प्राज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राज्ञः, पुं, (प्रकर्षेण जानातीति । प्र + ज्ञा + कः । ततः प्रज्ञ एव स्वार्थे अण् ।) कल्कि- देवस्य ज्येष्ठभ्राता । यथा, -- “कल्किं द्रष्टुं हरेरंशमाविर्भूतञ्च शम्भले । कविं प्राज्ञं सुमन्तञ्च पुरस्कृत्य महाप्रभम् ॥” इति कल्किपुराणे २ अध्यायः ॥ पण्डितः । इत्यमरः । २ । ७ । ५ ॥ (यथा, -- “पण्डिते च गुणाः सर्व्वे मूर्खे दोषा हि केवलम् । तस्मान्मूर्खसहस्रेषु प्राज्ञ एको विशिष्यते ॥” इत्युद्भटः ॥) राजशुकः । इति राजनिर्घण्टः ॥ (प्रकर्षेण अज्ञः इति विग्रहे मूर्खोऽपि ॥)

प्राज्ञः, त्रि, (प्रज्ञ + स्वार्थे अण् । यद्बा, प्रज्ञा- स्त्यस्येति । अच् ।) पण्डितः । (यथा, महा- भारते । १ । १४६ । १९ । “पौरेषु विनिवृत्तेषु विदुरः सर्व्वधर्म्मवित् । बोधयन् पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥ प्राज्ञः प्राज्ञं प्रलापज्ञः प्रलापज्ञमिदं वचः ॥”) दक्षः । इति शब्दरत्नावली ॥ (विज्ञः । यथा, मनुः । २ । १२३ । “नामधेयस्य ये केचिदभिवादं न जानते । तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्व्वास्तथैव च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राज्ञ पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।5।2।4

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राज्ञ¦ पु॰ प्रकर्षेण जानाति प्र--ज्ञा--क स्वार्थे अण्।

१ पण्डितेअमरः

२ राजशुके राजनि॰। प्रज्ञाऽस्त्यस्य अण्।

३ बुद्धिमति

४ दक्षे च त्रि॰। प्रज्ञा + स्वार्थे ण।

६ बुद्धौस्त्री टाप् प्राज्ञस्य पत्नी ङीप्। प्राज्ञी

७ प्राज्ञपत्न्यांस्त्री।

७ कल्किनो ज्येष्ठभ्रातरि पु॰ कल्किपु॰

२ अ॰। प्रकर्षेण अज्ञः। वेदान्तसारोक्ते

८ व्यष्ठ्यु पहितचैतन्येएकाज्ञानमात्रभासके जीवचैतन्ये पु॰
“एतदुपहितचैत-न्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञ इत्युच्यते। एका-ज्ञानावभासकन्वादस्य प्राज्ञत्वम् अस्पष्टोपाधितयाऽनति-प्रकाशकत्वम्” बेदान्तसारः। प्रज्ञ + स्वार्थे अण् स्त्रियांङीप्। प्राज्ञी

९ सूर्यपत्न्याम् स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं)
1. Patient in investigation.
2. Wise, clever, sen- sible. m. (-ज्ञः)
1. A Pandit, a learned or wise man.
2. A skilful or clever person. f. (-ज्ञा) Knowledge, understanding. f. (-ज्ञा-ज्ञी) A clever or intelligent woman. f. (-ज्ञी) The wife of a Pandit. E. प्र and आङ् before, ज्ञा to know, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राज्ञ [prājña], a. (-ज्ञा, -ज्ञी f.) [प्रज्ञ एव स्वार्थे अण्]

Intellectual.

Wise, learned, clever; किमुच्यते प्राज्ञः खलु कुमारः U.4.

ज्ञः A wise or learned man; तेभ्यः प्राज्ञा न बिभ्यति Ve.2.14; देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ Bg.17.14.

A kind of parrot.

Intelligence dependent on individuality; Vedāntasāra.

Supreme Being (Almighty); अयं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम् Bṛi. Up.4.3.21.

ज्ञा Intelligence, understanding.

A clever or intelligent woman.

ज्ञी A clever or learned woman.

The wife of a learned man.

N. of a wife of the sun (सूर्यपत्नी). -Comp. -कथा a story about a wise man.-मन्य, -मानिन् or प्राज्ञंमानिन् a. fancying oneself to be wise, conceited; न तु चिन्तयतश्चित्ते जनस्य प्राज्ञमानिनः Bu. Ch.4.52. -मानः respect for learned men.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राज्ञ/ प्रा--ज्ञ mf( आand ई)n. (fr. ज्ञा)intellectual ( opp. to शारीर, तैजस) S3Br. Nir. Ma1n2d2Up.

प्राज्ञ/ प्रा--ज्ञ mf( आand ई)n. intelligent , wise , clever Kat2hUp. Mn. MBh. etc.

प्राज्ञ/ प्रा--ज्ञ m. a wise or learned man MBh. Ka1v. etc.

प्राज्ञ/ प्रा--ज्ञ m. intelligence dependent on individuality Veda7ntas.

प्राज्ञ/ प्रा--ज्ञ m. a kind of parrot with red stripes on the neck and wings L.

प्राज्ञ etc. See. p. 702 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=प्राज्ञ&oldid=502999" इत्यस्माद् प्रतिप्राप्तम्