भ्रमरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमरः, पुं, (भ्रमति प्रतिकुसुममिति ॥ अर्त्ति- कमीत्यादिना । “उणा० ३ । १३२ । इति अरः ।) कीटविशेषः । (यथा, रघुवंशे । ८ । ३८ । “भ्रमरैः कुसुमानुसारिभिः ।”) तत्पर्य्यायः । मधुव्रतः २ मधुकरः ३ मधुलिट् ४ मधुपः ५ अली ६ द्विरेफः ७ पुष्पलिट् ८ भृङ्गः ९ षट्पदः १० अलिः ११ । इत्यमरः । २ । ५ । २९ ॥ कलालापः १२ शिलीमुखः १३ पुष्पन्धयः १४ मधु- कृत् १५ द्विपः १६ भसरः १७ चञ्चरीकः १८ सुकाण्डी १९ मधुलोलुपः २० इन्दिन्दिरः २१ मधु- मारकः २२ । इति राजनिर्घण्टः ॥ मधुपरः २३ लम्बः २४ पुष्पकीटः २५ मधुसूदनः २६ भृङ्गराजः २७ मधुलेही २८ रेणुवासः २९ । इति शब्द- रत्नावली ॥ कामुकः । इति मेदिनी । रे, १९१ ॥

"https://sa.wiktionary.org/w/index.php?title=भ्रमरः&oldid=503302" इत्यस्माद् प्रतिप्राप्तम्