काशिराज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशिराजः, पुं, (काश्याः राजा । “राजाहः सखि- भ्यष्टच्” । ५ । ४ । ९१ इति टच् ।) वाराणसी- राजः । तत्पर्य्यायः । धन्वन्तरिः २ दिवोदासः ३ सुधोद्भवः ४ । इति त्रिकाण्डशेषः ॥ (यदि च क्रगाण्वयेन तत्र बहवो राजान आसन् । तथापि तत्स्थानाधिकारित्वात् यदा योऽधि- कारी स एव काशिराजः अतो नासाधुप्रयोग इति मन्यामहे ॥ “अथ खलु भगवन्तममरवर- मृषिगणपरिवृतमाश्रमस्थं काशिराजं दिवोदासं धन्वन्तरिमौपधेनव वैतरणौरभ्रपौष्कलावतकर- वीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः” ॥ इति सुश्रुते सूत्रस्थांने १ अः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशिराज¦ पु॰ काशीनां जनपदानां राजा टच्समा॰। काशिदेशाधिपे। तद्देशाधिपाश्च कालभेदेन यद्यपि बह-हवस्तथापि काशिनामकनृपेण तदन्वयेन तत्र काशी-पुरीकरणात् तदन्वयजस्यैव तदधिपत्वं प्रथितं तदेतत्हरिवं

३२ अ॰ वर्ण्णितं यथा
“काशेस्तु काशयोराजन् पुत्रो दीर्घतपास्तथा। वभूब दी-र्घतपसो विद्वान् धन्वन्तरिः सुतः। धन्वन्तरेस्तु तनयःकेतुमानिति विश्रुतः। अथ केतुमतः पुत्त्रो विद्वान् भीम-रथः स्मृतः। दिवोदास इति ख्यातः सर्वरक्षः प्रणाशनः। एतस्मिन्नेव काले तु पुरीं वाराणसीं नृपः। शून्यां निवे-शयामास क्षेमको नाम राक्षसः। शप्ताहि सा मतिमतानिकुम्भेन महात्मना। शून्या वर्षसहस्रं वै भवत्वितिनराधिप!। तस्यान्तु शप्तमात्रायां दिवोदासः प्रजेश्वरः। विषयान्ते पूरीं रम्यां गोमत्यां संन्यवेशयत्। भद्रश्रेण्यस्यपुत्त्राणां शतमुत्तनधन्विनाम्। हत्वा निवेशयामासदिवोदासः प्रजेश्वरः। दिवोदासस्य पुत्त्रस्तु वीरो राजाप्रतर्द्दनः। प्रतर्द्दनस्य पुत्त्रौ द्वौ वत्सो भार्गव एव च। अलर्को राजपुत्त्रस्तु राजा सन्नतिमान् भुवि। हैहयस्यतु दायाद्यं हतवान् वै महीपतिः। आजह्रे पितृदाया-द्यं दिवोदासहृतं बलात्। भद्रश्रेण्यस्य पुत्त्रेण दुर्द्दमेनमहात्मना। दिवोदासेन बालेति घृणया स विसर्ज्जितः। अष्टारथो नाम नृपः सुतो भीमरथस्य बै। तेन पुत्त्रेषुवालेषु प्रहृतं तस्य भारत। वैरस्यान्तं महाराज!क्षत्रियेण विधित्सता। अलर्कः काशिराजस्तु ब्रह्मण्यःसत्यसङ्गरः। षष्टिं वर्षसहस्राणि षष्टि वर्षशतानि च। [Page2031-b+ 38] तस्यासीत्सुमहद्राज्यं रूपयौवनशालिनः। युवा रूपेणसम्पन्न आसीत् काशिकुलोद्वहः। लोपामुद्राप्रसादेन पर-मायुरवाप सः। वयसोऽन्ते महाबाहुर्हत्वा क्षेमकराक्ष-सम्। रम्यां निवेशयामास पुरीं वाराणसीं नृपः”। तत्रापि दिवोदासस्यैव तथात्वम् सर्वत्र प्रथितं सहिदेवान् पृथिव्या निष्कास्य वाराणस्यां राज्यं चकारेतिकाशीख॰

४३ अ॰ वर्ण्णितं यथा
“गतेषु देवसंघेषु पृथिव्याःपृथिवीपतिः। चकार राज्यं निर्द्वन्द्वं दिवोदासः प्रताप-बान्। विधाय राजधानीं स वाराणस्यां सुनिश्चलाम्”। इत्युपक्रम्य तद्राज्यं वर्ण्णितम्
“दिवोदासस्य तस्यैवं काश्यांराज्यं प्रशासतः। यातमेकदिनप्रायं शरदामयुताष्टकमिति” तत्र तस्य बहुकालराज्यकरणात् तथात्वम्
“काशिराजंदिवोदासम्” सुश्रु॰।
“द्वापरे तु दीर्घजिह्वासुरांश नृपभेदस्तन्नाम्ना प्रसिद्धः
“दीर्घजिह्वस्तु कौरव्य! य उक्तो-दानवर्षभः। काशिराजः स विख्यातः पृथिव्यां पृथि-वीपतिः” भा॰ आ॰

६७ अ॰। तस्यासुरांशभवत्वात् विष्णुंप्रति द्वेषो यथा हरिवं॰

९१ अ॰।
“कौशल्यः काशिराजश्चदशार्ण्णाधिपतिस्तथा” इत्युपक्रम्य
“तमन्वयुर्जरासन्धंविद्वि-षन्तोजनार्द्दनम्” इत्युक्तम्। स च अम्बिकादीनांपिता।
“विचित्रवीर्य्योऽथोवाह काशिराजसुते क्रमात्। स्वयंवरादुपानीते ह्यम्बिकाम्बालिके उभे” भाग॰

९ ,

२२ ,

१८ । स च नाम्ना काशिराजत्वेऽपि काशिपतिरासीत्।
“अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः। शुश्राव सहिता राजन् वृण्वाना वै स्वयंवरम्” भा॰आ॰

१०

२ अ॰।
“एवमुक्त्वा महीपालान् काशिराजञ्चवीर्य्यवान्” तत्रैवोक्तेः
“धृष्टकेतुश्चेकितानः काशिराजश्चवीर्य्यवान्” गीता। काशिपत्यादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशिराज¦ m. (-जः) A name of DHANWANTARI or DIVODASA, a king of Benares, and an author of medical works; he is often confound- [Page180-b+ 60] ed with his celestial namesake, the physician of the gods. E. काशि the city, and राज a king or ruler; also काशीराज।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशिराज/ काशि--राज m. = -पMBh. Hariv. BhP.

काशिराज/ काशि--राज m. N. of the दानवदीर्घ-जिह्वMBh. i , 2676

काशिराज/ काशि--राज m. of दिवो-दासधन्वन्तरिSus3r.

काशिराज/ काशि--राज m. of प्रतर्दनदैवोदासिRAnukr.

काशिराज/ काशि--राज m. of a grandfather of धन्वन्तरिVP.

काशिराज/ काशि--राज m. of a prince who has been killed by his wife VarBr2S.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the kingdom of, got rain by the presence of श्वफल्क; daughter of (गान्दिनी) married to श्वफल्क; फलकम्:F1: वा. ९६. १०३-5; Vi. IV. १३. ११६.फलकम्:/F a daughter Jayanti married to वृषभ. फलकम्:F2: M. ४५. २६.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=काशिराज&oldid=496140" इत्यस्माद् प्रतिप्राप्तम्