अव्यक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यक्तः, पुं, (वि + अन्ज + क्त । ततो नञ्समासः ।) विष्णुः । शिवः । कन्दर्पः । इति मेदिनी । मूर्ख इति हेमचन्द्रः । अस्फुटे त्रि ॥)

अव्यक्तम्, क्ली, प्रकृतिः । आत्मा । इति हेमचन्द्रः । महदादि । परमात्मा । इति मेदिनी ॥ (“योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्व्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ” ॥ इति मानवे ॥ गणितादौ अज्ञातराश्यादिः । अदृश्यः । साङ्ख्यमते सर्व्वकारणं रूपादिहीनतया चक्षुराद्यगोचरं प्रधानं महदादि । “महतः परमव्यक्तमव्यक्तात् पुरुषः परः” । इति कठोपनिषद् ॥ वेदान्तमते सूक्ष्मशरीरं स्वापावस्थायां शब्द- प्रवृत्तिनिमित्तैर्जातिगुणक्रियासम्बन्धैर्वर्ज्जितं नि- र्व्विकारं निराकारं ब्रह्म । परमात्मा, मायोपा- धिकं ब्रह्म, सूक्ष्ममतीन्द्रियं लिङ्गग्राह्यं परब्रह्म । यदुक्तम्, -- “अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्” । रूपादिविहीनत्वेन चक्षुराद्यगोचरो योगाभ्या- सावसेयो भावः । “ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति” । इति रघुवंशे ॥ प्रकृतिः । तथा हि, -- “यत् सर्व्वस्य जगतो वीजभूतमव्याकृतमनामरूपमतत्वं सर्व्वकार्य्यकार- णशक्तिसमाहाररूपं अव्यक्ताव्याकृताकाशादिना- मवाच्यं परमात्मन्योतप्रोतभावेन समाश्रितं वट- कणिकायामिव वटवृक्षशक्तिः । सत्त्वादिरूपेण निरूप्यमाणे व्यक्तिरस्य नास्तीत्यव्यक्तम्” । यदुक्तम् । “हेतुमदनित्यमव्यापि सक्रियमनेक- माश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विप- रीतमव्यक्तम्” ॥ ० ॥ सर्व्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणमष्टरूपमखिलस्य जगतः स- म्भवहेतुरव्यक्तं नाम । तदेकं बहूनां क्षेत्रज्ञाना- मधिष्ठानं समुद्र इवोदकानां भावानां” ॥ इति सुश्रुतः ॥ “अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः । सदकारणवन्नित्यं दृष्टं हेतुमदन्यथा ॥ तदेव भावादग्राह्यं नित्यत्वान्न कुतश्चन । भावाज्ज्ञेयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा” ॥ इति ॥ “अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः” । इति च ॥ “अतोऽन्यत् पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियं” ॥ इति च ॥ “अव्यक्तमस्य क्षेत्रस्य ज्ञेत्रज्ञमृषयो विदुः” ॥ इति च चरकः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यक्त पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

3।3।62।1।2

विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ। व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यक्त¦ पु॰ वि + अन्ज--क्त न॰ त॰।

१ विष्णौ,

२ कामे,

३ शिवे,सांख्यमते सर्व्वकारणे,

४ प्रधाने, रूपाद्यहीनतया चक्षुराद्य-गोचरत्वात्तथात्वम्, वेदान्तमते नामरूपाभ्यामव्याकृते

