उपासन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासनम्, क्ली, (उपास्यन्ते क्षिप्यन्ते शरा अत्र । उप + असु क्षेपे + अधिकरणे ल्युट् । शुश्रूषादिपक्षे आस भावे + ल्युट् ।) शराभ्यासः । (यथा रामायणे । २ । ६७ । २१ । “श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने” ।) शुश्रूषा । इत्यमरः ॥ (“नित्यनैमित्तिकप्रायश्चित्तो- पासनेन” । “उपासनानि शाण्डिल्यविद्यादीनि” । इति च वेदान्तसारे ।) विहिंसनम् । इति विश्वः ॥ आसनम् । इति मेदिनी ॥ (“मङ्गल्योपासनं शस्तं वृद्धिदं व्यसनापहम्” । इति चक्रपाणिकृतद्रव्यगुणे गुणानां क्रियाभि- धानादिवर्गे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासन नपुं।

शरक्षेपाभ्यासः

समानार्थक:शराभ्यास,उपासन

2।8।86।1।5

लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम्. पृषत्कबाणविशिखा अजिह्मगखगाशुगाः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासन¦ न॰ उपास्यन्ते मूयःक्षिप्यन्ते शरा अत्र उप + अस-विक्षेपे आधारे ल्यु।

१ शरक्षेपशिक्षार्थे शराभ्यासे अम-रः। उप + आस--मावे ल्युट्।

२ चिन्तने मनने

३ सेवनेच
“नित्यनैमित्तिकप्रायश्चित्तोपासनेन”
“उपसनानि शा-ण्डिल्यविद्यादीनि”
“उपासनस्य चित्तैकाग्र्यं परं प्रयोज-जनम् अचिरादिमार्गेण ब्रह्मलोकप्राप्तिरवान्तरफलम्” [Page1357-b+ 38] इति येदान्तसा॰।
“आचार्य्योपासनं शौचं स्थै-र्य्यमात्मविनिग्रहः” इत्युपक्रम्य
“एतज्ज्ञानभिति प्रोक्तमज्ञानंयत्ततोन्यऽथा” गीतायाम् आचार्य्योपासनस्य ज्ञानसाधन-त्वेन ज्ञानत्वमुक्तम् आचार्य्योपदेशं विना हि ज्ञाना-नुत्पत्तिः
“आचार्य्योपासनं वेदशास्त्रार्थेषु विवेकिता” इत्युपक्रम्य
“एतैरुपायैः संशुद्धः सत्वयुक्तोऽमृती भवेत्” याज्ञ॰ तद्धेतुत्वमुक्तम्।
“आचार्य्यमग्निकार्य्यञ्च सन्ध्यो-पासनमेवच” मनुः। ब्रह्मण उपासनानि च वेदे नाना-विधान्युक्तानि तत्र प्रतीकोपासनेतरेषामवान्तरफलमर्चि-रादिमार्गेण ब्रह्मलोकप्राप्तिः। प्राप्तब्रह्मलोकस्य तत्र श्र-वणमननादिसम्भवेन क्रममुक्तिः
“न स पुनरावर्त्तते” इतिश्रुतेः तत्र प्राप्तविवेकस्यैवानावृत्तिर्नान्तरापतने
“तत्रप्राप्तविवेकस्यानावृत्तिश्रुतिः” सां॰ सू॰ उक्तेः। अतएव
“इमंमानवं नावर्त्तन्ते” इति श्रुतौ इममिति इदमा विशे-षणात् मानवान्तरे आवृत्तिरिति सूचितम्। कार्य्यब्रह्मणो-ऽघिकारसमाप्तिपर्य्यन्तं तत्रस्थायिनस्तु तेन सहैव मोक्षः।
