लालाटिकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालाटिकः, त्रि, (ललाटं पश्यतीति । ललाट + “संज्ञायां ललाटकुक्कुटौ पश्यति ।” ४ । ४ । ४६ । इति ठक् । दूरेस्थित्वा प्रभोर्ललाटं पश्यति न तु कार्य्येषूपतिष्ठते इत्यर्थः ।) प्रभोर्भालदर्शी ॥ कार्य्याक्षमः । इत्यमरः ॥ यः सेवकः क्रोध- प्रसादचिह्नज्ञानाय प्रभोर्ललाटमेव पश्यति । यश्च प्रभोः कार्य्येऽक्षमोऽशक्तस्तौ लालाटिकौ पूर्ब्ब- वत् ष्णिकः । केचित्तु कार्य्याक्षम इति भाल- दर्शिन एव विशेषणमुक्त्वा एकमेव लालाटिक- माहुर्न तु द्बाविति । भावदर्शीति च पाठः लालाटिकः सदालस्ये प्रभुभावनिदर्शिनि । इत्य- जयः ॥ इति तट्टीकायां भरतः ॥ आश्लेषण- विशेषे, पुं, । इति मेदिनी । के, २२१ ॥ ललाट- सम्बन्धिनि, त्रि । यथा । प्राप्तिस्तु लालाटिकी- त्यादि ॥

"https://sa.wiktionary.org/w/index.php?title=लालाटिकः&oldid=162736" इत्यस्माद् प्रतिप्राप्तम्