दण्डः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डः, पुं क्ली, (दण्डयति अनेनेति । दण्ड + घञ् । यद्बा, दाम्यत्यनेनेति । दम् + “ञमन्तात् डः ।” उणां १ । ११३ । इति डः ।) लगुडः । इत्य- मरः । ३ । ३ । ४१ ॥ (यथा, हठयोगप्रदी- पिकायाम् । ३ । ११ । “यथा दण्डहतः सर्पो दण्डाकारः प्रजायते ॥”) तस्य धारणगुणाः । स्खलतः संप्रतिष्ठानत्वम् । शत्रुनिषेधनत्वम् । अवष्टम्भनत्वम् । आयुष्य- त्वम् । भयघ्नत्वञ्च । इति राजवल्लभः ॥ (यथा, चिकित्सितस्थाने चतुर्व्विंशेऽध्याये सुश्रुतेनोक्तम् । “पुनः सरीसृपव्यालविषाणिभ्यो भयापहम् । श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते ॥ सत्त्वोत्साहबलस्थैर्य्यधैर्य्यवीर्य्यविवर्द्धनम् । अवष्टम्भकरञ्चापि भयघ्नं दण्डधारणम् ॥”) शरणागतरक्षणादि । यथा, -- “शरणागतसंत्राणं भूतानामप्यहिंसनम् । बहिर्वेदि च यद्दानं दण्डमित्यभिधीयते ॥” इति मोक्षधर्म्मः ॥ (दण्डाकारत्वात् छत्त्रादीनामङ्गविशेषः । यथा, बृहत्संहितायाम् । ७३ । ४, ६ । “युवराजनृपतिपत्न्याः सेनापतिदण्डनायका- नाञ्च । दण्डोऽर्धपञ्चहस्तः समपञ्चकृतार्द्धविस्तारः ॥” “अन्येषाञ्च नराणां शीतातपवारणन्तु चतुर- स्रम् । समवृत्तदण्डयुक्तं छत्त्रं कार्य्यं तु विप्राणाम् ॥” चामरादीनामङ्गविशेषश्च । यथा, तत्रैव । ७२ । ३-४ । “अध्यर्धहस्तप्रमितोऽस्य दण्डेः हस्तोऽथवारत्निसमोऽथवान्यः । काष्ठाच्छुभात् काञ्चनरूप्यगुप्तात् रत्नैर्विचित्रैश्च हिताय राज्ञाम् ॥ षष्ट्यातपत्राङ्कुशवेत्रचाप- वितानकुन्तध्वजचामराणाम् । व्यापीततन्त्रीमधुकृष्णवर्णा वर्णक्रमेणैव हिताय दण्डाः ॥” ब्रह्मचारिधार्य्यलगुडाकारपदार्थः । यथा, देवी- भागवते । १ । १९ । ३१ । शुकं प्रति जनक- स्योक्तिः । “दण्डाजिनकृता चिन्ता यथा तव वनेऽपि च । तथैव राज्यचिन्ता मे चिन्तयानस्य वान वा ॥” वर्णभेदेन तत्प्रमाणादिकमुक्तम् । यथा, मनौ । २ । ४५-४७ । “ब्राह्मणो वैल्वपालाशौ क्षत्त्रियो वटखादिरौ । पैलवौदुम्बरौ वैश्वो दण्डानर्हन्ति धर्म्मतः ॥ केशान्तिको ब्राह्मणस्य दण्डः कार्य्यः प्रमाणतः । ललाटसम्मितोराज्ञः स्यात्तु नासान्तिको विशः ॥ ऋजवस्ते तु सर्व्वे स्युरव्रणाः सौम्यदर्शनाः । अनुद्वेगकरा नॄणां सत्वचो नाग्निदूषिताः ॥” बाणनिक्षेपकालीन स्थानविशेषे, क्ली । यथा, आग्नेयधनुर्व्वेदे । “तिर्य्यग्भूतो भवेद्बामो दक्षिणेऽपि भवेदृजुः । गुल्फौ पार्ष्णिग्रहौ चैव स्थितौ पञ्चाङ्गुलान्तरौ ॥ स्थानं दण्डं भवेदेतत् द्वादशाङ्गुलमायतम् ॥”)

