क्रीतानुशय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीतानुशयः, पुं, (क्रीते क्रये अनुशयः पश्चात्तापः ।) द्रव्यं क्रीत्वा पश्चादनुतापः । यथा, -- “क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय इत्येतत् विवादपदमुच्यते” ॥ इति याज्ञवल्क्यः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीतानुशय¦ पु॰ क्रीते क्रये अनुशयः।
“क्रयविक्रयानुशयश्च” इति मनुक्ते अष्टादशविवादान्तर्गते विवादभेदे अनुशय-शयशब्द

१८

६ पृ॰ तद्विवृतिर्दृश्या। अधिकं वीरमित्रोदयेदर्शितं यथा(
“अथ क्रीतानुशयोव्यवहारपदम्। तत्स्वरूपमाहनारदः
“क्रीत्वा मूल्येन यत् पण्यं क्रेता न बहु मन्यते। क्रीतानुशय इत्येतद्विवादपदसुच्यते” इति। न बहु म-न्यते--सम्यगसम्यगिति पूर्ब्बं न विचार्य्य गृहीतमित्यर्थः। क्रीतं परीक्षणीयमित्याह वृहस्पतिः
“परीक्षेतस्वयं क्रीतमन्येषाञ्च प्रदर्शयेत्। परीक्षितं बहुमतंग्रहीता न पुनस्त्यजेदिति”। अन्येषां पण्यगुणदोषविदा-मिति शेषः। नारदोऽपि
“क्रेता पण्यं परीक्षेत प्राक् स्वयंगुणदोषतः। परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुन-रिति”। चर्मादीनां परीक्षा सद्यः कार्या तथा च व्यासः
“चर्म्मकाष्ठेष्टकासूत्रधान्यासवरसस्य च। वसुकुप्यहिर-ण्यानां सद्य एव परीक्षणमिति”। अत्र वसुशब्देन रूप्यंगृह्यते। कुप्यं रूप्यहेमव्यतिरिक्तं त्रपुसीसादिकम्। तथा च हेमरूप्ये प्रस्तुत्याहामरसिंहः
“ताभ्यां यदन्यत्त-त्कुप्यमिति”। क्रीतपण्यद्रव्यविशेषेण परीक्षणकाला-वधिमाह भारदः
“त्र्यहाद्दोह्यं परीक्षेत पञ्चाहाद्वा-ह्यमेव तु। मुक्तावज्रप्रबालानां सप्ताहं स्यात्परीक्षणम्। द्विपदामर्द्ध्वनासन्तु पुंसान्तद्द्विगुणं स्त्रियाः। दशाहं स-र्ववीजानामेकाहं लोहवाससाम्। अतोऽर्वाक्पण्यदोषस्तुयदि सञ्जायते क्वचित्। विक्रेतुः प्रतिदेयं तत् क्रेता मू-ल्यमवाप्नुयादिति”। त्र्यहात् क्रयदिनादारभ्येति शेषः। पञ्चाहादित्यादावप्येवमेव शेषोऽवगन्तम्यः। त्र्यहं वि-क्रेतृप्रतिदेयमित्यादिविधिदर्शनात् त्र्यहाद्दोह्यमित्यादिपरीक्षणं प्रीतिदोह्यादिदव्यविषयमिति गम्यते इति स्मृतिचन्द्रिका। दोह्यं महिष्यादिकम् वाह्यं बलीवर्दादिकम्। मुक्ताग्रहणं रत्नोपलक्षणम्। द्विपदाम्पुंसान्दासानामि-त्यर्थः। तद्द्विगुणं मासादित्यर्थः स्त्रियादास्याइत्यर्थः। [Page2335-b+ 38] पूर्ब्बोदाहृतचर्म्मकाष्ठेत्यादिव्यासवचनेन भक्षणाद्यर्थंगृहीतानां धान्यादीनां सद्यःपरीक्षणाभिधानात् सर्व-वीजानामित्यत्र वीजशब्दोवृद्ध्यर्थं गृहीतधान्यपरः। अन्यथा सद्यःपरीक्ष्यत्वप्रतिपादकव्यासवचनविरोधः स्यात्। अतोऽर्वाक् त्र्यहादेरभ्यन्तर इत्यर्थः। कात्यायनोऽपि
“भूमेर्दशाहोऽनुशयः क्रेतुर्विक्रेतुरेव चेति”। भूमेर्गृह-क्षेत्रादिरूपाया अनुशयः परावर्त्तनयोग्यः कालः परीक्षा-काल इति यावत्। यथोक्तपरीक्षाकालातिक्रमे दोषदर्शने न प्रतिदानमित्याह स एव
“अविज्ञातन्तु यत्क्रीतं दुष्टं पश्चाद्विभावितम्। क्रीतन्तत् स्वामिने देयम्पण्यंकालेऽन्यथा न त्विति”। अविज्ञातं परीक्षाशैथिल्या-त्तत्त्वतोऽपरिज्ञातम्। दुष्टं विभाबितं दोषवत्तया ज्ञात-मित्यर्थः। काले परीक्षाकाले। अन्यथा तत्कालात्ययेदुष्टतया परिभावितमपि तत् स्वामिने न देयम्। अविज्ञा-तन्तु यत्क्रीतमित्यनेन यत् क्रयात् प्राक् अपरीक्ष्य क्रीत-न्तत् परीक्षासमये दोषदर्शने परावर्त्तनीयम्। यत्तु-परोक्ष्य गृहीतं तन्न परावर्त्तनीयमिति। दर्शितमर्थंनारदआह
