प्रह्लादः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रह्लादः, पुं, (प्रह्लादयतीति । प्र + ह्लाद् + णिच् + अच् ।) प्रह्रादः । स च पूर्ब्बजन्मनि शिव- शर्म्मणः पुत्त्रः सोमशर्म्मनामाभूत् ततो दैत्य- भावनया मृतः अनन्तरं कमलायां हिरण्य- कशिपोः सकाशाद्दैत्यभावेन जातः । यथा, सूत उवाच । “स लोष्टेन समं मेने काञ्चनं भूषणं पुनः । जिताहारः स धर्म्मात्मा निद्रया परिवर्जितः ॥ विषयान् स परित्यज्य एकान्तमपि सेवते । योगासनसमारूढो निराशो निष्परिग्रहः ॥ तस्य वेलां सुसंप्राप्य मृत्युकालः समागतः । आगतान् दानवान् विप्रः सोमशर्म्मा व्यलो- कयत् ॥ मृत्युकाले तु संप्राप्ते प्राणयात्राप्रवर्त्तके । शालग्रामे महाक्षेत्रे ऋषीणामेव सन्निधौ ॥ केचिद्बदन्ति वै दैत्याः केचिद्बदन्ति दानवाः । एवंविधो महाशब्दः कर्णरन्ध्रगतस्तदा ॥ तस्यैव विप्रवर्य्यस्य सुविप्राः सोमशर्म्मणः । ज्ञानध्यानात् प्रचलतः प्रविष्टं दैत्यजं भयम् ॥ तेन ध्यानेन तस्यापि दैत्यभूतेन वै तदा । सत्वरं तस्य वै प्राणा गतास्तस्य महात्मनः ॥ दैत्यभावेन संयुक्तः स हि मृत्युवशं गतः । तस्माद्दैत्यगृहे जातो हिरण्यकशिपोस्तदा ॥ देवासुरे महायुद्धे निहतश्चक्रपाणिना । युध्यमानेन तेनापि प्रह्रादेन महात्मना ॥ सुभृशं वासुदेवं तद्बिश्वरूपं विचिन्तितम् । योगाभ्यासेन पूर्ब्बेण ज्ञानमासीन्महात्मनः ॥ सस्मार पौर्ब्बिकं सर्व्वं चरित्रं शिवशर्म्मणः । सोऽप्यहं सोमशर्म्मा वै प्रविष्टो दानवीं तनुम् ॥ कस्य कायं कदा पुण्यं केवलं ध्यानमुत्तमम् । प्रयामि च महापुण्यैर्ज्ञानाख्यैर्मोक्षदायिभिः ॥ समरे प्रीयमाणेन प्रह्रादेन महात्मना । एवं चिन्ता कृता पूर्ब्बं श्रूयतां द्विजसत्तम ! ॥ एतत्ते सर्व्वमाख्यातं सर्व्वसन्देहनाशनम् ॥” सूत उवाच । “प्रह्रादे तु हते संख्ये देवदेवेन चक्रिणा । संह्रादे च महावीर्य्ये तस्मिंश्च कालनेमिनि ॥ प्रह्रादस्य तु या माता हिरण्यकशिपोः प्रिया । प्रह्रादस्य महाशोकैर्दिवा रात्रौ प्रशोचति ॥ पतिव्रता महाभागा कमला नाम दुःखिता । खिद्यमाना दिवा रात्रौ नारदस्तामुवाच ह ॥ मा शुचस्त्वं महाभागे पुत्त्रार्थं पुण्यभागिनि ! । निहतो वासुदेवेन तव पुत्त्रः समेष्यति ॥ तद्रूपलक्षणोपेतस्तवोदरे महामतिः । प्रह्रादेति च वै नाम पुनरस्य भविष्यति ॥ विहीन आसुरैर्भावैर्वैष्णवेन समन्वितः इन्द्रत्वं भोक्ष्यते भद्रे ! सर्व्वदेवैर्नमस्कृतः ॥ सुखीभव महाभागे ! पुत्त्रेण तेन वै सदा । न प्रकाश्या त्वया देवि ! स्ववार्त्तेयञ्च कस्यचित् ॥ कर्त्तव्यमज्ञानभावैः सुगोप्यं त्वं सदा कुरु । एवमुक्त्वा गतो विप्र नारदो मुनिसत्तमः ॥ कमलायाश्चोदरे वै आसीत् तज्जन्म चोत्तमम् । पुनः प्रह्लादो वै नाम तस्यां जातो महात्मनः ॥ बाल्यभावं गतो विप्र कृष्ण एवं विचिन्त्य च । नरसिंहप्रसादेन देवराजोऽप्यभूत् स हि ॥” इति पाद्मे भूमिखण्डे ५ अध्यायः ॥ * ॥ (अनेन सह नरनारायणयोर्युद्धमासीत् । एतद्- विवरणन्तु देवीभागवते चतुर्थस्कन्धे नवमा- ध्याये द्रष्टव्यम् ॥) प्रमोदः । इति विश्वः ॥ (यथा, महाभारते । १ । ७० । ३ । “मनःप्रह्लादजननं दृष्टिकान्तमतीव च ॥”) शब्दः । इति धरणिः ॥ (नागविशेषः । यथा, महाभारते । २ । ९ । १० । “प्रह्लादो मूषिकादश्च तथैव जनमेजयः ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रह्लादः&oldid=151783" इत्यस्माद् प्रतिप्राप्तम्