दण्डः, पुं, (दण्डयत्यपराधिनमनेनेति । दण्ड + घञ् । यद्बा, दाम्यति शान्तं करोत्यनेन । दम + डः ।) राज्ञां चतुर्थोपायः । (यथा, देवी- भागवते । १ । १७ । ३ । “विना दण्डं कथं राज्यं करोति जनकः किल । धर्म्मे न वर्त्तते लोको दण्डश्चेन्न भवेद् यदि ॥”) स च त्रिविधः । वधः अर्थग्रहणं बन्धन- ताडनादिश्च । इत्यमरटीकासारसुन्दरी ॥ तत्- पर्य्यायः । साहसम् २ दमः ३ । इत्यमरः । २ । ८ । २१ । (दण्ड + भावे घञ् । दमनम् । (यथा, मनुः । १२ । १० । “वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च ॥” दण्ड इवाचरतीति । दण्ड + क्विप् । ततो भावे घञ् ।) ऊर्द्ध्वस्थितिः । दा~डान इति भाषा । इति सारसुन्दरी ॥ व्यूहभेदः । (अस्य लक्षण- भेदादिकं यथा, अग्निपुराणे २४१ अध्याये । “मण्डलासंहतौ भागौ दण्डास्ते बहुधा शृणु । तिर्य्यग्वृत्तिस्तु दण्डः स्यात् भोगोऽन्या वृत्ति- रेव च ॥ मण्डलः सर्व्वतोवृत्तिः पृथग्वृत्तिरसंहतः । प्रदरो दृढकोऽसह्यश्चापो वैकुक्षिरेव च ॥ प्रतिष्ठः सुप्रतिष्ठश्च श्येनो विजयसञ्जयौ । विशालो विजयः सूची स्थूणा कर्णचमूमुखौ ॥ सर्पाख्यो वलयश्चैव दण्डभेदाश्च दुर्ज्जयाः । अतिक्रान्तः प्रतिक्रान्तः कक्ष्याभ्याञ्चैकपक्षतः ॥ अतिक्रान्तस्तु पक्षाभ्यां त्रयोऽन्ये तद्विपर्य्यये । पक्षोरस्यैरतिक्रान्तः प्रतिष्ठोऽन्यो विपर्य्ययः ॥ स्थूणापक्षो धनुःपक्षो द्बिस्थूणो दण्ड ऊर्द्ध्वगः । द्विगुणोऽयन्त्वतिक्रान्तपक्षोऽन्यस्य विपर्य्ययः ॥ द्विचतुर्दण्ड इत्येते ज्ञेया लक्षणतः क्रमात् । गोमूत्रिका हि सञ्चारी शकटो मकरस्तथा ॥”) प्रकाण्डः । अश्वः । कोणः । मन्थानः । सैन्यम् । कालः । घडी इति भाषा । मानभेदः । काठा इति भाषा । (“हस्तैश्चतुर्भिर्भवतीह दण्डः ।” इति लीलावती ॥) चण्डांशोः पारिपार्श्विकः । (यथा, महाभारते । ३ । ३ । ६८ । “ये च तेऽनुचराः सर्व्वे पादोपान्तं समाश्रिताः । माठरारुणदण्डाद्यास्तांस्तान् वन्देऽशनिक्षुभान् ॥”) यमः । अभिमानः । इति मेदिनी । डे, १६ ॥ ग्रह- अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ॥ संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः । व्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥ शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् । अगुप्तमङ्ग सर्व्वस्वैर्गुप्तं सर्व्वेण हीयते ॥ वैश्यः सर्व्वस्वदण्ड्यः स्यात् संवत्सरनिरोधतः । सहस्रं क्षत्त्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति । ब्राह्मर्णी यद्यगुप्तान्तु गच्छेतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्य्यात् क्षत्त्रियन्तु सहस्रिणम् ॥ उभावपि तु तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्व्रजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः ॥ मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते । इतरेषान्तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ वैश्यश्चेत् क्षत्त्रियां गुप्तां वैश्यां वा क्षत्त्रियो व्रजेत् । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥ सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां क्षत्त्रियविशोः साहस्रो वै भवेद्दमः । क्षत्त्रियायामगुप्तायां वैश्ये पञ्चशतं दमः ॥ मूत्रेण मौण्ड्यमृच्छेत्तु क्षत्त्रियो दण्डमेव वा ॥ अगुप्ते क्षत्त्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् । शतानि पञ्च दण्ड्यः स्यात् सहस्रन्त्वन्त्यज- स्त्रियम् ॥ * ॥ ऋत्विजं यस्त्यजेद्याज्यो याज्यञ्चर्त्विक् त्यजेद्- यदि । शक्तं कर्म्मण्यदुष्टञ्च तयोर्दण्डः शतं शतम् ॥ न माता न पिता न स्त्री न पुत्त्रस्त्यागमर्हति । त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट् ॥” इति मनुः ॥ * ॥ दण्डस्य फलं यथा, युक्तिकल्पतरुः । “दण्डः संरक्षते धर्म्मं तथैवार्थं विधानतः । कामं संरक्षते यस्मात् त्रिवर्गो दण्ड उच्यते ॥ राजदण्डभयाल्लोकाः पापाः पापं न कुर्व्वते । यमदण्डभयादेके परलोकभयात्तथा ॥ दण्डश्चेन्न भवेल्लोके विभजन् साध्वसाधु वा । शूले मत्स्यानि वा यक्षन् दुर्ब्बलान् बलव- त्तराः ॥ अपराद्धेषु भूपालो दण्डं कुर्य्याद्यथाविधि । अन्यथाकरणात्तस्मात् राजा भवति किल्विषी ॥ विरुद्धमपि जल्पन्तो दूता दण्ड्या न भूभृता । दूतहन्ता तु नरकमाविशेत् सचिवैः सह ॥ विपक्षवचनादन्यो भृत्यो दण्डं न चार्हति । विपक्षवचनाद्दण्डः स्वामिनं नरकं नयेत् ॥”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दण्डः [daṇḍḥ] ण्डम् [ṇḍam], ण्डम् [दण्ड्-अच्]

