ललाटन्तपः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाटन्तपः, त्रि, (ललाटं तपतीति । ललाट + तप + “असूर्य्यललाटयोर्दृशितपोः ।” ३ । २ । ३६ । इति खश् । मुम् ।) ललाटतापकः । “ललाटन्तपः सूर्य्यः ।” इति सिद्धान्तकौमुदी ॥ (यथा, रघुः । १३ । ४१ । “हविर्भुजामेधवतां चतुर्णां मध्ये ललाटन्तपसप्तसप्तिः । असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥” यथा च, नैषधे । १ । १३८ । “कथं विधातर्म्मयि पाणिपङ्कजात् तव प्रिया शैत्यमृदुत्वशिल्पिनः । वियोक्ष्यसे वल्लभयेति निर्गता लिपिर्ललाटन्तपनिष्ठुराक्षरा ॥”)

"https://sa.wiktionary.org/w/index.php?title=ललाटन्तपः&oldid=162580" इत्यस्माद् प्रतिप्राप्तम्