अयाज्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयाज्य¦ त्रि॰ न याजयितुमर्हः यज--णिच्--कर्म्मणि यत् न॰ त॰। पतितादौ स्मृतिनिषिद्धयाजने। ते च स्मृतौ दर्शिताः यथादेवलः
“पतितेन सहोषित्वा जानन् संवत्सरं नरः मिश्रितस्तेन सोऽब्दान्ते स्वयञ्च पतितो भवेत्। याजनं योनिसम्बन्धंसाध्यायं सहभोजनन्। कृत्वा सद्यः पतत्येष पतितेनन संशयः। बौधा॰
“संवत्सरेण पतति पतितेन नसंशयः याजनाध्यांपनाद्यौनात् सद्यो न शयनासनात्”। [Page0343-a+ 38] मनुविष्णू।
“संवत्सरेण पतति पतितेन सहाचरन् याज-नाध्यापनाद्यौनात् न तु यानासनाशनात्” पैठौनसिः
“संवत्सरेण पतति पतितेन सहाचरन्। याजना-ध्यापनाद्यौनान्न त्वेकशयनासनात्”। पतितानभि-धायाह सुमन्तुः।
“यश्च तैर्यौनमौखस्रौवाणां सम्बन्धा-नामन्यतमेन सह संवत्सरं सम्पर्कमियात् तस्याप्यैतदेवप्रायश्चित्तं विदध्यात्” इयात् कुर्य्यात् द्बादशवार्षिकमि-त्यर्थः मौखं मुखसाध्यमध्यापनं स्त्रौवं स्रुवसाध्यं याजन-मित्यर्थः अत्र याजनादीनामन्यतमेन संवत्सरेण पततीत्य-वगम्यते प्रा॰ वि॰। हारीतः।
“संवत्सरेण पततिपतितेन सहाचरन् याजनाध्यापनाद्यौनादेकशय्यैकभोज-नात्” वृहस्पतिः।
“षाण्मासिके तु संयोगे याजनाध्याप-नादिना। एकत्रासनशय्याभिः प्रायश्चित्तार्द्धमाचरेत्”।
“याजनादिकं लघुगुरुभेदेन द्विविधं भवति तत्र गुरुणा-ज्ञानकृतेन याजनादिना एकैकेन सद्यःपातः तेनै-वाज्ञानकृतेन वारद्वयाभ्यासात्। लघुनि याजनादावज्ञानकृतेसंवत्सरेण पतति तस्मिन्नेव ज्ञानकृते वत्सरार्द्धेनेतिव्यवस्था। तथाहि याजनं योनिसम्बन्धमित्यत्र देवलवचनेपतितेन सहोषित्वा जानन्निति पूर्व्ववचनस्थस्य जानन्नितिपदस्य सम्बन्धात् ज्ञानकृतत्वे गुरुत्वं दर्शितं गुरुयाजनाध्या-पनादिकमाह देबलः।
“आचार्य्याद्व्रतनियमशुश्रूषा-दिभिस्त्रयोविद्योपादानमध्ययनम्। तस्य चाचारान्वयप्रक्र-मसामर्य्य भक्तिशीलशुश्रूषोपनताय शिष्याय प्रदानमध्या-पनं, पशुक्षीराज्यपुरोडाशसोमौषधिचरुप्रभृतिभिः खदिरपलाशाश्वत्थन्यग्रोधोदुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रु-वोदूखलमुषलकुठारखनित्रयूपदारुचर्म्मदर्भग्रावपवित्रभाज-नादिभिर्द्रव्योपकरणैः प्रोत्साहिहोत्रध्वर्य्युब्रह्मादिभिःऋत्विग्भिः काम्यनैमित्तिकाणां पक्षादिपूर्ब्बकाणां यथोक्त-दक्षिणानां यज्ञानां समापनं यजनम् एतेन याजनंव्याख्यातम्”। तथा च ज्योतिष्टोमादियज्ञानां याजनंगुरु, पूर्त्तादिकर्मणा याजनं लघु। कौर्मम्
“याजनं योनिसम्बन्धं तथैवाध्यापनं द्विजः। कृत्वा सद्यःपतेज्जानन् सहभोजनमेव च”। यमः।
“असत्प्रति-ग्रहीतारस्तथैवायाज्ययाजकाः। नक्षत्रैर्जीव्यते यश्चसोऽन्धकारं प्रपद्यते”। बमिष्ठः। श्रद्दधानस्य-भोक्तव्यञ्चौरस्य च विशेषतः। न त्वेव बहुयाज्यस्य यश्चोपनयते बहून्”। बौधायनः।
“बहुप्रतिग्राह्यंवाऽप्रतिगुह्ययाज्य बा याजयित्वाऽप्रतिग्राह्यस्य वा[Page0343-b+ 38] प्रतिगृह्य अनाशनस्य वाऽन्नमशित्वा तरत्समन्दीयं जपेत्”। वशिष्ठः।
“एतेनैव गर्हिताध्यापकयाजकाव्याख्याता” दक्षि-णात्यागाच्च पूताभवन्तीति विज्ञायते”
“एतच्च शूद्रेतरस्यो-पपातकादिगर्हितस्य पञ्चमहायज्ञयाजनादिविषयमितिधर्म्मप्रदीपः” प्रा॰ वि॰। तत्रैव शूद्रपुरोहितयाजकाध्याप-काद्यनुवृत्तौ यमः।
“एतेषामेव सर्व्वेषां प्रत्यापत्तिन्तुमार्गताम्। भैक्षान्नमुपयुञ्जानोद्विजश्चान्द्रायणञ्चरेत्। फलं नागद्रदे तोये प्ल्यवयेदभिभावितम् अर्थोत्सर्गेणयन्त्रान्ते तस्मात् पापात् प्रमुच्यते। अक्षारणलवणंरुक्षां पिबेद्व्रह्मसुवर्च्चलाम्। तस्योपनयनं कृत्वा व्यव-हार्य्यस्तदा भवेत्” इति। फलं लब्धं धनं नागह्रदे गज-मज्जनयोग्यह्रदे अविभावितम् अभुक्तम्। यन्त्रान्ते व्रतान्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयाज्य¦ mfn. (-ज्यः-ज्या-ज्यं) Outcaste, degraded, not competent to offer sa- crifice. E. अ neg. याज्य to be sacrificed; by whom.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयाज्य [ayājya], a.

(A person) for whom one must not perform sacrifices, not competent to offer sacrifices (as a Śūdra &c.).

(Hence), Out-cast; degraded, not admissible to or incapable of religious ceremonies.

Not fit for sacrificial offerings. -Comp. याजनम्, -संयाज्यम् sacrificing for a person for whom one must not perform sacrifices; अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् Ms.3.65; गोवधो$याज्यसंयाज्यपारदार्यात्मविक्रयाः Ms.11.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयाज्य/ अ-याज्य mfn. ( यज्) , a person for whom one must not offer sacrifices , outcast , degraded S3Br. xiv Ka1tyS3r. Mn. etc. , not to be offered in a sacrifice.

"https://sa.wiktionary.org/w/index.php?title=अयाज्य&oldid=488330" इत्यस्माद् प्रतिप्राप्तम्