५ अज्ञाने

६ सूक्ष्म शरीरे

७ सुषुप्त्यवस्थायां च शब्दप्रवृत्ति-निमित्तैर्जातिगुणादिभिर्वर्ज्जिते निराकारे

८ ब्रह्मणि न॰।

९ अस्पष्टे वस्तुमात्रे त्रि॰।
“हेतुमदनित्यमव्यापि सक्रि-यमनेकमाश्रितं लिङ्गम्। सावयवं परतन्त्रं व्यक्तं विव-रीतमव्यक्तम्” सा॰ का॰। हेतुमत्त्वादिभिर्व्यक्तधर्म्मैर्विर-हितमव्यक्तम्।
“अव्यक्तं त्रिगुणाल्लिङ्गात्” सा॰ सू॰।
“तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञ विज्ञानात्” सा॰ का॰।
“महत्तत्वं सुखदुःखमोहात्मकद्रव्योपादानं सुखदुःखमो-हात्मकत्वे सति कार्य्यत्वात् तथाभूतघटादिवत्। महदादिकं स्वोपहितत्रिगुणात्मकोपादानं कार्य्यत्वात्घटवत् इत्थमव्यक्तानुमानम् दर्शितम्” सा॰ प्र॰ भा॰।
“बुद्धेरिवाव्यक्तमुदाहरन्ति” रघुः। वेदान्तिभिः नामरूपा-भ्यामव्याकृतमज्ञानमेव मूलकारणतया अव्यक्ततया च स्वीकृतंतत्रैव प्रकृतिघर्म्माणां सर्वेषामन्तर्भावात्
“अव्यक्तादीनिभूतानि व्यक्तमध्यानि भारत!। अव्यक्तनिधनान्येव तत्रका परिदेवनेति” गीतोक्तेरपि तत्रैव तात्पर्य्यम् तद्द्वारैवब्रह्मणः जगज्जन्मादिहेतुत्वम्
“व्यक्तकारणमव्यक्तं नित्यंसदसदात्मकम्” मनूक्तावपि तद्रूपमज्ञानमेवाव्यक्तशब्देनाभि-धीयते तस्य च प्रवाहरूपेणावस्थितत्वात् नित्यत्वम्
“महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न परंकिञ्चित् सा काष्ठा सा परा गतिः” श्रुतौ तु अव्यक्तशब्देनसूक्ष्मशरीरमिति शा॰ सूत्रे भाष्ये च व्यवस्थापितम् यथा
“आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च” सू॰।
“आनुमानिकमपि अनुमाननि-रूपितं प्रधानमेवैकेषां शाखिनां शब्दवदुपलभ्यते। काठकेहि पठ्यते
“महतः परमव्यक्तमव्यक्तात् पुरुषः परः” इतितत्र य एव यन्नामानो यत्क्रमकाश्च महदव्यक्तपुरुषाः स्मृति-प्रसिद्धास्त एवेह प्रत्यभिज्ञायन्ते तत्राव्यक्तमिति स्मृतिप्रसिद्धेःशब्दादिहीनत्वान्न व्यक्तमव्यक्तमिति व्युत्पत्तिसम्मवात् स्मृतिप्रसिद्धं प्रधानमभिधीयते अतस्तस्य शब्दवत्त्वादशब्दत्वमनुप-पन्नं तदेव जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इतिचेन्नैतदेवम् नह्येतत् काठकवाक्यं स्मृतिप्रसिद्धयोर्महदव्यक्त-योरस्तित्वपरम् नह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणंत्रिगुणं प्रधानं तादृशम्प्रत्यभिज्ञायते। शब्दमात्रं ह्यत्राव्य-क्तमिति प्तत्यभिज्ञायते स च शब्दो न व्यक्तमव्यक्तमिति[Page0467-a+ 38] योगिकत्वादन्यस्मिन्नपि सूक्ष्मे दुर्लक्ष्ये प्रयुज्यते न चायंकस्मिं श्चिद्रूढः। या तु प्रधानवादिनां रूढिः सा तेषामेवपारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते। नच क्रमसामान्यात् समानार्थप्रतिपत्तिर्भवति तद्रूपप्रत्यभि-ज्ञाने। न हाश्वस्थामेगां पश्यन्नश्वोऽयमित्यमूढोऽध्यवस्यति। प्रकरणनिरूपणाच्चात्र न परकल्पितं प्रधानं प्रतीयते शरीररूपकविन्यस्तगृहीतेः। शरीरं ह्यत्र रथरूपकविन्यस्तम-व्यक्तशब्देन परिगृह्यते कुतः? प्रकरणात् परिशेषतश्च। तथाहि अनन्तरातीतो ग्रन्थः आत्मशरीरादीनां रथि-रथादिरूपककॢप्तिं दर्शयति।
