प्रजन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजनः, पुं, (प्रजायतेऽनेनेति । प्र + जन् + करणे घञ् । “जनिवध्योश्च ।” ७ । ३ । ३५ । इति न वृद्धिः ।) उपसरः । इत्यमरः । ३ । २ । २५ ॥ द्वे स्त्रीगव्यादिषु पुङ्गवादीनां प्रथमगर्भाधानाय मैथुनाभियोगः । प्रजनं क्लीवमिति केचित् ॥ पशूनां गर्भग्रहणकालः । इति स्वामी ॥ गवां प्रथमगर्भग्रहणाभियोगः । इति सुभूतिः ॥ स्त्रीगवीषु पुङ्गवानां प्रथमगमनमिति सर्व्वस्वम् ॥ किन्तु वीनामुपसरं दृष्ट्वेति भट्टिः । इत्यमर- टीकायां भरतः ॥ (मैथुनसाधनोपस्थेन्द्रियम् । यथा, मनुः । १२ । १२१ । “वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम् ॥” प्र + जन् + भावे घञ् । पुत्त्रोत्पादनम् । यथा, मनुः । ९ । १२१ । “उपसर्ज्जनं प्रधानस्य धर्म्मतो नोपपद्यते । पिता प्रधानं प्रजने तस्माद्धर्म्मेण तं भजेत् ॥” जनयितरि, त्रि । यथा, भागवते । ८ । ५ । ३४ । “ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः ॥” तथा, भगवद्गीतायाम् । १० । २८ । “प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजन पुं।

प्रथमगर्भग्रहणम्

समानार्थक:प्रजन,उपसर

3।2।25।1।1

प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ। धीशक्तिर्निष्क्रमोऽस्त्री तु संक्रमो दुर्गसञ्चरः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजन¦ पु॰ प्र + जन--घञ् न वृद्धिः।

१ प्रजनने। प्रजायतेऽनेनकरणे घञ्। स्त्रीनव्यादिषु

२ पुङ्गवादीनामभिगमने गर्भ-ग्रहणार्थमैथुने

२ उपसरे (पालदेओया) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजन¦ mn. (नः-नं)
1. Impregnating, begetting.
2. Impregnation or pregnancy of cattle in general.
3. The season for a cow's taking the bull, &c. m. (-नः)
1. A progenitor, an impregnator.
2. Bringing forth, bearing. E. प्र before, जन् to be born, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजनः [prajanḥ], 1 Impregnating, begetting, generating, production; अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्तते Mb.13.46.4; T. Up.1.9.1; Ms.3.61;9.61.

The impregnation of cattle.

Bringing forth, bearing; प्रजनार्थं स्त्रियः सृष्टाः Ms.9.96.

A generator, progenitor; प्रजनश्चास्मि कन्दर्पः Bg.1.28.

The generative organ; प्रजने च प्रजापतिम् (सन्निवेशयेत्) Ms.12.121.

प्रजनः [prajanḥ], f. The vulva (Ved.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजन/ प्र- m. begetting , impregnation , generation , bearing , bringing forth (rarely n. ) Mn. MBh.

प्रजन/ प्र- m. one who begets , generator , progenitor BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Kuru. M. ५०. २३.
(II)--an Asura in the सभा of हिरण्यकशिपु. M. १६१. ८१. [page२-404+ ३१]
"https://sa.wiktionary.org/w/index.php?title=प्रजन&oldid=501311" इत्यस्माद् प्रतिप्राप्तम्