विज्ञानम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञानम्, क्ली, (वि + ज्ञा + ल्युट् ।) ज्ञानम् । कर्म्म । इति मेदिनी । ने, ११३ ॥ कार्म्मणम् । इति हेमचन्द्रः ॥ “मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्प- शास्त्रयोः ॥” इत्यमरः ॥ “विशेषेण सामान्येन चावबोधो मोक्षो मुक्तिः शिल्पं चित्रादिशास्त्रं व्याकरणादि । मोक्षे शिल्पे शास्त्रे च या धीः सा ज्ञानं विज्ञानञ्चो- च्यते एषा विशेषप्रवृत्तिः । अन्यत्र घटपटादौ या धीः सापि ज्ञानं विज्ञानञ्चोच्यते । एषा सामान्यप्रवृत्तिः । मोक्षे धीर्ज्ञानं विज्ञानञ्च यथा । ज्ञानान्मुक्तिरिति । सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति इति । अन्यत्र यथा । ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे इति । घटत्वप्रकारकज्ञानमिति । ये केचित् प्राणिनो लोके सर्व्वे विज्ञानिनो मता इति । ब्रह्मणो नित्यविज्ञानानन्दरूपत्वात् इति । एवं चित्रज्ञानं व्याकरणज्ञानं घटपटविज्ञानमित्या- दिकं प्रयुज्यत एव । तद्विगमे गरुत्मदादिशब्द- वत् गरुत्मच्छब्दो हि गरुडे पक्षिमात्रे च वर्त्तते । मोक्ष इति निमित्तसप्तमी मोक्षनिमित्तं शिल्पशास्त्रयोर्धोर्ज्ञानमुच्यते । तन्निमित्ततो- ऽन्यनिमित्तं या तयोर्धीः सा विज्ञानमिति केचित् । मोक्षविषया मोक्षफला धीर्ज्ञानं अन्यधीर्व्विज्ञानम् । क्वान्यत्र इत्याह शिल्प- शास्त्रयोरिति केचित् । अवबोध इत्यध्याहृत्य मोक्षविषयेऽवबोधो धीर्ज्ञानं अन्यत्र घटपटादि- विज्ञानं शिल्पशास्त्रविषये विज्ञानमिति केचित् । जानातेरनट् ज्ञानं विविधं विरूपं वा ज्ञानं विज्ञानम् ।” इत्यमरटीकायां भरतः ॥ * ॥ तत्तु ब्राह्मणस्य लक्षणविशेषः । यथा, -- “क्षमा दया च विज्ञानं सत्यञ्चैव दमः शमः । अध्यात्मनित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् ॥” ज्ञानविज्ञानयोर्लक्षणं यथा, -- “चतुर्द्दशानां विद्यानां धारणं हि यथार्थतः । विज्ञानमितरं विद्याद्येन धर्म्मो विवर्द्धते ॥ अधीत्य विधिवद्विद्यामर्थञ्चैवोपलभ्य तु । धर्म्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते ॥ यया स देवो भगवान् विद्यते यत्र विद्यते । साक्षादेव महादेवस्तज्ज्ञानमिति कीर्त्तितम् ॥” इति कौर्म्मे उपविभागे १४ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञानम् [vijñānam], 1 Knowledge, wisdom, intelligence, understanding; यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानशौर्यविभवार्यगुणैः समेतम् । तन्नाम जीवितमिह ... Pt.1.24;5.3; विज्ञानमयः कोशः 'the sheath of intelligence' (the first of the five sheaths of the soul).

Discrimination, discernment.

Skill, proficiency; प्रयोगविज्ञानम् Ś.1.2.

Worldly or profane knowledge, knowledge derived from worldly experience (opp. ज्ञान which is 'knowledge of Brahma or Supreme Spirit'); ज्ञानं ते$हं सविज्ञानमिदं वक्ष्याम्यशेषतः Bg.7.2;3.41;6.8; (the whole of the 7th Adhyāya of Bg. explains ज्ञान and विज्ञान).

Business, employment.

Music.

Knowledge of the fourteen lores.

The organ of knowledge; पञ्चविज्ञानचेतने (शरीरे) Mb.12.187. 12.

Knowledge beyond the cognisance of the senses (अतीन्द्रियविषय); विज्ञानं हि महद्भ्रष्टम् Rām.3.71.3.

Information; लब्धविज्ञानम् Mb.12.44.5. -Comp. -ईश्वर N. of the author of the Mitākṣarā, a commentary on Yājñavalkya's Smṛiti. -पादः N. of Vyāsa. -मातृकः an epithet of Buddha. -योगः means of arriving at correct knowledge (प्रमाण); केन विज्ञानयोगेन मतिश्चित्तं समास्थिता Mb. 14.21.11. -वादः the theory of knowledge, the doctrine taught by Buddha. -स्कन्धः one of the five स्कन्धs postulated in the Buddhistic philosophy (रूपवेदना- विज्ञानसंज्ञासंस्काराः क्षणिकविज्ञानस्कन्धे स्मृतिरनुपपन्ना ŚB. on MS.1.1.5.

"https://sa.wiktionary.org/w/index.php?title=विज्ञानम्&oldid=257155" इत्यस्माद् प्रतिप्राप्तम्