निमित्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमित्तम्, क्ली, (नि + मिद् + क्त । संज्ञापूर्ब्बकत्वान्न नत्वम् ।) हेतुः । (यथा, देवीभागवते । १ । १८ । ५ । “किं निमित्तं महाभाग ! निःस्पृहस्य च मां प्रति । जातं ह्यागमनं ब्रूहि कार्य्यं तन्मुनिसत्तम ! ॥”) चिह्नम् । इत्यमरः । ३ । ३ । ७६ ॥ शकुनः । यथा, “निमित्तानि च पश्यामि विपरीतानि केशव ! । इति श्रीभगवद्गीता ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमित्त नपुं।

कारणम्

समानार्थक:हेतु,कारण,बीज,प्रमाण,निमित्त,प्रत्यय,इति,हि,यत्_तत्,यतः_ततः

3।3।76।2।2

वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते। कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥

 : मुख्यकारणम्

पदार्थ-विभागः : कारणम्

निमित्त नपुं।

चिह्नम्

समानार्थक:कलङ्क,अङ्क,लाञ्छन,चिह्न,लक्ष्मन्,लक्षण,लिङ्ग,निमित्त,पद,व्यञ्जन,प्रज्ञान

3।3।76।2।2

वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते। कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥

 : विष्णुलाञ्छनम्

पदार्थ-विभागः : चिह्नम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमित्त¦ न॰ नि + मिद--क्त।
“अनात्मनेपदनिमित्ते” पासूत्रनिर्देशान्न न दस्य नः।

१ हेतौ

२ चिह्ने च अमरः
“निमित्तेषु च सर्वेषु ह्यप्रमत्तो च भवेन्नरः” स्मृतिः
“मयैव पूर्वं निहता धार्त्तराष्ट्राः निमित्तमात्रं भवसव्यसाचिन्। ” गीता
“अतः कालं प्रवक्ष्यामि निमित्तंकर्मणामिह” ति॰ त॰ भविष्यपु॰
“मासपक्षतिथीनाञ्चनिमित्तानाञ्च सर्वशः। उल्लेखनमकुर्वाणो न तस्व फल-भाग् भवेत्” ति॰ त॰ भविष्यपु॰। ब्रह्माण्डे
“निमित्तानिच शंसन्ति शुभाशुभफलोदयम्”
“निमित्तं मनश्चक्षुरा-दिप्रवृत्तौ” हस्तामलकम्। शुभाशुभसूचके

३ शकुने
“निमित्तानि च पश्यामि विपरीतानि केशव!” गीता

४ फले उद्देश्ये
“निमित्तात् कर्मयोगे” वार्त्ति॰ निमित्त-मिह फलम्।

५ निमित्तनिश्चये नैमित्तिकं निमित्तनिश्च-यादागतम्।

६ शरव्ये च शब्दार्थचि॰ स्वार्थे क तत्रार्थेसंज्ञायां कन्। निमित्तक चुम्बने शब्दमाला।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमित्त¦ n. (-त्तं)
1. Cause, motive, instrumental cause.
2. Mark, sign, spot, trace, token.
3. Omen.
4. A butt, a target.
5. Pretext. E. नि before, मि to measure, क्त affix, also with कन् added निमित्तक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमित्तम् [nimittam], [नि-मिद्-क्त Tv.]

A cause, motive, ground reason; निमित्तनैमित्तिकयोरयं क्रमः Ś.7.3.

The instrumental or efficient cause (opp. उपादान); धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः Bhāg.3.7.32.

Any apparent cause, pretext; निमित्तमात्रं भव सव्यसाचिन् Bg.11.33; निमित्तमात्रेण पाण्डवक्रोधेन भवितव्यम् Ve.1.

A mark, sign, token.

A butt, mark, target; निमित्ते दूरपातित्वे लघुत्वे दृढवेधने Mb.7.74.23; निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् Śi.2.27.

An omen, prognostic (good or bad); निमित्तं सूचयित्वा Ś.1; निमित्तानि च पश्यामि विपरीतानि केशव Bg.1.31; R.1.86; Ms.6.5; Y.1.23;3.171.

Means of knowledge; तस्य निमित्तपरीष्टिः MS.1.1.3.

Function, ceremony; एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् (कर्तव्यानि); Mb.12.61.6. (निमित्त is used at the end of comp. in the sense of 'caused or occasioned by'; किन्निमित्तो$यमातङ्कः Ś.3. निमित्तम्, निमित्तेन, निमित्तान् 'because of', 'on occount of'.)-Comp. -अर्थः the infinitive mood (in gram). -आवृत्तिःf. dependence on a special cause. -कारणम्, हेतुः an instrumental or efficient cause. -कालः a specific time.-कृत् m. a crow -ज्ञ a. acquainted with omens (as an astrologar).

धर्मः expiation.

an occasional rite.-नैमित्तिकम् (du.) cause and effect; निमित्तनैमित्तिकयोरयं क्रमः Ś.7.3. -परीष्टि f. scrutiny of the means (of knowing); तस्य निमित्तपरीष्टिः MS.1.1.3. -मात्रम् the mere efficient cause or instrument; Bg.11.33. -विद् a. knowing good or bad omens. (-m.) an astrologer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमित्त n. (possibly connected with नि-माabove ) a butt , mark , target MBh.

निमित्त n. sign , omen Mn. Ya1jn5. MBh. etc. (See. दुर्-न्)

निमित्त n. cause , motive , ground , reason Up. Kap. Var. Mn. MBh. Ka1v. etc. (in all oblique cases = because of , on account of See. Pa1n2. 2-3 , 23 Pat. ; mfn. ifc. caused or occasioned by ; त्तंया, to be the cause of anything Ka1d. )

निमित्त n. (in phil. ) instrumental or efficient cause ( opp. to उपा-दान, the operative or material cause) Veda7ntas. Bha1sha1p.

निमित्त n. = आगन्तु

निमित्त n. देह

निमित्त n. आदेश

निमित्त n. पर्वन्L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of दण्डपाणि and father of क्षेमक. Vi. IV. २१. १५-6.

"https://sa.wiktionary.org/w/index.php?title=निमित्त&oldid=431840" इत्यस्माद् प्रतिप्राप्तम्