लालाटिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालाटिकः, त्रि, (ललाटं पश्यतीति । ललाट + “संज्ञायां ललाटकुक्कुटौ पश्यति ।” ४ । ४ । ४६ । इति ठक् । दूरेस्थित्वा प्रभोर्ललाटं पश्यति न तु कार्य्येषूपतिष्ठते इत्यर्थः ।) प्रभोर्भालदर्शी ॥ कार्य्याक्षमः । इत्यमरः ॥ यः सेवकः क्रोध- प्रसादचिह्नज्ञानाय प्रभोर्ललाटमेव पश्यति । यश्च प्रभोः कार्य्येऽक्षमोऽशक्तस्तौ लालाटिकौ पूर्ब्ब- वत् ष्णिकः । केचित्तु कार्य्याक्षम इति भाल- दर्शिन एव विशेषणमुक्त्वा एकमेव लालाटिक- माहुर्न तु द्बाविति । भावदर्शीति च पाठः लालाटिकः सदालस्ये प्रभुभावनिदर्शिनि । इत्य- जयः ॥ इति तट्टीकायां भरतः ॥ आश्लेषण- विशेषे, पुं, । इति मेदिनी । के, २२१ ॥ ललाट- सम्बन्धिनि, त्रि । यथा । प्राप्तिस्तु लालाटिकी- त्यादि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालाटिक¦ त्रि॰ ललाटं प्रभोर्माग्यं पश्यति ठञ्।

१ प्रभु-भाग्यापजीविनि कार्य्यासमर्थे अमरः। ललाटात्ललाटस्थसाग्यात् आगतः तस्येदं वा ठण्।

२ भाग्या{??}-धीने त्रि॰
“प्राप्तिस्तु लालाटिकी” इत्युद्भटः।

३ ललाट-सम्बन्धिनि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालाटिक¦ mfn. (-कः-की-कं)
1. Relating to the forehead, worn on it, be- longing to it, &c.
2. Contemplating the forehead, looking at it, &c.
3. Low, vile.
4. Relating to fate or destiny. mf. (-कः-की)
1. An attentive servant, one who watches a master's countenance, and learns by it what is necessary to be done.
2. An idler, one who is unable to work, and is a burden to his patron. m. (-कः) A par- ticular mode of embracing. E. ललाट the forehead, aff. ठञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालाटिक [lālāṭika], a. (-की f.) [ललाटं प्रभोर्भालं पश्यति ठञ्]

Being on or relating to the forehead.

Arising from or dependent on fate; प्राप्तिस्तु लालाटिकी Udb.

Useless, low, vile.

Attentive, vigilant.

कः An attentive servant (lit. one who watches his master's countenance and learns by it what is necessary to be done).

An idler, a careless or useless person.

A kind of embrace.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालाटिक mf( ई)n. = -लालाटSee. , Kat2yS3r. Sch.

लालाटिक mf( ई)n. relating to fate or destiny (supposed to be written on the forehead) W.

लालाटिक mf( ई)n. useless , low , vile ib.

लालाटिक m. an attentive servant (as " one who watches his master's face or countenance ") L.

लालाटिक m. an idler (prob. as " one who is always gazing at the countenance of others ") L.

लालाटिक m. a mode of embracing L.

"https://sa.wiktionary.org/w/index.php?title=लालाटिक&oldid=228249" इत्यस्माद् प्रतिप्राप्तम्