करका

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नाम:[सम्पाद्यताम्]

उदा: तुमुलकरकावृष्टिपातावकीर्णान्-[१]

अनुवादाः[सम्पाद्यताम्]

  1. मॆघदूतम् ५४

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करका, स्त्री, पुं, (कृणोति हिनस्ति आम्रादिफलम् । “कृञादिभ्यो वुन्” । वुनन्तात् टापि क्षिपकादि- त्वात् प्रत्ययस्थादिति इत्वं न किरति क्षिपति जलं वा ।) मेधभवशिला । शिल इति भाषा । तत्प- र्य्यायः । वर्षोपलः २ । इत्यमरः । १ । ३ । १२ ॥ मेघोपलः ३ । इति मेदिनी ॥ वीजोदकम् ४ घनकफः ५ मेघास्थि ६ वार्चरः ७ करः ८ करकः ९ । इति शब्दरत्नावली ॥ राधरङ्कुः १० धाराङ्कुरः ११ । इति जटाधरः ॥ मेदिन्यां राध- रङ्क इति पाठः ॥ (यथा मेघटूते ५६ । “तान्कुर्व्वीथास्तुमुलकरकावृष्टिहासावकीर्णान्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करका स्त्री-पुं।

वर्षोपलः

समानार्थक:करका

1।3।12।1।1

वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्. अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्.।

सम्बन्धि1 : वर्षम्

वैशिष्ट्य : वर्षम्

पदार्थ-विभागः : , द्रव्यम्, जलम्

"https://sa.wiktionary.org/w/index.php?title=करका&oldid=494955" इत्यस्माद् प्रतिप्राप्तम्