ब्रह्मावर्त्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मावर्त्तः, पुं, (ब्रह्मणां ब्रह्मनिष्ठब्राह्मणानामा- वर्त्त इव । बहुलब्राह्मणाश्रयत्वादस्य तथा- त्वम् ।) देशविशेषः । तत्पर्य्यायः । तपोवटः २ । इति त्रिकाण्डशेषः ॥ तत्परिमाणादि यथा, -- “सरस्वतीदृशद्बत्योर्द्देवनद्योर्यदन्तरम् । तद् देवनिर्म्मितं देशं ब्रह्मावर्त्तं प्रचक्षते ॥ तस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते ॥ कुरुक्षेत्रञ्च मत्स्याश्च पञ्चालाः शूरसेनकाः । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्त्तादनन्तरः ॥ एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्व्वमानवाः ॥ इति मानवे । २ । १७-२० ॥ (तीर्थविशेषः । यथा, महाभारते । ३ । ८३ । ५० । “ततो गच्छेत धर्म्मज्ञ ! ब्रह्मावर्त्तं नराधिप ! । ब्रह्मावर्त्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ॥” अपरञ्च तत्रैव । ३ । ८४ । ४० । “ब्रह्मावर्त्तं ततो गच्छेत् ब्रह्मचारी समाहितः । अश्वमेधमवाप्नोति सोमलोकञ्च गच्छति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मावर्त्त¦ पु॰
“सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम्। तंदेवनिर्मितं देशं ब्रह्मावर्त्तं प्रचक्षते” मनूक्ते

१ देशभेदे

२ तत्रस्थे तीर्थभेदे च भा॰ ब॰

८३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मावर्त्त¦ m. (-र्त्तः) The country to the north-west of Delhi, lying between the rivers Saraswati4 and Drishadwati. E. ब्रह्म a Bra4h- man आवर्त्त abode.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BRAHMĀVARTTA : A holy place situated in Kuruk- ṣetra. It is mentioned in Mahābhārata, Vana Parva, Chapter 83, Stanza 53, that he who takes a bath in this holy place will go to the world of Brahmā. Manu- smṛti, Chapter 2, Stanza 17, refers to this Brahmāvartta. Manu says as follows:

“Sarasvatīdṛṣadvatyor-
devanadyoryadantaram /
Taddevanirmitaṁ deśaṁ
Brahmāvarttaṁ pracakṣate. //


“The place between the two rivers Sarasvatī and Dṛṣad- vatī is called Brahmāvartta, which was made by the devas.”


_______________________________
*3rd word in left half of page 160 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मावर्त्त&oldid=433976" इत्यस्माद् प्रतिप्राप्तम्