बहुव्रीहि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बहुव्रीहिः, पुं, षट्समासान्तर्गतसमासविशेषः । (मुग्धबोधमते ।) अस्य साङ्केतिकसंज्ञा हः । यथा, अन्यार्थानां दानां हसंज्ञः । उदाहरणं यथा । पीतमम्वरं यस्यासौ पीताम्बरो हरिः । इति वोपदेवः ॥ स च तुल्याधिकरणानां पदानां अन्यार्थत्वे स्यादिति बोध्यम् । यथा पीताम्बरादि । मिन्नाधिकरणानान्तु पुत्त्राय धनमस्य शिष्याय विद्या अस्य इत्यादौ न स्यात् । समातृक इत्यु- दाहरणेन कदाचिद्भिन्नाधिकरणानाञ्च स्यात् धर्म्मे वृत्तिर्यस्यासौ धर्म्मवृत्तिः । एवं कामवृत्तिः उरसि लोमा कण्ठे काल इत्यादि । एवं पीता- म्बर इत्युदाहरता विशेषणविशेष्ययोः समासे विशेषणमेव पूर्ब्बं स्यादिति सूचितम् । तेन पीताम्बर इत्यत्र अम्बरपीत इति न स्यात् । एवं त्रिलोचनः चतुर्भुजः दीर्घकेशीत्यादि । एवं पीताम्बर इत्युदाहरता क्वचित् क्तान्तविशेषणं पूर्ब्बं स्यात् क्वचित् परं वा स्यात् इति सूचि- तम् । तेन अव्याहतस्वैरगतेरिति । अथेप्सितं भर्त्तुरुपस्थितोदयमिति । स वृत्तचूडश्चलकाक- पक्षकैरित्यादि रघुः ॥ सुखजातः सुरापीतो नृजग्धो माल्यधारक इति । एवं जातदन्तः दन्तजातः जातश्मश्रुः श्मश्रुजातः पीततैलः तैलपीतः पीतघृतः घृतपीतः ऊढभार्य्यः भार्य्योढः गतभार्य्यः भार्य्यागतः गतार्थः अर्थ गतः अग्न्याहितः आहिताग्निः पुत्त्रजातः जातपुत्त्रः जातयामः यामजातः दुःखजातः जातदुःखः गडुकण्ठः कण्ठगडुः इत्यादिबोध्यम् । एवमुद्यतचक्रः चक्रोद्यतः उद्यतासिः अस्युद्यतः उद्यतगदः गदोद्यतः उद्यतस्वड्गः खड्गोद्यत इति । आयुधेभ्यो नित्यं पूर्ब्बमिति जौमराः ॥ यथा उद्यतचक्र इत्यादि । एवं सर्व्वनामसक- लात् पूर्ब्बम् । सर्व्वश्वेतः । संख्यासर्व्वनाम्नोः संख्यापूर्ब्बं स्यात् । द्विपरः त्रिपूर्ब्बः । सप्तम्य- न्तमचन्द्रादेः । सप्तम्यन्तं पदं पूर्ब्बं स्यान्न चन्द्रादेः । धर्म्मे वृत्तिर्यस्यासौ धर्म्मवृत्तिः उरसि लोमा कण्ठेकाल इत्यादौ उरसिजवत् क्तेर- लुक् । चन्द्रादेस्तु चन्द्रशेखरः चन्द्रचूडः पद्म- नाभः शूलपाणिः कुशहस्तः । प्रियो वा । गुडप्रियः प्रियगुडः । किञ्च आरूढो वानरो यं स आरूढवानरो वृक्षः । दृष्टः कृष्णो येन स दृष्टकृष्णो भक्तः । दत्ता भूमिर्यस्मै स दत्त- भूमिर्व्विप्रः । निर्गताः पक्षिणो यस्मात् वृक्षात् स निर्गतपक्षी वृक्षः । चत्वारो भुजा यस्यासौ चतुर्भुजो विष्णुः । बहूनि नक्षत्राणि यत्र तद्बहु- नक्षत्रमाकाशम् । इति द्बितीयान्ताद्यन्य- पदार्था बहुव्रीहयः सर्व्वैर्मन्यन्ते । स्वमते तु प्रथमान्तान्यपदार्थोऽपि यथा सह मात्रा वर्त्तते योऽसौ समातृकः एवं सपक्षकः सनामकं ब्राह्मणमानिनीत्यादि । इति दुर्गादासः ॥ * ॥ (बहवो ब्रीहयो यस्येति व्युत्पत्त्या) प्रचुर- धान्ययुक्ते, त्रि । यथा, -- “द्बन्द्बो द्बिगुरपि चाहं मद्गेहे नित्यमव्ययी- भावः । तत्पुरुष ! कर्म्म धारय येनाहं स्यां बहुव्रीहिः ॥” इति प्राचीनाः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब(व)हुव्रीहि¦ त्रि॰
६ ब॰।
१ अनेकधान्यादियुक्ते
“तत्पुरुष!कर्म धारय येन यस्यां सदा बहुव्रीहिः” उद्भटः। व्या॰[Page4567-b+ 38] करणोक्ते प्रायेण अन्यपदार्थप्रधाने
२ समासभेदे पु॰तल्लक्षणादिकं शब्दशक्तिप्रकाशिकायामुक्तं यथाबहुब्रीहिं लक्षयति।
