भारतम्

विकिशब्दकोशः तः

भारतम् (क्ली)[सम्पाद्यताम्]

  1. भारतम् इति राष्ट्रम्; जम्बुद्वीपस्य नववर्षान्तर्गतवर्षविशेषः;
  2. महाभारतम् इति नाम्ना व्यासप्रणीतलक्षश्लोकात्मकेतिहास: ।

कल्पद्रुमः[सम्पाद्यताम्]

भारतम्, क्ली, (भरतान् भरतवंशीयानधिकृत्य कृतो ग्रन्थ इत्यण् । यद्बा, भारं चतुर्वेदादिशास्त्रे- भ्योऽपि सारांशं तनोतीति । तन् + डः ।) ग्रन्थभेदः । इति मेदिनी ।

ते, १३८ ॥ तत्तु व्यासप्रणीतलक्षश्लोकात्मकमहाभारतसंज्ञकेतिहासः ।

तस्य श्रवणादिफलं यथा, --

“भारतं शृणुयान्नित्यं भारतं परिकीर्त्तयेत् । भारतं भवने यस्य तस्य हस्तगतो जयः ॥ यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे सुबहुश्रुताय । पुण्याञ्च भारतकथां शृणुयाच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव ॥ नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा । ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठश्चतुष्पदाम् । यथैतानीतिहासानां तथा भारतमुच्यते ॥ यश्चैनं श्रावयेत् श्राद्धे ब्राह्मणान् पादमन्ततः । अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते ॥ इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ कार्ष्णं वेदमिमं विद्वान् श्रावयित्वार्थमश्वुते । भ्रूणहत्याकृतञ्चापि पापं जह्यादसंशयः ॥” इति महाभारतम् ॥ *

॥ तद्वृत्तान्तो यथा, -- ब्रह्मोवाच । “भारतं संप्रवक्ष्यामि भारावतरणं भुवः । चक्रे कृष्णो युध्यमानः पाण्डवादिनिमित्ततः ॥ विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्त्रोऽत्रिरत्रितः । सोमस्ततो बुधस्तस्मादुर्व्वश्यान्तु पुरोरवाः ॥ तस्माद्यस्तस्य पुत्त्रोऽभूद्ययातिर्भरतः कुरुः । शान्तनुस्तस्य वंशेऽभूद्गङ्गायां शान्तनोः सुतः ॥ हिमालयादासमुद्रं पुण्यक्षेत्रञ्च भारतम् । श्रेष्ठं सर्व्वस्थलानाञ्च मुनीनाञ्च तपःस्थलम् ॥ लब्ध्वा तत्र जन्म जीवो वञ्चोतो विष्णुमायया । शश्वत् करोति विषयं विहाय सेवनं हरेः ॥ कृत्वा तत्र महत् पुण्यं स्वर्गं गच्छति पुण्यवान् । गृहीत्वा स्वर्गकन्याश्च चिरं स्वर्गे प्रमोदते ॥ स्वर्गमागच्छति नरो विहाय मानवीं तनूम् ॥”

इति ब्रह्मवैवर्त्तपुराणे श्रीकृष्णजन्मखण्डे । १ । ५९ । अध्यायौ ॥

"https://sa.wiktionary.org/w/index.php?title=भारतम्&oldid=508142" इत्यस्माद् प्रतिप्राप्तम्