असृज्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृक्, [ज्] क्ली (न + सृज् + क्विप् ।) रक्तम् । इत्यमरः ॥ (“पानमप्यसृजः क्षिप्रं स्वपीडायै जलौकसाम्” । इति दृष्टान्तशतकम् ।) कुङ्कुमं । इति राजनिर्घण्टः ॥ विष्कुम्भादि सप्तविंशति योगान्तर्गतषोडशयोगः ॥ तत्र जातफलं । “धनी कुरूपः कुमतिर्दूरात्मा विदेशगामी रुधिरप्रकोपः । महाप्रलोभी पुरुषो वलीया- नसृक् प्रसूतौ किल यस्य जन्तोः” । इति कोष्ठीप्रदीपः । रक्तार्थे यथा, वैद्यकं ॥ “रसासृक्मांसमेदोटस्थि मज्जशुक्राणि धातवः” । “तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते” । “वातासृक् पूर्व्वलक्षणं ।” इति माधवकरः ॥ “विदाह्यन्नं विरुद्धञ्च तत्तच्चासृक् प्रदूषणं । भजतां विधिहीनञ्च स्वप्नजागरमैथुनं ॥ प्रायेण सुकुमाराणामचङ्मणशीलिनां । अभिघातादशुद्धेश्च नृणामसृजि दूषिते ॥ वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गकः । तादृशनासृजा रुद्धः प्राक् तदेव प्रदूषयेत्” ॥ इति वाभटः ॥ “असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः” । “तद्वर्षाद्दादशात्काले वर्त्तमानमसृक् पुनः । जरापक्वशरीराणां यातिपञ्चाशतः क्षयं ॥ मदमूर्च्छा श्रमार्त्तानां वातविण्मूत्रसङ्गिनां । निद्राभिभूतभीतानां नृणां नासृक् प्रवर्त्तते” ॥ इति सुश्रुतः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृज् नपुं।

रक्तम्

समानार्थक:रुधिर,असृज्,लोहित,अस्र,रक्त,क्षतज,शोणित,कीलाल

2।6।64।1।2

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृज्¦ न॰ न सृज्यते इतररागवत् संसृज्यते सहजत्वात् न +सृज्--क्विन्, अस्यते क्षिप्यते इतस्ततो नाडीभिः अस् ऋजिवा।

