कृष्णकलिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णकलिः, स्त्री, (कृष्णस्य चूडा इव कलिः कलिका यस्याः ।) स्वनामख्यातपुष्पवृक्षः । तस्य शाखा रक्ततण्डुलीयनालवद्ग्रन्थियुक्ता पत्रं क्षुद्रताम्बूल- दलवद्भवति । तस्य पुष्पं श्वेतरक्तपीतपाटलवर्ण- मिलितपञ्चदलं षट्केशरमध्यं स्वल्पसद्गन्धयुक्तं अपराह्णे प्रस्फुटति । तस्य वीजं कृष्णमरि चतुल्यं पुष्पं सर्व्वकाले सुलमं वर्षाकाले प्रचुरं भवति । तदुत्पत्तिस्तस्य मूलतो वीजतश्च । इति लोक- प्रसिद्धम् ॥ अस्या । पिष्टपत्रमूलादिना व्रणस्फोटनं भवति इति वैद्यकम् ॥

"https://sa.wiktionary.org/w/index.php?title=कृष्णकलिः&oldid=128371" इत्यस्माद् प्रतिप्राप्तम्