“आत्मानं रथिनं विद्धिशरीरं रथमेव तु। बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च। इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्। आत्मे-न्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण” इति शेषेच
“इन्द्रि-यादिभिरसंयतैः संसारमधिगच्छति। संयतैस्त्वध्वनः पारन्त-द्विष्णोः परमं पदममाप्नोतीति” दर्शयित्वाकिं तदध्वनः पार-म्परम्पदमित्यस्यामाकाङ्क्षायान्तेभ्यएव प्रकृतेभ्य इन्द्रियादिभ्यःपरत्वेन परमात्मानमध्वनः पारं विष्णोः परम्पदं दर्शयति।
“इन्द्रियेभ्यः पराह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तुपरा बुद्धिर्बुद्धेरात्मा महान् परः। महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किञ्चित् सा काष्ठा सा परा-गतिरिति”। तत्र यएवेन्द्रियादयः पूर्व्वस्यां रूपक-कल्पनायामश्वादिभावेन प्रकृताः त एवेह परिगृह्यन्तेप्रकृतप्रक्रियाऽपरिहाराय। तत्रेन्द्रियमनोबुद्धयस्तावत्पूर्व्वत्रेह च समानशब्दा एव अर्थास्तु ये शब्दादयो विषयाइन्द्रियहयगोचरत्वेन निर्द्दिष्टास्तेषाञ्चेन्द्रियेभ्यः परत्वम्इन्द्रियाणाञ्च ग्रहत्वं विषयाणामतिग्रहत्वमिति श्रुति-प्रसिद्धेः। विषयेभ्यश्च मनसः परत्वं मनोमूलत्वाद्विषये-न्द्रियव्यवहारस्य। मनसस्तु परा बुद्धिः, बुद्धिर्ह्यारुह्यभोग्यजातं भोक्तारमुपसर्पति। बुद्धेरात्मा महान् परः यःसः आत्मानं विद्धीति रथित्वेनोपक्षिप्तः कुतः? आत्म-शब्दात्। भोक्तुश्च भोगोपकरणात् परत्वोपपत्तेः। महत्त्वञ्चास्य स्वामित्वादुपपन्नम्”।
“तदेवं पूर्ब्बावरालोच-नायां नास्त्यत्र परकल्पितस्य प्रधानस्यावकाशः” भा॰।
“सूक्ष्मन्तु तदर्हत्वात्” सू॰
“उक्तमेततप्रकरणपरिशे-षाभ्यां शरीरमव्यक्तशब्दं न प्रघानमिति। इदमिदा-नीमाशङ्क्यते कथमव्यक्तशब्दार्हत्वं शरीरस्य, यावतास्थूलत्वात् स्पष्टतरमिदं शरीरं व्यक्तशब्दार्हमस्पष्टवचन-स्त्वव्यक्तशब्द इति अतौत्तरमुच्यते
“सूक्ष्मन्त्विह” कारणा-[Page0467-b+ 38] त्मना शरीरं विवक्ष्यते सूक्ष्मस्याव्यक्तशब्दार्हत्वात्। यद्यपि स्थूलमिदं शरीरं न स्वयमव्यक्तशब्दमर्हति तथापितस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्दमर्हति प्रकृतिशब्दश्चविकारे दृष्टः यथा
“गोभिःश्रीणीत मत्सरसिति”। तथाचश्रुतिः
“तद्धेदं तर्ह्यव्याकृतमासीदिति” इदमेव व्याकृतं नाम-रूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपंवीजशक्त्यवस्थमव्यक्तशब्दयोग्यन्दर्शयति” भा॰। परम-ब्रह्मपरत्वे
“ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः”
“क्लेशोऽधिकतरस्तेवामव्यक्तासक्तचेतसाम्” इति च गीता।
“योऽसावतीन्द्रियग्राह्यः सूक्ष्योऽव्यक्तः सनातनः” मनुः विष्णोतु
“अनेकमूर्त्तिरव्यक्तः शतमूर्त्तिः सनातनः” इति विष्णुस॰। अप्रकाशितार्थे
“तमशेषमस्या-व्यक्तव्यवहारसूचितमर्थं मगसा जग्राह” काद॰
“ततः स्वयम्भूर्भगवानव्यक्तं व्यञ्जयन्निदम्” मनुःसंख्याविशेषेणानवगते गणितशास्त्रोक्ते

