वसतिः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • गृहं, गेहं, गारं, सदनं, निकेतनं, मंदिरं, वासः, निवासः, भवनं, आयतनं, निवासस्थानं, आवसथः, उदवसितं, निकाय्यः।

नाम[सम्पाद्यताम्]

  • वसति नाम गृहं, भवनम्।

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • मम गृहं श्रीनिवास नगरे अस्ति।
  • पुण्यक्षेत्रे वसति अस्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसतिः, स्त्री, (वस निवासे + “वहिवस्यर्त्तिभ्य- श्चित् ।” उणा० ४ । ६० । इति भावाधि- करणादौ अतिः) । वासः । (यथा, अमरु- शतके । ११ । “धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं दीर्घोच्छ्वासमुदश्रुणा विरहिनीं बालां चिरं ध्यायता । अध्वन्येन विमुक्तकण्ठकरुणं रात्रौ तथा क्रन्दितं ग्रामीणैर्व्र जतो जनस्य वसतिर्ग्रामे निषिद्धा यथा, ॥”) यामिनी । निकेतनम् । इति मेदिनी । ते, १५० ॥ (यथा, कुमारे । ४ । ११ । “रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः । वसतिं प्रिय ! कामिनां प्रियाः त्वदृते प्रापयितुं क ईश्वरः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसतिः [vasatiḥ] ती [tī], ती f. [वस्-अति वा ङीप् Uṇ.4.62]

Dwelling, residing, abiding; आश्रमेषु वसतिं चक्रे Me.1 'fixed his residence in'; कमलवसतिमात्रनिर्वृतः Ś.5.1.

A house, dwelling, residence, habitation; हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः P. R.1.22; Ś.2.15.

A receptacle, reservoir, an abode (fig.); अलकामतिवाह्यैव वसतिं वसुसंपदाम् Ku.6.37; so विनयवसतिः, धर्मैकवसतिः.

A camp, halting place (शिबिर).

The time when one halts or stays to rest, i. e. night; तस्य मार्गवशादेका बभूव वसतिर्यतः R.15.11 (वसतिः = रात्रिः Malli.) 'he halted at night' &c.; तिस्नो वसतीरुषित्वा 7.33;11.3.

A Jaina monastery.

"https://sa.wiktionary.org/w/index.php?title=वसतिः&oldid=506951" इत्यस्माद् प्रतिप्राप्तम्