युवती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवती, स्त्री, (यु + शतृ + ङीप् । इति सिद्धान्त- कौमुदी । ४ । १ । ७७ । कृदिति ङीष् । इत्यु- ज्ज्वलदत्तः । १ । १५६ ।) प्राप्तयौवना । यथा, बृहत्संहितायाम् । ७५ । ४ । “यो यं विचिन्तयति यानि स तन्मयत्वं यस्मादतः सुभगयेव गता युवत्यः ॥”) तत्पर्य्यायः । युवतिः २ यूनी ३ तरुणी ४ तलुनी ५ दिक्वरी ६ धनिका ७ धनीका ८ मध्यमा ९ दृष्टरजाः १० मध्यमिका ११ । इति शब्दरत्ना- वली ॥ ईश्वरी १२ वर्य्या १३ । इति हेमचन्द्रः । ३ । ५११ ॥ वयस्था १४ । इति राजनिर्घण्टः ॥ तस्या लक्षणादि यथा, -- “आषोडशाद्भवेद्वाला तरुणी त्रिंशता मता । पञ्चपञ्चाशतः प्रौढा वृद्धा भवति तत्परम् ॥” इति कालिदासः ॥ “बाला तु प्राणदा प्रोक्ता युवती प्राणहारिणी । प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् ॥ निदाघशरदोर्ब्बाला प्रौढा वर्षावसन्तयोः । हेमन्ते शिशिरे योग्या न वृद्धा क्वापि शस्यते ॥” योग्या युवती । इति राजवल्लभः ॥ स्त्रीसा- मान्यम् । यथा । प्रमदा चेति विज्ञेया युवतिश्च तथा स्मृतेति भागुरिः । प्राग्यौवना युवति- रिति वात्स्यायनः । इत्यमरटीकायां भरतः । २ । ६ । ८ ॥ * ॥ हरिद्रा । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युव(ति)ती¦ स्त्री युवन् + ति ङीप् वा।

१ यौवनवत्यां स्त्रि-याम् शब्दर॰। युवन्--ङीप्। यूनीत्यप्यत्र।

२ स्त्री-मात्रे भागुरिः

३ हरिद्रायां शब्दच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवती f. = युवति, a girl , young woman MBh. R. etc.

युवती f. (in astron. ) the zodiacal sign Virgo.

"https://sa.wiktionary.org/w/index.php?title=युवती&oldid=384533" इत्यस्माद् प्रतिप्राप्तम्