१० राशिभेदे तच्चवीजनाम्ना व्यवह्रियते
“उत्पादकं यत् प्रवदन्ति बुद्धेरधि-ष्ठितं सत् पुरुषेण सांख्याः। व्यक्तस्य कृत्स्नस्य तदेकवीजमव्यक्तमीशं गणितञ्च वन्दे। पूर्ब्धंप्रोक्तं व्यक्तमव्यक्तवीजप्रायप्रश्नानो विनाऽव्यक्तयुक्त्या” इत्युपक्रम्य
“यावत्तावत्-कालकोनीलकोऽन्यः वर्ण्णः पीतो लोहितश्चैतदाद्याः। अव्यक्तानां कल्पिता मानसंज्ञास्तत्संख्यानं कर्त्तुमा-चार्य्यवर्य्यैः” वीजग॰ तच्च चतुर्विधं यथोक्तम्तत्रैव
“यावत्तात्कल्प्यमव्यक्तराशेर्मानं तस्मिन् कुर्व्वतोद्दिष्टमेव। तुल्यौ पक्षौ साधनीयौ प्रयत्नात्त्यक्त्वाक्षिप्त्वा वापि सङ्गुण्य भक्त्वा। एकाऽव्यक्तं शोधयेदन्यप-क्षाद्रूपाण्यन्यस्येतरस्माच्च पक्षात्। शेषाव्यक्तेनोद्धरेद्रूपशेषंव्यक्तं मानं जायतेऽव्यक्तराशेः। अव्यक्तानां द्व्यादि-कानामपीह यावत्तावद्व्यादिनिघ्नं हृतं वा। युक्तोनं वाकल्पयेदात्मबुद्ध्या मानं क्कापि व्यक्तसेवं विदित्वा। तत्रप्रथममेकवर्ण्णसमीकरणं द्वितीयमनेकवर्ण्णसमीकरणं वीजम्। यत्र वर्ण्णस्य द्वयोर्वा बहूनां वा वर्ग्गादिगतानां समो-करणं तन्मध्यमाहरणम्। यत्र भावितस्य तद्धावितमितिवीजचतुष्टयं वदन्त्याचार्याः। तत्र प्रथमं तावदुच्यते पृच्छ-केन पृष्टे सत्युदाहरणे योऽव्यक्तराशिस्तस्य मानं यावत्तावदेकं द्व्यादिं वा प्रकल्प्य तस्मिन्नव्यक्तराशौ उद्देशका-लापवत्सर्व्वङ्गुणनभजनत्रैराशिकपञ्चराशिकश्रेढीफलक्षेत्रव्य-वहारादिगणनेन कार्य्यम्। तथा कुर्व्वता द्वौ पक्षौ प्रयत्ने-न समौ कार्य्यौ। यद्यालापे समौ पक्षौ न स्तः। [Page0468-a+ 38] तदैकतरे न्यूने पक्षे किञ्चित्प्रक्षिप्य ततः अघिकपक्षात्ता-वदेव विशोध्य वा न्यूनं पक्षं केनचित्सङ्गुण्य वाधिकं पक्षंतावतैव भक्त्वा समौ कार्य्यौ। ततस्तयोरेकस्य पक्षस्याव्यक्तमन्यपक्षस्याव्यक्ताच्छोद्ध्यम् अव्यक्तवर्गादिकमपि। अन्यपक्षरू-पाणि इतरपक्षरूपेभ्यः शोध्यानि। यदि करण्यः सन्ति तदाताअपि उक्तप्रकारेण शोध्याः। ततोऽव्यक्तराशिशेषेण रूपशेषे भक्ते यल्लभ्यते तदेकस्याव्यक्तस्य मान व्यक्त जायते। तेन कल्पितोऽव्यक्तराशिरुत्याप्यः॥ यत्रोदाहरणे द्व्यादयोऽव्यक्तराशयोभवन्ति तदा तस्यैकं यावत्तावत्प्रकल्प्य अन्ये-षां द्व्यादिभिरिष्टैर्गुणितं भक्तं वा इष्टैः रूपैरूनं युतं वायावत्तावदेव प्रकल्प्यम्॥ अथ वा एकस्य यावत्तावदन्येषांव्यक्तान्येव मानानि प्रकल्प्यानि। सर्वं विदित्वेति यथाक्रिया निर्वहति तथा बुद्धिमता ज्ञात्वा शेषाणामव्यक्तानिव्यक्तानि वा कल्प्यानीत्यर्थः। उदाहरणम्। एकस्य रूपं त्रिशतीषडश्वा अश्वा दशान्यस्य तु तुल्यमूल्याः। ऋणं तथारूपशतं च तस्य तौ तुल्यवित्तौ च किमश्वमूल्यम्। यदाद्यवित्तस्य दलं द्वियुक्तं तत्तुल्यवित्तोयदि वा द्वितीयः। आद्योधनेन त्रिगुणोऽन्यतोवा पृथक् पृथङ्मे वद वाजि-मौल्यम्। अत्राश्वमौल्यमज्ञातं तस्य मानं यावत्ता-वदेकं प्रकल्पितं या

