आरभटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरभटी¦ स्त्री॰ आरभ्यतेऽनया आ + रभ--अटि ङीप्। नाट्येअर्थविशेषयुक्ते सा॰ दर्पणोक्ते रचनाभेदे सा च भेदो-दाहरणसहिता सा॰ द॰ उक्ता यथा
“मायेन्द्रजालसंग्रामक्रोधोद्भान्तादिचेष्टितैः। संयुक्ता पण-बन्धाद्यैरुद्भटारभटी मता। वस्तूत्थापनसऽफेटौ संक्षिप्तिरवपातनम्। इति भेदास्तु चत्वार आरभट्याः प्रकी-र्त्तिताः। मायाद्युत्थापितं वस्तु वस्तूत्थापनमुच्यते। यथो-दात्तराघवे।
“जीयन्ते जयिनोनिशान्ततिमिरव्रातैर्व्वि-यद्व्यापिभिर्भास्वन्तः सकला रवेरपि कराः कस्मादकस्मा-दमी। एते चोग्रकबन्धकण्ठरुधिरैराध्मायमानोदरामुञ्च-न्त्याननकन्दरानलमुचस्तीव्रान् रवान् फेरवः” इत्यादि। संफेटस्तु समाधाय युद्धसत्वरयोर्द्वयोः। यथा मालस्त्यांमाधवाघोरघण्टयोः। संक्षिप्ता वस्तुरचना शिल्पैरित-रथाऽपि वा। संक्षिप्तिः स्यात् निवृत्तौ च नेतुर्नेत्रन्तर-ग्रहः। उदयनचरिते किलिञ्जहस्तिप्रयोगः। द्वितीयंयथा। बालिनिवृत्त्या सुग्रीवः यथा वा परशुरामयौ द्धत्थ-निवृत्त्या शान्तत्वापादानं
“पुण्या ब्राह्मणजातिरन्वयगुणःशास्त्रं चरित्रं च मे येनैकेन हृतान्यमूनि हरता चैतन्यसात्रामपि। एकः सन्नपि भूरिदोषगहनं सोऽयं त्वया[Page0797-a+ 38] प्रेयसा वत्स! ब्राह्मणवत्सलेन शमितः क्षेमाय दर्पोमम”। प्रवेशश्रासनिष्क्रान्तिहर्षविप्लवसम्भवम्। अवपातनमित्युक्तम्। यथा कृत्यरावणे षष्ठेऽङ्के। प्रविश्य खङ्गहस्तः पुरुष इत्यतःप्रभृति निष्क्रमणपर्य्यन्तम्। सर॰ क॰ उक्ते शब्दालङ्का-ररूपे

२ वृत्तिभेदे च सा च

३८

८ पृष्ठे दृश्या। आरःसामर्थ्येन गामी भटः।

३ शूरे वीरे पु॰ हेमचन्द्रः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरभटी/ आ-रभटी f. boldness , confidence , heroism Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=आरभटी&oldid=491180" इत्यस्माद् प्रतिप्राप्तम्