लोष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोष्ट, ङ संहतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) ङ, लोष्टते धान्यं लोकः । इति दुर्गादासः ॥

लोष्टम्, क्ली, (लोष्टते इति । लोष्ट + अच् ।) लौहमलम् । इति राजनिर्घण्टः ॥ लेष्टुः । इत्यमरः ॥

लोष्टः, पुं क्ली, (लोष्ट्यते इति । लोष्ट + घञ् । यद्वा, लूयते इति । लू + “लोष्टपलितौ ।” उणा० ३ । ९२ । इति क्तप्रत्ययेन निपातितः ।) मृत्तिकाखण्डम् । डेला इति भाषा । तत्- पर्य्यायः । लोष्टुः २ । इति शब्दरत्नावली अम- रश्च ॥ लोष्टुः ३ दलिः ४ । इति हेमचन्द्रः ॥ (यथा, वेतालपञ्चविंशत्याम् । १ । “अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोष्ट पुं-नपुं।

मृद्खण्डः

समानार्थक:लोष्ट,लेष्टु

2।9।12।1।1

लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः । प्राजनं तोदनं तोत्रं खनित्रमवदारणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोष्ट¦ संहतौ राशीकरणे भ्वा॰ आ॰ सक॰ सेट्। लोष्टति अलोष्टिष्ट।

लोष्ट¦ पुंन॰ लोष्ट--अच्।

१ मृत्पिण्डे (ढेला) अमर।

२ लौह-मले राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोष्ट¦ mn. (-ष्टः-ष्टं) A lump of earth. n. (-ष्टं) Rust of iron or iron filings. E. लोष्ट् to heap, aff. अच्; or लू to cut, Una4di aff. क्त, with change of the radical vowel, सुट् aug.; also with कन् added लोष्टक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोष्टः [lōṣṭḥ] ष्टम् [ṣṭam], ष्टम् [लुष्-तन् Uṇ.3.93] A clod, a lump of earth; परद्रव्येषु लोष्टवत् यः पश्यति स पश्यति; समलोष्टकाञ्चनः R.8.21; स लोष्टघातं हतः Mu.2. -ष्टम् Rust of iron.-Comp. -गुटिका a pellet of clay. -घातः a blow with clod. -घ्नः, -भेदनः, -नम् an instrument for breaking clods, a harrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोष्ट mn. (prob. connected with 1. रुज्; said to be fr. 1. लूUn2. iii , 92 )a lump of earth or clay , clod TS. etc.

लोष्ट mn. a partic. object serving as a mark VarBr2S. Sch.

लोष्ट n. rust of iron L.

लोष्ट m. N. of a man Ra1jat.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोष्ट पु.
मिट्टी का ढेला, मा.श्रौ.सू. 6.1.6.4; कीचड़ का ढेला, बौ.श्रौ.सू. 6.25।

"https://sa.wiktionary.org/w/index.php?title=लोष्ट&oldid=480078" इत्यस्माद् प्रतिप्राप्तम्