१ तत्र त्रैराशिकं यद्य्येकस्य यावत्तावन्मूल्यं तदा षण्णां किमिति न्यासः।

१ । या

१ ।

६ । फलभिच्छागुणं प्रमाणभक्तं लब्धं षण्णामश्वानाम्मूल्यंया

६ अत्र रूपशतत्रये प्रक्षिप्ते जातमाद्यस्य धनं या

६ रू

३०

० एवं दशानां मौल्यः या

१० अत्र रूपशते चर्ण-गते प्रक्षिप्ते जातं द्वितीयस्य धनं या

१० रू

१०

० एतौ समधनाविति पक्षौ स्वत एव समौ जातौ समशोध-नार्थं न्यासः या

६ रू

३०

० या

१० रू

१०

० अथ एकाव्यक्तं शोधयेदन्यपक्षादिति आद्यपक्षाव्यक्तेऽ-न्यपक्षाव्यक्ताच्छेधिते शेषं या

४ । द्वितीयपक्षरूपेषु आद्य-पक्षरूपेभ्यः शोधितेषु शेषं रू

४०

० अव्यक्तराशिशेषेणया

४ रूपशेषे रू

४०

० उद्धृते लब्धमेकस्य यावत्तावतो-मानं व्यक्तं

१०

० यद्येकाश्वस्वेदं मौल्यं तदा षणांकिमिति त्रैराशिकेन लब्धे षण्णां मौल्ये

६०

० रूपकशतत्रय-युते

९०

० जातमाद्यस्य धनम्। एवं द्वितीयस्यापि

९०

० ” वीजग॰एवमनेकवर्गादीनामप्युदाहरणादीनि तत्रैव दृश्यानि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Indistinct, unapparent, invisible, impercepti- ble.
2. (In algebra,) Unknown as quantity or number. m. (-क्तः)
1. VISHNU.
2. SIVA.
3. KANDARPA or CUPID.
4. A fool. n. (-क्तं)
1. The Supreme Being or universal spirit.
2. Any invisible principle according to the Sa4nkhya philosophy.
3. The soul.
4. Nature, temperament. E. अ neg. व्यक्त evident, distinct.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यक्त [avyakta], a.