“क्रीत्वा नानुशयं कुर्य्याद्बणिक्पण्यवि-चक्षणः। क्षयं वृद्धिञ्च जानीयात् पण्यानामागमन्तथा। क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः। परीक्ष्या-भिमतं क्रीतं विक्रेतुर्न भवेत् पुनरिति”। अनुशयं पश्चा-त्तापम्। पण्यानां अश्वादीनां अस्मिन्देशे मूल्यहानि-रस्मिन्देशे तदाधिक्यमिति क्षयवृद्धी एतद्देशसम्भवमित्या-गमञ्च क्रयात् प्रागेव जानीयादित्यर्थः। दोषदर्शनमन्त-रेण परीक्षाकाल एव प्रत्यर्पणे विशेषमाह कात्यायनः
“क्रीत्वा चानुशयं पश्चात् त्यजेद्दोषादृते नरः। अजुष्टमेवकाले तु स मूल्याद्दशमं बहेत्। क्रीत्वा गच्छन्ननुशयंक्रयी हस्तमुपागते। षद्भागन्तस्य मूल्यस्य दत्त्वा क्रीतंत्यजेन्नरः” इति। अजुष्टमनभिभुक्तम्। काले परीक्षाकालेअत्र मूल्यदशमभागदानं यदुपभुज्यमानमपि न नश्यतिभूम्यादिकं तद्विषयम् उपभोगविनश्वरवीजादिविषयं षड्भागदानमिति व्यवस्था ज्ञेया। ननु विजानताऽप्यनुशयोन कार्यः
“क्रीत्वा नानुशयम् कुर्य्यादिति” निषेधसद्भावा-दिति चेत्सत्यं अपवादस्य सत्त्वात् स चापवादोदर्शितोनारदेन
“क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी। विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्न्यविक्षतमिति”। मन्यतइत्यनेन वस्तुतो दोषाभाव उक्तः। द्वितीयादिदिवसे प्रत्य-र्पणे विशेषमाह स एव
“द्वितीयेऽह्नि ददत् क्रेता मू-[Page2336-a+ 38] ल्यात्त्रिंशांशमाहरेत्। द्विगुणं तु तृतीयेऽह्नि परतः के-तुरेव तदिति”। परतः तृतीयाहात् परतः क्रेतुरेव तत्क्रीत्वा अनुशयादिकं न कुर्य्यादित्यर्थः। यत्तु मनुवचनम्
“क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत्। सोऽ-न्तर्दर्शाहात्तद्द्रव्यं दद्याच्चैवाददीत वेति” तदुपभोगे नश्व-रछत्रगृहयानशयनादिविषयम्। यत्तू पभोगेन विकारप्रा-पितं सदोषसपि तत् परीक्षाकालमध्येऽपि न प्रतिदेयमि-त्याह नारदः
“परिभुक्तन्तु तद्वासः कृष्णरूपं मलीमसम्। सदोषमपि तत् क्रीतं विक्रेतुर्न भवेत्पुनरिति”। वासो-ग्रहणमुपलक्षणमिति मदनरत्ने। वासोविषयतैवास्योतिमाधवीये। पण्यानां देशकाले उपचयापचयौ ज्ञातव्या-वित्याह नारदः
“क्षयं वृद्धिञ्च जानीयात्पण्यानामा-गमन्तथेति”। अश्वादिपण्यानामस्मिन् कालेऽस्मिन्देशेच क्षयं वृद्धिं वा जानीयात्तथागमं कुलीनत्वादिज्ञा-नार्थम् उत्पादकजन्मभूम्यादिकञ्च जानीयादित्यर्थः। क्रयकाले मूल्यक्षयवृद्धिदोषदर्शनमन्तरेण क्रोतविक्रीतयोःपत्यर्पणे पुनर्ग्रहणे दण्डमाह याज्ञवल्काः
“वृद्धिं क्षयंवा बणिजा पण्यानामविजानता। क्रीत्वा नानुशयःकार्य्यः कुर्वत् षट्भागदण्डभागिति”। वृद्धिं मूल्यवृद्धिम्अविजानता क्रेत्रा एवं मूल्यक्षयमविजानता विक्रेत्रेत्य-र्थः। परीक्षाकालातिक्रमेण प्रत्यर्पणे दण्डमाह मनुः
“ग्रहणे तु दशाहस्य न दद्यान्नापि दापयेत्। आददा-नो ददच्चैव राज्ञा दण्ठ्यः शतानि षडिति”। दशाह-ग्रहणं परीक्षाकालस्य पूर्ब्बोक्तस्योपलक्षणम्। सर्वमेत-त्परिभाषणमृते परिभाषण तु तदनुसारेणैव प्रतिदानंतदभावादिकं मन्तव्यम्”। क्रयानुशयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीतानुशय¦ m. (-यः) Returning a purchase upon the seller, admissible in some cases by law. E. क्रीत bought, अनुशय repentance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीतानुशय/ क्रीता m. repenting a purchase , returning a purchase upon the seller (admissible in some cases by law).

"https://sa.wiktionary.org/w/index.php?title=क्रीतानुशय&oldid=497725" इत्यस्माद् प्रतिप्राप्तम्