चतुरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरः, त्रि, (चत्यते याच्यते इति । चत + “मन्दि- वाशिमथिचतिचङ्क्यङ्किभ्य उरच् ।” उणां । १ । ३८ । इत्युरच् ।) कार्य्यक्षमः । निरालस्यः । तत्पर्य्यायः । दक्षः २ पेसलः ३ पटुः ४ सूत्था- नम् ५ उष्णः ६ । इत्यमरः । २ । १० । १९ । पेशलः ७ पेषलः ८ इति तट्टीका ॥ निपुणः । इति राजनिर्घण्टः ॥ (यथा, देवीभागवते । १ १७ । ४४ । “चतुरोनैव मुह्येत मूर्खः सर्व्वत्र मुह्यति ॥”) तस्य लक्षणं यथा । वाक्चेष्टाव्यङ्ग्यसमागमः । तत्र वचनव्यङ्ग्यसमागमो यथा, रसमञ्जर्य्याम् । “तमोजटाले हरिदन्तराले काले निशायास्तव निर्गतायाः । तटे नदीनां निकटे वनानां घटेत शातोदरिकः सहायः ॥” चेष्टाव्यङ्ग्यसमागमो यथा, -- “कान्ते कनकजम्बीरं करे कमपि कुर्व्वति ! अगारलिखिते भानौ बिन्दुमिन्दुमुखी ददौ ॥” (उपभोगक्षमः । यथा, रघुः । ९ । ४७ । “त्यजत मानमलं वत विग्रहैः न पुनरैति गतं चतुरं वयः ॥” “चतुरं उपभोगक्षमम् ।” इति तट्टीकायांमल्लि- नाथः ॥) नेत्रगोचरः । इति हेमचन्द्रः ॥

चतुरः, पुं, (चत + उरच् ।) चक्रगण्डुः । हस्ति- शाला । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=चतुरः&oldid=133654" इत्यस्माद् प्रतिप्राप्तम्