शिविः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिविः, पुं, हिंस्रपशुः । इति त्रिकाण्डशेषः ॥ भूर्ज्जवृक्षः । राजविशेषः । स च उशीनरराज- पुत्त्रः । इति मेदिनी ॥ तस्य चरित्रं यथा, -- मैत्रेय उवाच । “शृणु राजन् ! प्रवक्ष्यामि स्वमांसं शिविना यथा समांशं दत्त्ववान् सत्यं पुरा ह्यौशीनरो युवा ॥ सत्यदानरतं ज्ञात्वा शिविमिन्द्राशुशुक्षणी । जिज्ञासार्थं समेयातां वर्त्तमाने महाध्वरे ॥ वह्निर्भुत्वा कपोतस्तु हरिश्येनपुरःसरः । शरणार्थो महीपालं निनिन्ये भयविह्वलः ॥ त्राहि मां पृथिवीपालेत्यवदत् श्येनजाद्भयात् । स तमाश्वासयामास कपोतं शरणागतम् ॥ राजानमुपगम्याथ श्येनः प्रोवाच संसदि । वचनं शृणु मे राजन् ! क्षुधार्त्तस्य कुटुम्बिनः ॥ धर्म्मात्मानं त्वामाहुर्वै पृथिव्यां सर्व्वपार्थिवाः । तद्विरुद्धं कथं कर्म्म कर्त्तुमिच्छसि पार्थिव ॥ सर्व्वस्य सम्पदः स्वार्थाः स्वपरार्थास्तु कस्यचित् । परार्था भवतो नित्यं सफलस्य तरोरिव ॥ नोपकारपरेऽप्ये वमुपकारपरो जनः । अपकारपरेऽपि त्वमुपकारपरः सदा ॥ ममैव विहितो धात्रा भक्ष्योऽयं त्वं समुत्सृज । स श्येनमाह संप्राप्तस्त्राणार्थो सन्निधा मम ॥ तस्मात्तवाहं न समर्पयिष्ये कपोतकं श्येन यदत्र युक्तम् । त्वं मन्यसे तत् करवाणि सर्व्व- मृते कपोतात् खलु सत्यमत्र ॥ तुभ्यं हि सुमहद्राज्यं प्रयच्छामि विहङ्गम । यथा कामयसे चान्यद्वर्ज्जयित्वा कपोतकम् ॥ श्येनः प्राह किमेतत्ते प्रीतिरासीत् खगे दृढा । कथञ्चिदस्य तुल्यानि स्वमांसानि प्रयच्छ मे ॥ राजा तमब्रवीद्धृष्टो यन्मे मांसानि याचसे । एतद्यच्छामि ते सद्यः स्वमांसं तुलया धृतम् ॥ एवमुक्त्वा स्वमांसानि कपोतेन समं नृपः । उत्कृत्य तोलयामास प्रहृष्टो मनसा ततः ॥ तुलया ध्रियमाणस्तु कपोतो व्यतिरिच्यते । पुनश्चोत्कृत्य मांसानि ततः प्रादात् स पार्थिवः न विद्यते यदा मांसं कपोतेन समं क्वचित् । ततः प्रक्षीणमांसोऽपि साधुः सुखयते परम् ॥ यदा तेन न तुल्यं तत् स तुलामारुहत् स्वयम् । अन्तःपुरस्त्रीषु न राज्ये न च जीविते ॥ करुणासक्तचित्तेन तेनापेक्षा कृता क्वचित् । परदुःखातुरा नित्यं स्वसुखानि महन्त्यपि ॥ नापेक्षन्ते महात्मानः सर्व्वभूतहिते रताः । पराथमुद्यताः सन्तः सन्तः किं किं न कुर्वते ॥ तादृगप्यम्बुधेर्व्वारि जलदैस्तत् प्रपीयते । एक एव सतां मार्गो यदङ्गीकृतपालनम् ॥ दहन्तमकरोत् क्रोडे पावकं यदपां पतिः । आत्मानं पीडयित्वापि साधुः सुखयते परम् ॥ ह्लादयन् तापितान् वृक्षो दुःखञ्च सहते स्वयम् अथ तस्मिन् समारूढे पुष्पवर्षं पपात च ॥ देवदुन्दुभयो नेदुस्तुलामौशीनरे नृपे । ततस्तस्य तदा ज्ञात्वा वाक्यं चैतदभाषत ॥ शक्रः स्वरूपमास्थाय धर्म्मे राज्ञः परिस्थितिम् । इन्द्रोऽहमस्मि भद्रं ते कपोतो हव्यवाहनः ॥ जिज्ञासमानौ त्वां राजन्निमं यज्ञमुपागतौ । महाकारुणिकेनेह यत् कृतं तत् सुदुष्करम् ॥ नैव पूर्व्वे नृपाश्चक्रुनं करिष्यन्ति चापरे । यत्ते मांसानि गात्रेभ्यः समुत्कृत्तानि पार्थिव ॥ एषा ते शाश्वती कीर्त्तिर्लोकाननुभविष्यति । दिष्यरूपधरश्चैव पालयित्वा महीं चिरम् ॥ सर्व्वान् लोकानतिक्रम्य ब्रह्मलोकं गमिष्यति । एव मुक्त्वा तमिन्द्राग्नी जग्मतुस्त्रिदशालयम् । राजा तु क्रतुमिष्टा तं मुमुदे देवतां तदा ॥” इति वह्निपुराणे शिवेरुपाख्याननामाध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिविः [śiviḥ], 1 A beast of prey.

The birch tree.

"https://sa.wiktionary.org/w/index.php?title=शिविः&oldid=332878" इत्यस्माद् प्रतिप्राप्तम्