“कार्य्यात्यये तदध्यक्षेण सहातः परमभिधा{??}त्” शा॰ सू॰उक्तेः ब्रह्मणासह भे सर्वे सन्प्राप्ते प्रतिसञ्चरे। पर-स्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” श्रुतेः। प्रतीको-पासनायां तु नार्चिरादिना ब्रह्मलोकप्ताप्त्यादि फलम्किन्तु तत्तच्छास्त्रेषूक्तं फलं तत्र तावत् प्रतीकोपासनंतत्फलञ्च शा॰ सू॰ भाष्ययोः दर्शितं यथा
“नप्रतीकेन हि सः”
“मनोब्रह्मेत्युपासीतेत्यध्यात्मम्”
“अथा-धिदैवतमाकाशो ब्रह्मेति” तथा
“आदित्यो ब्रह्मेत्यादेशः,
“स यो नाम ब्रह्मेत्युपास्ते” इत्येबमादिषु प्रतीकोपा-सनेषु संशयः किमेष्वप्यात्मग्रहः कर्त्तव्यो न वेति। किन्तावत् प्राप्तं तेष्वप्यात्मग्रह एव युक्तः कस्मात्?ब्रह्मणः श्रुतिष्यात्मत्वेन प्रसिद्धत्वात् प्रतीकानामपिब्रह्मविकारत्वात् ब्रह्मत्वे सत्यात्मत्वोपपत्तेरित्मेवं प्राप्तेब्रूमः। न प्रतीकेष्वात्ममतिं बध्नीयात् न हि स उपा-सकः प्रतीकानि तान्यात्मत्वेनाकलयेत्। यत्पुनर्ब्र-ह्मविकारत्वात् प्रतीकानां ब्रह्मत्वं ततश्चात्मत्वमिति, तदसत्प्रतीकाभावप्रसङ्गात् विकारस्वरूपोपमर्देन हि नामादि-जातस्य ब्रह्मत्वमेवाश्रितं भवति खरूपोपमर्देच नामा-दीनां कुतः प्रतीकत्वमात्मग्रहो वा। न च ब्रह्मणआत्मत्वाद्ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या कर्तृत्वाद्य-निराकरणात् कर्तृत्वादिसर्व्वसंसारधर्म्मनिराकरणेनंहि ब्रह्मण आत्मत्वोपदेशनिराकरणेन चोपासनविधानं[Page1358-a+ 38] ततश्चोपासकस्य प्रतीकैः समत्वादात्मग्रही नोपपद्यते। न हि रुचकस्वस्तिकयोरितरेतरात्मत्वमस्ति किन्तु सुवर्ण्णा-त्मत्वमेव। ब्रह्मात्मत्वेनैकत्वे प्रतीकाभावप्रसङ्गमवोचामः। अतो न प्रतीकेष्वात्मत्वदृष्टिः क्रियते” भा॰।
“ब्रह्म-दृष्टिरुत्कर्षात्” भा॰।
“तेष्वेवोदाहरणेष्वन्यः संशयःकिमादित्यादिदृष्टयोब्रह्मण्यध्यसितव्याः? किं वा ब्रह्म-दृष्टिरादित्यादिष्विति?। कुतः संशयः? सामानाधिकण्येकारणानवधारणात् अत्र हि ब्रह्मशब्दस्यादित्यादिशब्दैःसामानाधिकरण्यमुपलभ्यते
“आदित्यो ब्रह्म” प्राणोब्रह्म”
“विद्युद्ब्रह्म” इत्यादिसमानबिभक्तिनिर्देशात्। नचात्राञ्जसं समानाधिकरण्यमवकल्पते अर्थान्तरवचनत्वाद्-ब्रह्मादित्यादिशब्दानां न हि भवति गौरश्व इतिसामानाधिकरण्यम्। ननु प्रकृतिविकारभावाद्ब्रह्मा-दित्यादीनां मृच्छरावादिवत् सामानाधिकरण्यं स्यात्नेत्युच्यते विकारप्रविलयोह्येवं प्रकृतिसामानाधिकण्यात्स्यात् ततश्च प्रतीकाभावप्रसङ्गमवोचाम। परमात्मवाक्य-ञ्चेदन्तदानीं स्यात् ततश्चोपासनाधिकारोबाध्येत परिमि-तविकारोपादानञ्च व्यर्थम। तस्माद्ब्रह्मणः