“बहुव्रीहिः स्वगर्भार्थसम्बन्धि-त्वेन बोधकः। निरूढथा लक्षणया स्वांशज्ञापकशब्द-वान्” समास इति प्रकृतं तथा च स्वांशस्य निरूढ-लक्षणया ज्ञापकेन शब्देन घटितः स्वगर्भस्य यादृशार्थस्यसम्बन्धित्वप्रकारेणान्वयबोधं प्रति समर्थः समासः स्वगर्भ-तादृशार्थसम्बन्धिबोधेन बहुव्रीहिरित्यर्थः। आरूढवान-रोवृक्ष इत्यत्रारूढोवानरो यमिति व्युत्पत्त्या स्वकर्म-कारोहणकर्तृवानरसम्बन्धित्वेन वृक्षं, पीतपयस्कं पात्र-मित्यत्र पीतं पयोयेन इति रीत्या खकरणकपानकर्म-जलसम्बन्धित्वेन पात्रम्, पक्वतण्डुलश्चैत्र इत्यत्र पक्व-स्तण्डुलो येनेति दिशा स्वकर्तृकपाककर्मतण्डुलसम्ब-न्धित्वेन चैत्रं, दत्तदक्षिणोद्विज इत्यत्र दत्ता दक्षिणायस्मै इति क्रमेण स्वसम्प्रदानक्वदानकर्मदक्षिणासम्बन्धि-त्वेन द्विजं, पतितपत्रस्तरुरित्यत्र पतितं पत्रं यस्मा-दिति विग्रहेण स्वापादानकपतनाश्रयपत्रसम्बन्धित्वेनतरुं, चित्रगुरित्यत्र चित्रा गौर्यस्येति वाक्यानुसारेणश्चित्राभिन्नस्वगोसम्बन्धित्वेन चैत्रम्” रक्तपटः काय इत्यत्ररक्तः पटो यत्रेति व्युत्पत्या रक्ताभिन्नस्ववृत्तिपटसम्ब-न्धित्येन कायम्” एवं वाणच्छिन्नकरोनर इत्यादावपि। वाणेन छिन्नः करो येन यस्य वा इत्यादि विग्रहेवाणकरणकस्वकर्तृकच्छिदाकर्मकरसम्यन्धित्वादिना नरा-दिकं बहुव्रीहिर्वोधयतीति सर्वत्र स्वगर्भतत्तदर्थसम्बन्धि-त्वेन धर्मिणामवगमः। दक्षिणपूर्वा पूर्वोत्तरेत्यादिवि-दिग्बहुव्रीहिस्थले दक्षिणया पूर्वा यस्या इत्यादिविग्रहेणस्वपार्श्वस्थदक्षिणसहितपूर्वदिक्सम्बन्धित्वादिना आग्ने-यीप्रभृतीनां विदिशां बोधः। अस्तिक्षीरा गौरीत्यादाव-प्यस्ति क्षीरं यस्या इत्यादिविग्रहेणास्तित्ववत्स्वक्षीरसम्ब-न्धित्वादिप्रकारेण गवादेरवगतिः। इयांस्तु विशेषो यत्त-त्रैकेषाम्मतेऽस्तीत्यादिकं तिङन्तमन्येषां मते तत्प्रतिरूप-काव्ययमिति। उप समीपे दश येषामिति समीपगणित-त्वार्थकपष्ठ्या विग्रहादुपदशाः शकुनय इत्यादौ स्वसमी-पगणितदशसम्बन्धित्वेन नवानामेकादशानानाञ्च पक्षिणा-मवगमस्तत्र दशशब्दस्य दशत्वलक्षणया स्वपर्थ्याप्तसंख्या-समीपगणितदशत्वसम्बन्धित्वेनैव नवादेर्बोध इति दुर्ग-प्रभृतयः। अधिका दश येषामित्यादिविग्रहे अधिकदशाःपरुषा इत्यादावपि स्वपर्य्याप्तसंख्याधिकदशवृत्तिसंख्या-[Page4568-a+ 38] पर्य्याप्त्यधिकरणदशसम्बन्धित्वेन नवादिपुंसां प्रत्ययः। द्वौ त्रयो वा येषां इत्यन्यतरार्थकवाशब्देन विग्रहे द्वित्राःपवित्राः इत्यादौ। द्वित्र्यन्यतरपर्य्याप्तस्वपर्य्याप्त-सख्यासम्बन्धित्वेन द्वयोस्त्रयाणां वा पवित्राणां बोधः। पटे घटे वा घटत्वमित्याद्यनुरोधेन वाकारस्यान्यतरार्थ-कताया व्युत्पाद्यत्वात् तस्य च वृत्तौ गतार्थत्वादश्रुतिःपञ्च षड् वा येषामित्यादिविग्रहात् पञ्चष{??} पुरुषाःइत्यादावप्युक्तरीत्यैवान्वयोद्रष्टव्यः। परे तु द्वौ वा त्रयोवा येवामित्यादिबिग्रहे वाशब्दस्य संशयकोट्यर्थकंतयाद्वित्रा इत्यादि बहुव्रीहेः स्वधर्भिकसंशयकोटितापन्न-द्वित्रिसम्बन्धित्वेन द्विप्रभृतिबाधकत्वमित्याहुः”। वैयाकर-णास्तु बहुव्रीहिप्रकरणपठितत्वमेव तत्त्वमित्याहुः तेनउन्मत्तगङ्गाद्यव्ययीभावे नातिव्याप्तिः। तद्भेदौ च तद्-गुणातद्गुणसावज्ञानौ तद्गुणसंविज्ञानशब्द
६२
१७ पृ॰उक्तौ तत्र समानाधिकरणपदघटितस्येव प्रायेण साधुत्वम्।
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बहुव्रीहि/ बहु--व्रीहि mfn. possessing much rice
बहुव्रीहि/ बहु--व्रीहि m. a relative or adjective compound (in which , as in the word बहु-व्रीहिitself [See. तत्-पुरुष] , the last member loses its character of a substantive and together with the first member serves to qualify a noun) Pa1n2. 2-2 , 23 ; 35 etc.