होलाकाधिकरण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
होलाकाधिकरण¦ न॰ जैमि॰ प्रथमस्य द्वितीयपादे दर्शितेन्यायभेदे तच्च तत्त्वबोधन्याम संक्षिप्य दर्शितं यथा
“होलाका प्राच्याभिमानिभिरनुष्ठीयते होलाका च वसन्तोत्सविशेषः हुलीतिप्रसिद्धः। एवमादीनेषुकादिकंदक्षिणात्यैः, आदीनेषुक स्वस्वकुरांगतं करञ्जार्कादि[Page5439-b+ 38] स्थावरदेवतापूजादिकं तद्देशप्रसिद्धम्। उद्वृषभयज्ञादि-कमुदीच्यैः क्रियते उद्वृषभयज्ञश्च ज्यैष्ठस्य पौर्णभास्यांबलीवर्द्दानभ्यर्च्यधारयन्ति यत् सः तद्देशप्रसिद्धः एवं हा-रीताद्युक्तस्मृतयोऽपि काश्चित् कस्मिंश्चिद्देशविशेषे दृश्यन्तेगृह्योक्तकर्माणि तत्तच्छाखीकर्त्तृकानीत्येषां मूलभूताःश्रुतयः कल्पनीयाः। ताश्च किं प्राच्यैर्होलाका कर्त्त-व्येत्यादिरूपा प्राच्यादिपदघटिता{??}वस्थितविषया उत-होलाका कर्त्तव्या इति तत्तत्पदाघटिता सामान्यवि-षया इति संशयः तत्र प्राच्यादिंपदघटितैव कल्प्या देश-विशेषाणामाचारदर्शनात् लिङ्गव्यवस्थया हि लिङ्ग्यनु-मीयते यथा यत्र धूमोऽवगतस्तत्रैव वह्निरनुमीयते ना-न्यत्र तथा च सूत्रम्
“अनुमानव्यवस्तानात्तत्संयुक्तं प्र-माणं स्यात्” अस्यार्थः। अनुमानव्यवस्थानात् धूमादि-व्यवस्थया वह्न्याद्यनुमानव्यवस्थादर्शनात् तत्संयुक्तंप्राच्यादिपदघटितम् अनुमेयश्रुतिवाक्यं प्रमाणं स्यादितिप्राप्ते राद्धान्तायोक्तम्
“विशेषाभावमात्रेण प्रसिध्येत्सवधर्मता। विशेषणात् व्यवस्था स्यात् तच्च नेहोपपद्यते”। अस्यार्थः विशेषाभावमात्रेण हारीतस्मृतिगोभिलगृ-ह्यादौ शाखिविशेषप्रतिपादकपदाभावन तत्तत्स्मृत्युक्तस्यसर्वधर्मता सर्वसाधारणी कर्त्तव्यता प्रसिध्येत्। तथाहि छन्दोगोहि गोभिलादिः स्वशिष्यानध्यापयामास ते-ऽप्यन्यान् छन्दोगानेवमन्यत्रापि गृह्यग्रन्थादिकमुक्तमूह्यम्अतस्तत्तच्छाखिनस्तत्तच्छाखोक्तमाचरन्ति इति स्मृतिवा-क्यानुसारिणी श्रुतिः कल्पनीया। आचारे त्वाह विशे-षणात् प्राच्यादीनां विशेषव्यवहारदर्शनेनानुमेयश्रुतौप्राच्यादिविशेषणपदान्तर्भावात् व्यवस्था स्यात् प्राच्यादी-नामेव तदाचरणमिति विधानव्यवस्था स्यात् तच्च नेहो-पपद्यते। अयम्भावः सर्वाचरितृष्वनुगतम् अनाचरितृ-भ्यश्च व्यावृत्तम् आकृतिव्यक्तिगुणादिकं किचित् विशेषणंन सम्भवति यदुपादाय होलाकाद्यधिकरणं स्यात्। नच प्राचीभवत्वादिरूपप्राच्यादिपदसमाख्या तथेति वाच्यंतद्देशभवानामपि केषाञ्चिदनाचरणात् चिरविनिर्गतस्यतत्तद्देशीयस्य पुत्रपौत्राणां समाख्यायामसत्यामपिहोलाका कर्त्तव्येति सामान्यश्रुत्यैवोपपत्तौ प्राच्यादि-पदघटितश्रुतिकल्पनमन्याय्यं गौरवात् न चाप्राच्यानामननुष्ठानार्थं प्राच्यादिपदवती कल्पनीया अनाचरणरूपस्याननुष्ठानस्याश्रुतिकल्पकत्वात् तस्येच्छाविरहेणैव सम्भवात्। न हि यदि श्रुतिविहितं स्यात् तदा अप्राच्यैरपि अ-[Page5440-a+ 38] नुष्ठितं स्यादिति तर्कयितुं शक्यते होलाकाया नित्यत्वेमानाभावेन काम्यत्वात्। न हि सर्वमेव श्रुतिविहितंकाम्यं सर्वैः सद्भिरनुष्ठीयते न वैकस्य कर्त्तुर्विधानमन्यस्यतन्निषेधयति येनाप्राच्यानां निषिद्धाचरणेनानिष्टजन-कताज्ञापनार्थं तत्पदमर्थवत् स्यात्। अत्र च शास्त्रदीपि-काधिकरणमालादायमागप्रभृतिषु प्राच्यानामिति पाठः। प्राच्याश्चात्र शास्त्रीयाः ते च सुमेरुलङ्कयोर्मध्येया रेखाज्यीतिः शास्त्रादौ प्रसिद्धा तस्याः पूर्वदेशीयाः प्राच्याःन तु गौडदेशावधिकपूर्वंदेशीयाः। तस्याः पश्चिम-देशीयाश्च पाश्चात्त्याः। एतेन प्रतीच्यानां तथाचरणमितिस्वदेशाभिप्रायेणैव गौडीयेनोदीच्येन लिखितं तद्धेयंगौडीयानामेव श्रुतिकल्पनम् अप्रत्यक्षवेदानां तथाचाव्यवस्थितश्रुतिकल्पना स्यात् न चायमपि दोषः विशेष-कल्पने भविष्यति तथा सति पार्थसारथिमिश्रादिभिर्निबन्धृभिरयमप्युद्भावितः स्यात् न चैवम्। तस्माज्ज्योतिरादिशास्त्रप्रसिद्धप्राच्यादिमादायैवेयमाशङ्केति”।