“अग्निर्वैश्वा-नरः” इत्यादिवदन्यतरत्रान्यतरदृष्ट्यध्यासे सति किंदृ-ष्टिरध्यस्यतामिति संशयः। तत्रानियमः नियम-कारिणः शास्त्रस्याभावादिव्येवं प्राप्तम्। अथवा आ-दित्यादिदृष्टय एव ब्रह्मणि कर्त्तव्या इत्येवं प्राप्तम् एवंह्यादित्यादिदृष्टिभिर्ब्रह्मोपसनञ्च फलवदिति शास्त्रम-र्य्यादा। तस्मान्न ब्रह्मदृष्टिरादित्यादिष्वित्येवं प्राप्ते ब्रूमः। ब्रह्मदृष्टिरेवादित्यादिषु स्यादिति। कस्मात्? उत्कर्षात्{??}सात्। तथा च लौकिकीन्यायोऽनुमतो भवति। उत्-कृष्टदृष्टिर्हि निकृष्टेऽध्यसितव्येति लौकिकोन्यायः यथाराजदृष्टिः क्षत्तरि, सचानुगन्तव्यः विपर्य्यये प्रत्यवायप्रस-ङ्गात्। न हि क्षत्तृदृष्टिपरिगृहीतोराजा निकर्षं नी-यमानः श्रेयसे स्यात्। ननु शास्त्रप्रामाण्यादनाशङ्क-नीयोऽत्र प्रत्यवायप्रसङ्गः न च लौकिकेन न्यायेन शा-स्त्रीया दृष्टिर्नियन्तुं युक्तेति। अत्रोच्यते निर्द्धारिते शा-स्त्रार्थे एतदेवं स्यात् सन्दिग्धे तु तस्मिंस्तन्निर्ण्णयंप्रति लौकिकोऽपि न्याय आश्रीयमाणो न विरुध्यते। तेन चोत्कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्य्यमाणे निकृष्ट-दृष्टिमध्यस्य प्रत्यवेयादिति श्लिष्यते। प्राथम्या-च्चादित्यादिशब्दानां मुख्यार्थत्वमविरोधाद्ग्रहीतव्यम्। [Page1358-b+ 38] तैः स्वार्थवृत्तिभिरवरुद्धायां बुद्धौ पश्चादवतरतो व्रह्म-शब्दस्य मुख्यवृत्त्या सामानाधिकरण्यासम्भवाद्ब्रह्मदृष्टि-विधानार्थतैवावतिष्ठते। इतिपरत्वादपि ब्रह्मशब्दस्यैवएषोऽर्थोन्याय्यः। तथा हि ब्रह्मेत्यादेशः ब्रह्मेत्युपासीत,ब्रह्मेत्युपास्त इति च सर्व्वत्रेतिपरं ब्रह्मशब्दमुच्चारयतिशुद्धांस्त्वादित्यादिशब्दान्। ततश्च यथा शुक्तिकां रजतमितिप्रत्येतीत्यत्र शुक्तिवचनएव शुक्तिकाशब्दः रजतशब्दस्तुरजतप्रतीतिलक्षणार्थः प्रतीत्यैव हि केवलं रजतमितिन तु तत्र रजतमस्ति, एवमत्राप्यादित्यादीन् ब्रह्मेति प्र-तीयादिति गम्यते। वाक्यशेषोऽपि च द्वितीयानिर्देशे-नादित्यादीनेवोपास्तिक्रियया व्याप्यमानान् दर्शयति
“सय एतदेवंविद्वानादित्यं ब्रह्मेत्युपास्ते”
“यीवाचं व्रह्मेत्यु-पास्ते
“यः सङ्कल्पं ब्रह्मेत्युपास्त” इति। यत्तूक्तं ब्रह्मो-पासनमेवात्रादरणीयं फलवत्त्वायेति तदयुक्तं उक्तेनन्यायेनादित्यादीनामेवोपास्यत्वस्यावगमात्। फलन्त्वतिथ्या-द्युपासन इवादित्याद्युपासनेऽपि ब्रह्मैव दास्यति सर्वाध्यक्षत्वात्। वर्ण्णितञ्चैतत्
“फलमत उपपत्तेरित्यत्र”। ईदृश-ञ्चात्र ब्रह्मण उपास्यत्वं यत्प्रतीकेषु तद्दृष्ट्यध्यारोपणंप्रतिमादिष्विव विष्ण्वादीनाम्” भा॰। एवं प्रतीकोपासनंनिरूप्य तत्फलमुक्तम् तत्रैब