१ शोणिते

२ मङ्गलग्रहे च तस्य रक्तवर्णत्वात्तथात्वम्। कुङ्कुमे,

३ विष्कम्भावधिके

४ षोडशे योगे। शोणितोत्पत्तिरुक्ता भाव॰ प्र॰।
“यदा रसोयकृद्याति तत्र रञ्जकपित्ततः। रागं पाकञ्च संप्राप्य स भवेद्रक्तसंज्ञकः। रक्तं सर्व्व-शरीरे तु जीवस्याधार उत्तमः। स्निग्धं गुरु चलैस्वादु विदग्धं पित्तवद्भवेत्”। तस्योत्तमत्वञ्चोक्तं तत्रैव
“जीवोवसति सर्व्वस्मिन् देहे तत्र विशेषतः”। वीर्य्येरक्ते मले तस्मिन् क्षीणे याति क्षयं क्षणात्”। वीर्य्ये रक्तेमले च शरीरारम्भके वाग्भटोक्तपरिमाणयुक्ते शुद्धेजीवोवसति न तु दुष्टे प्रवृद्धे रक्तस्रावणोपदेशस्यविधानात्। पित्तवद्भवेदम्लं भवेदित्यर्थः॥ तस्य स्थानम्”
“यकृत् प्लीहा च रक्तस्य सुख्यस्थानं तयोः स्थितम्”। अन्यत्र संस्थितवतां रक्तानां पीतता भवेत्” इति भा॰ प्रका॰सुश्रुते शोणितोत्पादविवरणमन्यथोक्तं यथा
“अथातःशोणितवर्ण्णनीयमध्यायं व्याख्यास्यामः। तत्र पाञ्चभौति-कस्य चतुर्विधस्य षड्रसस्य द्विविधवीर्य्यस्याष्टविधवीर्य्यस्यवानेकगुणस्योपयुक्तस्य आहारस्य सम्यक् परिणतस्य यस्तेजो-भूतः सारः परमसूक्षमः स रसैत्युच्यते। तस्य चं हृदयंस्थानं स हृदयाच्चतुर्व्विंशतिं धमनीरनुप्रविश्योर्द्ध्वगा दशदश चाधोगामिन्यश्चतस्र स्त्रिर्य्यग्गाः कृत्स्नं शरीरमहर-हस्तर्पयति वर्द्धयति धारयति यापयति जीवयति चादृष्ट-हेतुकेन कर्म्मणा। तस्य शरीरमनुधावतोऽनुमाना-द्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः। तस्मिन् सर्व्वशरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासाकिमयं सौम्यस्तैजस इति। अत्रोच्यते स खलु द्रवानुसारी-स्नेहनजीवनतर्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते। स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति। भवतश्चात्र॥
“रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम्। [Page0563-a+ 38] अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते॥ रसादेव स्त्रियारक्तं रजःसंज्ञं प्रवर्त्तते। तद्वर्षाद्द्वादशादूर्द्ध्वं याति पञ्चा-शतः क्षयम्॥ आर्त्तवं शोणितं त्वाग्नेयमग्नीषोमीयत्वा-द्गर्भस्य पाञ्चभौतिकञ्चापरे जीवरक्तमाहुराचार्य्याः॥
“विस्रता द्रवता रागः स्पन्दनं लघुता तथा। भूम्यादीनांगुणा ह्येते दृश्यन्ते चात्र शोणिते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृज्¦ n. (-सृक्) Blood. E. अ neg. सृज् to create, क्विप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृज् [asṛj], n. [न सृज्यते इतररागवत् संसृज्यते सहजत्वात् न-सृज्- क्विन् Tv.]

Blood; भूम्या असुरसृगात्मा क्व स्वित् Rv.1.164.4.

The planet Mars.

Saffron. m. N. of the 16th of the 27 Yogas; धनी कुरूपः कुमतिर्दुरात्मा विदेशगामी रुधिरप्रकोपः महाप्रलोभी पुरुषो बलीयानसृक्प्रसूतौ किल यस्य जन्तोः ॥ Śabdak. -Comp. -करः [असृक् शोणितं करोति कृ-ट] the essence of the body; lymph, serum; (the process of रस turning into blood &c., is thus described by Suśr.: रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते । मेदसो- स्थि ततो मज्जा मज्ज्नः शुक्रस्य संभवः). -ग्रहः Mars. Bṛi. S.-दरः an irregular or excessive menstruation, mœnorrhagia. -दोहः shedding blood. -धरा the skin.

धारा a stream of blood.

the skin. -पः, -पाः 'a blooddrinker', a Rākṣasa. -पातः the falling of blood; कृच्छ्रातिकृच्छ्रो$सृक्पाते Y.3.292 (pl.) drops of blood; यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम् Ms.8.44. -वन् a. Ved. drinking blood; अरायमसृक्वानं यश्च स्फातिं जिहीर्षति Av.2. 25.3. -वहा a blood-vessel; pulse. -विमोक्षणम् bloodletting, bleeding. -श्रा (स्रा) वः bleeding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृज् क्mfn. (once द्TS. vii )( m. or f. only Hariv. 9296 )blood RV. i , 164 , 4 AV. etc. [for the weak cases See. असन्; besides , in later language , forms like instr. असृजा( R. iii , 8 , 4 ) and gen. असृजस्( Sus3r. ) are found]

असृज् n. saffron L.

असृज् m. ( क्)the planet Mars

असृज् m. a kind of religious abstraction L.

"https://sa.wiktionary.org/w/index.php?title=असृज्&oldid=489975" इत्यस्माद् प्रतिप्राप्तम्