कान्तारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तारः, पुं, (कान्तं मनोज्ञं रसं ऋच्छति प्राप्नोति । कान्त + ऋ + अण् ।) इक्षुविशेषः । कतारे इति हिन्दी भाषा । (यथा, सुश्रुते सूत्रस्थाने ४५ अध्याये । “कान्तार तावसाविक्षुवंशकानुगुणौ मतौ” ।) अस्य गुणाः । गुरुत्वम् । शुक्रश्लेष्मवृद्धिकारित्वम् । वृंहणत्वम् । सारकत्वञ्च । इति भावप्रकाशः ॥ कोविदारवृक्षः । वंशः । इति राजनिर्घण्टः ॥

कान्तारः, पुं, क्ली, (कस्य सुखस्य अन्तं ऋच्छति यत्र । हिंस्रसङ्कु लत्वात् । कान्त + ऋ + आधारे घञ् ।) महावनम् । (यथा, गोः रामायणे । ४ । ४३ । ११ । “कैकेयान् सिन्धुसौवीरान् कान्तारगिरयश्च ये । गिरिजालावृतां दुर्गां मार्गध्वं पश्चिमां दिशम्” ॥) दुर्गमपथः । इत्यमरः । ३ । ३ । १७१ ॥ (उक्तञ्च-- “सिंहक्षुण्णकरीन्द्रकपोलमूलगलितं रक्ताक्तमुक्ता- फलम् कान्तारे वदरीभ्रमाद्द्रुतमगाद्भिल्लस्य पत्नी मुदा” इति ।) विलम् । छिद्रम् । इति मेदिनी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तारः [kāntārḥ] रम् [ram], रम् 1 A large or dreary forest; गृहं तु गृहिणीहीनं कान्तारादतिरिच्यते Pt.4.81; Bh.1.86; Y.2.38.

A bad road.

A hole, cavity.

रः A red variety of the sugar-cane.

Mountain ebony.

A bamboo. -री A kind of sugar-cane

रम् A symptom.

A lotus.

A class of the six-storeyed buildings. Māna.24.13-14

"https://sa.wiktionary.org/w/index.php?title=कान्तारः&oldid=270799" इत्यस्माद् प्रतिप्राप्तम्