४ अ॰

३ पादे
“अप्रतीकालम्बनान्नयतीति वादरायण उभयथाऽदोषा-त्तत्क्रतुश्च” सू॰।
“स्थितमेतत् कार्य्यविषया गतिर्न परविष-येति। इदमिदानीं सन्दिह्यते किं सर्व्वान् विकारालम्ब-नानविशेषेणैवामानवः पुरुषः प्रापयति ब्रह्मलोकम्? उत-कांश्चिदेवेति?। किं तावत् प्राप्त सर्वेषामेवैषां विदुषाम-न्यत्र परस्माद्ब्रह्मणोगतिःस्यात्। तथा हि नि-यमः सर्व्वस्वामोत्यत्राविशेषणैवैषा विद्यान्तरेष्ववतारितेत्येवप्राप्ते प्रत्याह। अप्रतीकालम्बनानिति। प्रतीकालम्ब-नान् वर्जयित्वा सर्व्वानन्यान् विकारालम्बनान्नयति ब्र-ह्मलोकमिति बादरायणाचार्य्योमन्यते। नह्येवमुभयथा-भावाभ्युपगमे कश्चिद्दाषोऽस्ति। अनियमन्यायस्य प्रती-कव्यातरिक्तेष्वप्युपासनेषूपपत्तेः। तत्क्रतुश्चास्योभयथाभावस्य समर्थकोहेतुर्द्रष्टव्यः। योहि ब्रह्मक्रतुः स ब्राह्मणै-श्वर्य्यमाणोदेदिति श्लिष्टतरं
“यथा यथोपासवे तदेव भव-तीति” श्रुतेः। न तु प्रतीकेषु ब्रह्मक्रतुत्वमस्ति प्रतीकप्रधानत्वादुपासनस्य। ननु अव्रह्मक्रतुमानपि ब्रह्म गच्छ-तीति श्रूयते यथा पञ्चाग्निविद्यायां सएनान् ब्रह्म गमय-तीति”। भवत यत्रैवमाहृत्य वाद उपलभ्यते, तदभावे-[Page1359-a+ 38] त्वौत्सर्गिकेण तत्क्रतून्यायेन ब्रह्मक्रतूनामेव तत्प्राप्तिर्नेनरेषामिति मन्यते” भा॰।
“विशेषञ्च दर्शयति” सू॰।
“नामादिषु च प्रतीकोपासनादिषु पूर्व्वस्मात् पूर्ब्बन्मात्फलविशेषमुत्तरस्मिन्नुत्तरस्मिन्नुपासने दर्शयति
“यावन्ना-म्नोगतं तत्रास्य यथाकामवारो भवति”
“वाग्वाव ना-म्नोभूयसी”
“यावद्वाचोगतं तत्रास्ययथाकामचारो भवति
“मनोवाव वाचोभूयः” इत्यादिना। स चायं फलविशेषःप्रतीकतन्त्रचादुपासनानामुपपद्यते, ब्रह्मतन्त्रत्वे तु व्रह्म-णोऽविशिष्टत्वात्कथं फलविशेषःस्यात्?। तस्मान्न प्रती-कालम्बनानामितरैस्तुल्यफलत्वमिति” भा॰। ( उपासनञ्च मानसव्यापारो यद्यपि देहव्यापारानपेक्षस्तथापि आसीनस्यैव तद्भवति नान्यस्य यथाह शा॰ सू॰ भाष्ययोः”
“आसीनः सम्भवात्” सू॰।
“कर्माङ्गसम्बन्धिषु कर्मतन्त्रत्वादा-हृनादिचिन्तनेऽपि सम्यग्दर्शने वस्तुतन्त्रत्वात् ज्ञानस्य इत-रेषुतूपासनेपु किमनियमेन तिष्ठन्नासीनः शयानो वा प्रवर्त्तेतेत्यनियमे न आसीन एवेति। तत्र मानसत्वादुपासनस्यानि-यमः शरीरस्थितेरित्येवं प्राप्ते ब्रवीति आसीन एवोपासी-तेति कुतः? सम्भवात्। उपासनं नाम समानप्रत्ययप्रवाह-करणं न च तद्गच्छतो धावतो वा सम्भवति गत्यादीनां चि-त्तविक्षेपकरत्वात्। तिष्ठतोऽपि देहधारणे व्यापृतं मनोम सूक्ष्मवस्तुनिरीक्षणक्षमम्भवति। शयानश्चाप्यकस्मादेवनिद्रयाऽभिभूयते। आसीनस्य त्वेवंजातीयको भूयान्दोषःसुपरिहर इति सम्भवति तस्योपासनम्” भा॰।
“ध्यानाच्च” सू॰
“अपि च ध्यायत्यर्थ एषः यत्समानप्रत्ययप्रवाहकरणं, ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितदृ-ष्टिष्वेकविषयाक्षिप्तचित्तेषूपचर्यमाणो दृश्यते ध्यायति वकोध्यायति प्रोषितबन्धुरिति। आसीनस्यानायासो भवति। तस्मादप्यासोनकर्म उपासनम्” भा॰।
“अचलत्वापेक्ष्य” सू॰।
“अपि च ध्यायतीव पृथिवीत्यत्र पृथिव्यादिषुचलत्वमपेक्ष्यध्यायतिवादो भवति तच्च लिङ्गमुपासनस्यासीनकर्मत्वे” भा॰।