A stick, staff, rod, mace, club, cudgel; पततु शिरस्यकाण्डयमदण्ड इवैष भूजः Māl.5.31; काष्ठदण्डः.

The sceptre of a king, the rod as a symbol of authority and punishment; आत्तदण्डः Ś.5.8.

The staff given to a twice-born man at the time of investiture with the sacred thread; cf Ms.2.45-48.

The staff of a संन्यासिन् or ascetic.

The trunk of an elephant.

The stem or stalk as of a lotus, tree &c.; U.1.31; Māl.9.14; the handle as of an umbrella; ब्रह्माण्डच्छत्रदण्डः &c. Dk.1 (opening verse); राज्यं स्वहस्तधृतदण्डमिवातपत्रम् Ś.5.6; Ku.7.89; so कमल- दण्ड &c.

The oar of a boat.

An arm or leg (at the end of comp.)

The staff or pole of a banner, a tent &c.

The beam of a plough.

The cross-bar of a lute or a stringed instrument.

The stick with which an instrument is played.

A churning-stick.

Fine; Ms.8.341;9.229; Y.2.237.

Chastisement, corporal punishment, punishment in general; यथापराधदण्डानाम् R.1.6; एवं राजापथ्यकारिषु ती- क्ष्णदण्डो राजा Mu.1; दण्डं दण्ड्येषु पातयेत् Ms.8.126; कृतदण्ड स्वयं राज्ञा लेभे शूद्रः सतां गतिम् R.15.23. यथार्हदण्डो (राजा) पूज्यः Kau. A.1.4; सुविज्ञातप्रणीतो हि दण्डः प्रजां धर्मार्थकामै- र्योजयति Kau. A.1.4

Imprisonment.

Attack, assault, violence, punishment, the last of the four expedients; see उपाय; सामादीनामुपायानां चतुर्णामपि पण्डिताः । साम- दण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥ Ms.7.19; cf. Śi.2.54.

An army; तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत R.17. 62; Ms.7.65;9.294; Ki.2.15.

A form of military array; Mb.12.59.4.

Subjection, control, restraint; वाग्दण्डो$थ मनोदण्डः कायदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥ Ms.12.1.

A measure of length equal to 4 Hastas; Bṛi. S.24.9.

The penis.

Pride; या चापि न्यस्तदण्डानां तां गतिं व्रज पुत्रक Mb. 7.78.25.

The body.

An epithet of Yama.

N. of Viṣṇu.

N. of Śiva.

An attendant on the sun.

A horse (said to be m. only in this and the preceding four senses).

A particular appearance in the sky (similar to a stick).

An uninterrupted row or series, a line.

Standing upright or erect.

A corner, an angle.

The Science of Govt. विनयमूलो दण्डः, दण्डमूलास्तिस्त्रो विद्याः Kau. A.1.5.

Harm, injury; न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः Bhāg.7. 15.8.

Comp. अजिनम् staff and hide (as outer badges of devotion).

(fig.) hypocrisy, deceit. -अधिपः a chief magistrate. -अनीकम् a detachment or division of an army; तव हृतवतो दण्डानीकैर्विदर्भपतेः श्रियम् M.5.2. -अप (व) तानकः tetanus, lock-jaw. -अपूपन्यायः see under न्याय.-अर्ह a. fit to be chastised, deserving punishment.-अलसिका cholera. -आख्यम् a house with two wings, one facing the north and the other the east; Bṛi. S.53. 39. -आघातः a blow with a stick; पूर्वप्रविष्ठान्क्रोधात्तान्दण्डा- घातैरताडयन् Ks.54.23. -आज्ञा judicial sentence. -आश्रमः the condition of a pilgrim. -आश्रमिन् m. a devotee, an ascetic. -आसनम्, दण्डकासनम् lying prostrate on the ground, a kind of Āsana; Yoga S.2.46. -आहतम् buttermilk.

उद्यमः threatening.

(pl.) application of power; निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमैः Pt.1.376. -कर्मन् n. infliction of punishment, chastisement; देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि Y.2.275.-कलितम् repetition like a measuring rod, i. e. doing a matter after it is done in full first and then repeating it like that a second time and so on; आवृत्तिन्यायानां दण्ड- कलितं न्याय्यम् । ŚB. on MS.1.5.83; ˚वत् ind. in the manner of a measuring rod. -कल्पः Infliction of punishment; शुद्धचित्रश्च दण्डकल्पः Kau. A.4. -काकः a raven. -काण्ठम् a wooden club or staff; दण्डकाष्ठमवलम्ब्य स्थितः Ś2. -ग्रहणम् assumption of the staff of an ascetic or pilgrim, becoming a mendicant. -घ्न a. striking with a stick, committing an assault; Ms.8.386. -चक्रः a division of an army. -छदनम् a room in which utensils of various kinds are kept. -ढक्का a kind of drum. -दासः one who has become a slave from non-payment of a debt; Ms.8.415. -देवकुलम् a court of justice. -धर, -धार a.

carrying a staff, staffbearer.

punishing, chastising; दत्ताभये त्वयि यमादपि दण्डधारे U.2.11.

exercising judicial authority.

