अलीकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलीकम्, क्ली, (अल + ईकन् ।) अप्रियं । (“तद्यथा स महाराजो नालीकमधिगच्छति” । इति रामायणे ।) मिथ्या । इत्यमरः ॥ (“ज्ञातेऽलीकनि- मीलिते नयनयोः” । इति अमरुशतके ।) स्वर्गः । इति मेदिनी ॥ ललाटं । इति हेमचन्द्रः ॥

अलीकम्, त्रि, (अल + ईकन् ।) मिथ्या । अप्रियं । अल्पं । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=अलीकम्&oldid=113642" इत्यस्माद् प्रतिप्राप्तम्