“स्मरन्ति च” सू॰
“स्मरन्त्यपि च शिष्टा उपा-सनाङ्गत्वेनासनम्”
“शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमा-त्मनः” इत्यादिना अतएव च पद्मकादीनामासनविशेषा-णामुपदेशोयोगशास्त्रे” भा॰। उपासनञ्चामरणात् भूयः क-र्त्तव्यमित्यपि तत्रैवोक्तम्। (
“आ प्रायणात् तत्रापि हि दृष्टम्” सू॰।
“आवृत्तिः सर्वो-पासनेष्वादर्त्तव्येति स्थितमाद्येऽधिकरणे। तत्र यानि तावत्सम्यग्दर्शनार्घान्युपासनानि तान्यवघातादिवत् कार्यपर्य-[Page1359-b+ 38] वसानानीति ज्ञातमेवैषामावृत्तिपरिमाणंन हि सम्यग्दर्शनेकार्ये निष्पन्ने यत्नान्तरं किञ्चिच्छासितु शक्यम् अनि-योज्यब्रह्मात्मत्वप्रतोतेः शास्त्रस्य विषयत्वात्। यानिपुनरभ्युदयफलानि तेष्वेषा चिन्ता कि कियन्तञ्चित्काणंप्रत्ययमावर्त्योपरमेत् उत यावज्जीवमावर्त्तयेदिति। किन्ता-वत् प्राप्तं कियन्तञ्चित्कालं प्रत्ययमभ्यस्योत्सृजेत् आ-वृत्तिविशिष्टस्योप सतशब्दार्थस्य कृतत्वादित्येवं प्राप्तेब्रूमः। आ प्रायणादेवावर्त्तयेत् प्रत्ययम्, अन्त्यप्रत्ययवशाददृष्टफलप्राप्तेः। कर्माण्यपि हि जन्मान्तरोपभोग्यंफलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकालेआक्षिपन्ति।
“सविज्ञानो भवति”
“सविज्ञानमेवान्ववक्रामति”
“यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहात्मनायथा सङ्कल्पितं लोकं नयतीति” चैवमादिश्रुतिभ्यः तृण-जलायूकानिदर्शनाच्च। प्रत्ययास्त्वेते स्वरूपावृत्तिं मुक्त्वाकिमन्यत् प्रायणकाले भावनाविज्ञानमपेक्षेरन्। तस्माद्येप्रतिपत्तव्यफलभावनात्मकाः प्रत्ययास्तेष्वा प्रायणादावृत्तिः। तथा च श्रुतिः
“स यावत्क्रतुरयमस्माल्लोकात् प्रैतीति” प्रायणकालेऽपि प्रत्ययानुवृत्तिं दर्शयति। स्मृतिरपि
“यंयं चापि स्मरन् भावं त्यजत्यन्ते कलेवरम्। तं तमेवैतिकौन्तेय! सदा तद्भावभावितः” इति
“प्रयाणकाले मनसा-ऽचलेनेति” च। सोऽन्तवेलायामेतत् त्रयं प्रतिपद्येतेति” च मरणवेकायां कर्त्तव्यशेषं श्रावयति” भा॰। प्रतीकभि-न्नेषु उपासनेषु अर्चिरादिमार्गेण ब्रह्मलोकावाप्तिः फलम्।
“अर्चिरादिना तत्प्रथितेः” शा॰ सू॰ भाष्ययोरुक्तम्तच्च अर्च्चिरादिमार्गशब्दे आतिवाहिकशब्दे च उक्तम्। युच् उपासनाप्यत्र स्त्री।
“न्यायचर्च्चेयमीशस्य मनमव्यप-देशभाक्। उपासनैव क्रियते श्रवणानन्तरागता” कुमु॰सेवने च
“उपासनामेत्य पितुः स्म सृज्यते” नैष॰। शाण्डि-ल्योक्ता भक्तिरूपोपासना भक्तिशब्दे वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासन¦ n. (-नं)
1. Archery.
2. Service.
3. A seat.
4. Assembling.
5. In- juring, hurting. f. (-ना)
1. Service.
2. Worship, adoration. E. उप before आस् to sit, or आङ् before अस् to throw or send, affix युच् and fem. टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासनम् [upāsanam] ना [nā], ना 1 Service, serving, attendance, waiting upon; शीलं खलोपासनात् (विनश्यति); उपासनामेत्य पितुः स्म सृज्यते N.1.34; Pt.1.169; Ms.3.17; Bg.13.7; Y.3.156; Bh.2.42.

