ह्रस्वः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ह्रस्वः, पुं, स्त्री, (ह्रस + वन् ।) प्रकृतपुरुषप्रमा- णात्न्यूनमनुष्यः । वाउने इति भाषा । तत्- पर्य्यायः । खर्व्वः २ वामनः ३ वामनी ४ । इत्यमरभरतौ । २ । ६ । ४६ ॥ नोचकः ५ नीचः ६ । इति शब्दरत्नावली ॥ अकर्त्तनः ७ । इति जटाधरः ॥ एकमात्रवर्णे, पुं, । यथा, -- “एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लूतो ज्ञेयो व्यञ्जनं चार्द्धमात्रकम् ॥” इति मुग्धबोधटीकायां दुर्गादासः ॥ मुग्धबोधमते अस्य स्व-संज्ञा । यथा । आवत्- स्वर्घप्लु । अ-आ-अ इति वर्णत्रयं क्रमेण स्व- र्घप्लू-संज्ञं-स्यात् । वच्छब्दाद इ-ई-इ इत्या- दिषु च । तन्मते अस्य घुसंज्ञापि । यथा । स्वर्घौ घुरू । स्वर्घुसंज्ञो र्घोरुसंज्ञः स्यात् । इति वोपदेवः ॥ मेषवृषकुम्भमीनराशयः । यथा । अस्वास्तिमिगोऽविघटाः । इति ज्योतिस्तत्त्वम् ॥
