तपस्वी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्वी, [न्] त्रि, (तपोऽस्यास्तीति । तपस् + “तपःसहस्राभ्यां विनीनी ।” ५ । २ । १०२ । इति विनिः ।) तपोयुक्तः । तत्पर्य्यायः । तापसः २ पारिकाङ्क्षी ३ । इत्यमरः । २ । ७ । ४२ ॥ पारकाङ्क्षी ४ पारिकाङ्क्षकः ५ । इति शब्द- रत्नावली ॥ तपोधनः ६ । (यथा, मनुः । ४ । १६२ । “न हिंस्याद्ब्राह्मणान् गाश्च सर्व्वांश्चैव तपस्विनः ॥”) आनुकम्प्यः । इति मेदिनी । ने, १८५ ॥

तपस्वी, [न्] पुं, (तपस् + अस्त्यर्थे विनिः ।) नारदः । इति शब्दरत्नावली ॥ मत्स्यविशेषः । तपास्या माछ इति भाषा । तत्पर्य्यायः । तपः- करः २ चेष्टकः ३ चेष्टः ४ । इति शब्द- चन्द्रिका ॥ (चाक्षुषस्य मनोः पुत्त्रविशेषः । यथा, हरिवंशे । २ । १८ । “ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवान् कविः ॥”) घृतकरञ्जवृक्षः । इति राजनिर्घण्टः ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a sage of the epoch of the twelfth Manu. भा. VIII. १३. २८.
(II)--a son of चाक्षुष Manu. Br. II. ३६. ७९, १०६; M. 4. ४१.
(III)--is कश्यप; a sage of the epoch of the fourth सावर्ण. Br. IV. 1. ९२.
(IV)--a son of Manu and नड्वला. Vi. I. १३. 5.
(V)--a sage of the XII epoch of Manu. Vi. III. 2. ३५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TAPASVĪ : A son born to Cākṣuṣa Manu of Naḍvalā. (Chapter 13, Aṁśa 1, Viṣṇu Purāṇa).


_______________________________
*18th word in right half of page 785 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तपस्वी&oldid=430129" इत्यस्माद् प्रतिप्राप्तम्