Engaging in, being intent on, performing; संगीत˚ Mk.6; सन्ध्या˚ Ms.2.69.

Worship, respect, adoration.

Practice of archery.

Regarding as, reflecting upon.

Religious meditation. न कर्मसांख्ययोगोपासनादिभिः Mukti Up.1.1.

The sacred fire. वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्. Y.3.45.

Injuring, hurting; (fr. अस् 2). -Comp. -उपासना- खण्डः, N. of the first section of the Gaṇeśa Purāṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासन/ उपा n. the act of throwing off (arrows) , exercise in archery MBh.

उपासन/ उपा f( आ)n. the act of sitting or being near or at hand

उपासन/ उपा f( आ)n. serving , waiting upon , service , attendance , respect A1p. Gaut. Mn. Ya1jn5. etc.

उपासन/ उपा f( आ)n. homage , adoration , worship (with रामानुजs , consisting of five parts , viz. अभिगमनor approach , उपादानor preparation of offering , इज्याor oblation , स्वाध्यायor recitation , and योगor devotion) Sarvad. Veda1ntas. etc.

उपासन/ उपा n. a seat Vait.

उपासन/ उपा n. the being intent on or engaged in Mr2icch. R.

उपासन/ उपा n. domestic fire Ya1jn5. iii , 45.

"https://sa.wiktionary.org/w/index.php?title=उपासन&oldid=493358" इत्यस्माद् प्रतिप्राप्तम्