Indistinct, not manifest or apparent, inarticulate; ˚वर्ण indistinct accents; Ś.7.17; फलम- व्यक्तमब्रवीत्.

Invisible, imperceptible.

Undetermined; अव्यक्तो$यमचिन्त्यो$यम् Bg.2.25;8.2.

Undeveloped, uncreated.

(In alg.) Unknown (as a quantity or number).

क्तः N. of Viṣṇu.

N. of Śiva.

Cupid.

Primary matter which has not yet entered into real existence.

A fool.

N. of an Upaniṣad. -क्तम् (In Vedānta Phil.)

The Supreme Being or Universal Spirit, Brahman.

Spiritual ignorance.

The subtle body.

The state of sleep (सुषुप्त्यवस्था).

(In Sāṅ. Phil.) The primary germ of nature (सर्वकारण), the primordial element or productive principle from which all the phenomena of the material world are developed; बुद्धेरिवाव्यक्तमुदाहरन्ति R.13.6; महतः परमव्यक्तमव्यक्तात्पुरुषः परः Kaṭh., Sāṅ. K.2.1,14.16.58.

The Soul.

Nature. अव्यक्तः शंकरे विष्णौ क्लीबे तु महदादिके । परमात्म- न्यात्मनि च त्रिषु स्यादस्फुटे....Nm. -क्तम् ind. Imperceptibly, indistinctly, inarticulately. -Comp. -अनुकरणम् imitating inarticulate or unmeaning sounds; P.V.4.57; अव्यक्तानुकरणस्यात इतौ VI.1.98. -आदि a. whose beginning is inscrutable; अव्यक्तादीनि भूतानि Bg.2.28.

क्रिया an algebraic calculation.

any act of an indistinct character. -पद a. inarticulate. -मूर्ति a. having an incomprehensible form; मया... अव्यक्तमूर्तिना Bg.9.4. -मूलप्रभवः the tree of mundane existence (in Sāṅ. Phil.). -राग a. dark-red, ruddy. (-गः) the colour of the dawn; अव्यक्तरागस्त्वरुणः Ak. -राशिः an unknown number or quantity (in algebra). -लक्षणः, -व्यक्तः an epithet of Śiva (whose qualities are not perceptible). -लिङ्ग a. whose signs are invisible (as a disease). (-ङ्गः) an ascetic (संन्यासी). (-ङ्गम्) the great principle (महत्) (in Sāṅ. Phil.). -वर्त्मन्, -मार्ग a. whose ways are mysterious or inscrutable.-वाच् a. speaking indistinctly. -साम्यम् an equation of unknown quantities.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यक्त/ अ-व्यक्त mfn. undeveloped , not manifest , unapparent , indistinct , invisible , imperceptible Up. Pa1n2. Mn. etc.

अव्यक्त/ अ-व्यक्त mfn. (in alg. ) unknown as quantity or number

अव्यक्त/ अ-व्यक्त mfn. speaking indistinctly

अव्यक्त/ अ-व्यक्त m. (= परमा-त्मन्)the universal Spirit Mn. ix , 50

अव्यक्त/ अ-व्यक्त m. N. of विष्णुL.

अव्यक्त/ अ-व्यक्त m. of शिवL.

अव्यक्त/ अ-व्यक्त m. of कामL.

अव्यक्त/ अ-व्यक्त m. a fool L.

अव्यक्त/ अ-व्यक्त m. N. of an उपनिषद्

अव्यक्त/ अ-व्यक्त n. (in सांख्यphil. ) " the unevolved (Evolver of all things) " , the primary germ of nature , primordial element or productive principle whence all the phenomena of the material world are developed , Kat2hUp. Sa1n3khyak. etc.

"https://sa.wiktionary.org/w/index.php?title=अव्यक्त&oldid=489417" इत्यस्माद् प्रतिप्राप्तम्