“असृकपाभयसन्त्रस्तैः कृता त्वहोलि! बालिशैः। अतस्त्वां पूजयिष्यामि भूते भूतिप्रदाभव” इति। यत्तु वार्त्तिककारैर्होलिका आचारप्राप्ते-त्युक्तम्। तत्र हेमाद्र्याद्युदाहृतमविष्यवचनान्यसिद्धानिकृत्वा चिन्ता ज्ञेया आर्त्त्यधिकरणवत्। हुताशनीमलमासे न भवति” नि॰ सि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
होलाका¦ f. (-का)
1. The spring-festival held at the approach of the vernal season, the ceremony of throwing a red powder called Pha4g, (held during the ten days preceding the full-moon-day of the month of Fa4lguna.)
2. The full-moon-day in the month of Fa4lguna; also read होली f. (-ली).
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
होलाका [hōlākā], 1 The spring-festival celebrated at the approach of the spring season, during the ten - but particularly three or four - days preceding the fullmoon day in the month of Phālguna (commonly calledHoli).
The full-moon day in the month of Phālguna.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
होलाका f. See. next.
होलाका f. (perhaps from a cry or shout or sound in singing) , the spring festival at the approach of the vernal equinox (commonly called Huli or होली, and said to be dedicated to कृष्णand the गोपीs ; it is celebrated during the ten days preceding the full moon of the month फाल्गुन, when people sprinkle red powder in sport and light fires ; in some parts of India the होलीfestival corresponds to or immediately precedes the दोला-यात्राSee. ) RTL. 430.