(रः) a king; श्रमनुदं मनुदण्डधरान्वयम् R.9.3; बलीयानबलं ग्रसते दण्डधराभावे Kau. A.1.4.

N. of Yama; यमो निहन्ता... ...दण्डधरश्च कालः

a judge, supreme magistrate.

a mendicant carrying a staff.

a general (of an army;) Dk.2.

धारणम् carrying a staff (as by a Brahmachārin).

following the order of a mendicant.

नायकः a judge, a head police-officer, a magistrate.

the leader of an army, a general.

a king. ˚पुरुषः a policeman, constable. -निधानम् pardoning, indulgence; Mb.12. -निपातनम् punishing, chastising. -नीतिः f.

administration of justice, judicature.

the system of civil and military administration, the science of politics, polity; Ms.7.43; Y.1.311; फलान्युपायुङ्क्त स दण्ड- नीतेः R.18.46; जरातुरः संप्रति दण्डनीत्या सर्वं नृपस्यानुकरोमि वृत्तम् Nāg.4.1.

an epithet of Durgā. -नेतृ m.

a king.

Yama; गृध्रा रुषा मम कृषन्त्यधिदण्डनेतुः Bhāg.3.16. 1.

a judge; Ms.12.1; Bhāg.4.22.45. -पः a king. -पांशुलः a porter, door-keeper.

पाणिः an epithet of Yama; करोमि चिकित्सां दण्डपाणिरिव जनतायाः Bhāg.5.1.7.

N. of the god Śiva at Benares.

a policeman; इति पश्चात्प्रविष्टास्ते पुरुषा दण्डपाणयः Ks.54.23.

पातः falling of a stick.

dropping one line in a manuscript. -पातनम् infliction of punishment, chastisement.

पारुष्यम् assault, violence.

hard or cruel infliction of punishment; अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् Ms.8.278.

पालः, पालकः a head magistrate.

a door-keeper, porter. Kau. A.1.12.

Ns. of two kinds of fishes; L. D. B.

पाशकः, पाशिकः a head police-officer; Pt.2; उच्यता- मस्मद्वचनात्कालपाशिको दण्डपाशिकश्च Mu.1.2-21.

a hangman, an executioner. -पोणम् a strainer furnished with a handle.

प्रणामः bowing by prostrating the body at full length (keeping it erect like a stick). cf. साष्टाङ्गनमस्कार.

falling flat or prostrate on the ground.-बालधिः an elephant. -भङ्गः non-execution of a sentence.-भृत् m.

माण (न)वः a staff-bearer

an ascetic bearing a staff; Rām.2.32.18.

a chief or leader. -माथः a principal road, highway. -मुखः a leader, general of an army.

यात्रा a solemn procession (particularly bridal).

warlike expedition, conquest (of a region).

यामः an epithet of Yama.

of Agastya.

a day.-लेशम् a small fine; Ms.8.51. -वधः capital punishment. -वाचिक a. actual or verbal (assault); Ms.8.6; cf. वाक्-पारुष्यम्. -वादिन् a. reprimanding, censuring, threatening with punishment; (also -m.).-वारित a. forbidden by threat of punishment. -वासिकः a door-keeper, warder. -वासिन् m.

a door-keeper.

a magistrate. -वाहिन् m. a police-officer. -विकल्पः discretion given to an officer in awarding punishment or fine; Ms.9.228.

विधिः rule of punishment; see दण्डोद्यमः

criminal law. -विष्कम्भः the post to which the string of a churning-stick is fastened. -व्यूहः a particular form of arranging troops, arranging them in long lines or columns; Ms.7.187. -शास्त्रम् the science of inflicting punishment, criminal law.

हस्तः a door-keeper, warder, porter.

"https://sa.wiktionary.org/w/index.php?title=दण्डः&oldid=415117" इत्यस्माद् प्रतिप्राप्तम्